युधिष्ठिर उवाच:
सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् |
१ क
युधिष्ठिर उवाच:
प्रतिभा त्वस्ति मे काचित्तां व्रूय़ामनुमानतः ||
१ ख
युधिष्ठिर उवाच:
भूय़ांसो हृदय़े ये मे प्रश्नास्ते व्याहृतास्त्वय़ा |
२ क
युधिष्ठिर उवाच:
इममन्यं प्रवक्ष्यामि न राजन्विग्रहादिव ||
२ ख
युधिष्ठिर उवाच:
इमानि हि प्रापय़न्ति सृजन्त्युत्तारय़न्ति च |
३ क
युधिष्ठिर उवाच:
न धर्मः परिपाठेन शक्यो भारत वेदितुम् ||
३ ख
युधिष्ठिर उवाच:
अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः |
४ क
युधिष्ठिर उवाच:
आपदस्तु कथं शक्याः परिपाठेन वेदितुम् ||
४ ख
युधिष्ठिर उवाच:
सदाचारो मतो धर्मः सन्तस्त्वाचारलक्षणाः |
५ क
युधिष्ठिर उवाच:
साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणम् ||
५ ख
युधिष्ठिर उवाच:
दृश्यते धर्मरूपेण अधर्मं प्राकृतश्चरन् |
६ क
युधिष्ठिर उवाच:
धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन् ||
६ ख
युधिष्ठिर उवाच:
पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः |
७ क
युधिष्ठिर उवाच:
वेदवादाश्चानुय़ुगं ह्रसन्तीति ह नः श्रुतम् ||
७ ख
युधिष्ठिर उवाच:
अन्ये कृतय़ुगे धर्मास्त्रेताय़ां द्वापरेऽपरे |
८ क
युधिष्ठिर उवाच:
अन्ये कलिय़ुगे धर्मा यथाशक्तिकृता इव ||
८ ख
युधिष्ठिर उवाच:
आम्नाय़वचनं सत्यमित्ययं लोकसङ्ग्रहः |
९ क
युधिष्ठिर उवाच:
आम्नाय़ेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः ||
९ ख
युधिष्ठिर उवाच:
ते चेत्सर्वे प्रमाणं वै प्रमाणं तन्न विद्यते |
१० क
युधिष्ठिर उवाच:
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः ||
१० ख
युधिष्ठिर उवाच:
धर्मस्य ह्रिय़माणस्य वलवद्भिर्दुरात्मभिः |
११ क
युधिष्ठिर उवाच:
या या विक्रिय़ते संस्था ततः सापि प्रणश्यति ||
११ ख
युधिष्ठिर उवाच:
विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा |
१२ क
युधिष्ठिर उवाच:
अणीय़ान्क्षुरधाराय़ा गरीय़ान्पर्वतादपि ||
१२ ख
युधिष्ठिर उवाच:
गन्धर्वनगराकारः प्रथमं सम्प्रदृश्यते |
१३ क
युधिष्ठिर उवाच:
अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम् ||
१३ ख
युधिष्ठिर उवाच:
निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत |
१४ क
युधिष्ठिर उवाच:
स्मृतोऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते ||
१४ ख
युधिष्ठिर उवाच:
कामादन्ये क्षय़ादन्ये कारणैरपरैस्तथा |
१५ क
युधिष्ठिर उवाच:
असन्तो हि वृथाचारं भजन्ते वहवोऽपरे ||
१५ ख
युधिष्ठिर उवाच:
धर्मो भवति स क्षिप्रं विलीनस्त्वेव साधुषु |
१६ क
युधिष्ठिर उवाच:
अन्ये तानाहुरुन्मत्तानपि चावहसन्त्युत ||
१६ ख
युधिष्ठिर उवाच:
महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः |
१७ क
युधिष्ठिर उवाच:
न हि सर्वहितः कश्चिदाचारः सम्प्रदृश्यते ||
१७ ख
युधिष्ठिर उवाच:
तेनैवान्यः प्रभवति सोऽपरं वाधते पुनः |
१८ क
युधिष्ठिर उवाच:
दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छय़ा ||
१८ ख
युधिष्ठिर उवाच:
येनैवान्यः प्रभवति सोऽपरानपि वाधते |
१९ क
युधिष्ठिर उवाच:
आचाराणामनैकाग्र्यं सर्वेषामेव लक्षय़ेत् ||
१९ ख
युधिष्ठिर उवाच:
चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः |
२० क
युधिष्ठिर उवाच:
तेनाचारेण पूर्वेण संस्था भवति शाश्वती ||
२० ख