वैशम्पाय़न उवाच:
अथासीनेषु सर्वेषु तेषु राजसु भारत |
१ क
वैशम्पाय़न उवाच:
कोटिकाश्यवचः श्रुत्वा शैव्यं सौवीरकोऽव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः |
२ क
वैशम्पाय़न उवाच:
सीमन्तिनीनां मुख्याय़ां विनिवृत्तः कथं भवान् ||
२ ख
वैशम्पाय़न उवाच:
एतां दृष्ट्वा स्त्रिय़ो मेऽन्या यथा शाखामृगस्त्रिय़ः |
३ क
वैशम्पाय़न उवाच:
प्रतिभान्ति महावाहो सत्यमेतद्व्रवीमि ते ||
३ ख
वैशम्पाय़न उवाच:
दर्शनादेव हि मनस्तय़ा मेऽपहृतं भृशम् |
४ क
वैशम्पाय़न उवाच:
तां समाचक्ष्व कल्याणीं यदि स्याच्छैव्य मानुषी ||
४ ख
कोटिकाश्य उवाच:
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी |
५ क
कोटिकाश्य उवाच:
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ||
५ ख
कोटिकाश्य उवाच:
सर्वेषां चैव पार्थानां प्रिय़ा वहुमता सती |
६ क
कोटिकाश्य उवाच:
तय़ा समेत्य सौवीर सुवीरान्सुसुखी व्रज ||
६ ख
वैशम्पाय़न उवाच:
एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति |
७ क
वैशम्पाय़न उवाच:
पतिः सौवीरसिन्धूनां दुष्टभावो जय़द्रथः ||
७ ख
वैशम्पाय़न उवाच:
स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा |
८ क
वैशम्पाय़न उवाच:
आत्मना सप्तमः कृष्णामिदं वचनमव्रवीत् ||
८ ख
वैशम्पाय़न उवाच:
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामय़ाः |
९ क
वैशम्पाय़न उवाच:
येषां कुशलकामासि तेऽपि कच्चिदनामय़ाः ||
९ ख
द्रौपद्यु उवाच:
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः |
१० क
द्रौपद्यु उवाच:
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ||
१० ख
द्रौपद्यु उवाच:
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज |
११ क
द्रौपद्यु उवाच:
मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते ||
११ ख
द्रौपद्यु उवाच:
ऐणेय़ान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् |
१२ क
द्रौपद्यु उवाच:
ऋश्यान्रुरूञ्शम्वरांश्च गवय़ांश्च मृगान्वहून् ||
१२ ख
द्रौपद्यु उवाच:
वराहान्महिषांश्चैव याश्चान्या मृगजातय़ः |
१३ क
द्रौपद्यु उवाच:
प्रदास्यति स्वय़ं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः ||
१३ ख
जय़द्रथ उवाच:
कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता |
१४ क
जय़द्रथ उवाच:
एहि मे रथमारोह सुखमाप्नुहि केवलम् ||
१४ ख
जय़द्रथ उवाच:
गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः |
१५ क
जय़द्रथ उवाच:
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ||
१५ ख
जय़द्रथ उवाच:
न वै प्राज्ञा गतश्रीकं भर्तारमुपय़ुञ्जते |
१६ क
जय़द्रथ उवाच:
युञ्जानमनुय़ुञ्जीत न श्रिय़ः सङ्क्षय़े वसेत् ||
१६ ख
जय़द्रथ उवाच:
श्रिय़ा विहीना राज्याच्च विनष्टाः शाश्वतीः समाः |
१७ क
जय़द्रथ उवाच:
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ||
१७ ख
जय़द्रथ उवाच:
भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि |
१८ क
जय़द्रथ उवाच:
अखिलान्सिन्धुसौवीरानवाप्नुहि मय़ा सह ||
१८ ख
वैशम्पाय़न उवाच:
इत्युक्ता सिन्धुराजेन वाक्यं हृदय़कम्पनम् |
१९ क
वैशम्पाय़न उवाच:
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ||
१९ ख
वैशम्पाय़न उवाच:
अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा |
२० क
वैशम्पाय़न उवाच:
मैवमित्यव्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ||
२० ख
वैशम्पाय़न उवाच:
सा काङ्क्षमाणा भर्तॄणामुपय़ानमनिन्दिता |
२१ क
वैशम्पाय़न उवाच:
विलोभय़ामास परं वाक्यैर्वाक्यानि युञ्जती ||
२१ ख