chevron_left वन पर्व अध्याय ५४
वृहदश्व उवाच:
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा |
१ क
वृहदश्व उवाच:
आजुहाव महीपालान्भीमो राजा स्वय़ंवरे ||
१ ख
वृहदश्व उवाच:
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छय़पीडिताः |
२ क
वृहदश्व उवाच:
त्वरिताः समुपाजग्मुर्दमय़न्तीमभीप्सवः ||
२ ख
वृहदश्व उवाच:
कनकस्तम्भरुचिरं तोरणेन विराजितम् |
३ क
वृहदश्व उवाच:
विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् ||
३ ख
वृहदश्व उवाच:
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः |
४ क
वृहदश्व उवाच:
सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः ||
४ ख
वृहदश्व उवाच:
तां राजसमितिं पूर्णां नागैर्भोगवतीमिव |
५ क
वृहदश्व उवाच:
सम्पूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव ||
५ ख
वृहदश्व उवाच:
तत्र स्म पीना दृश्यन्ते वाहवः परिघोपमाः |
६ क
वृहदश्व उवाच:
आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ||
६ ख
वृहदश्व उवाच:
सुकेशान्तानि चारूणि सुनासानि शुभानि च |
७ क
वृहदश्व उवाच:
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ||
७ ख
वृहदश्व उवाच:
दमय़न्ती ततो रङ्गं प्रविवेश शुभानना |
८ क
वृहदश्व उवाच:
मुष्णन्ती प्रभय़ा राज्ञां चक्षूंषि च मनांसि च ||
८ ख
वृहदश्व उवाच:
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् |
९ क
वृहदश्व उवाच:
तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् ||
९ ख
वृहदश्व उवाच:
ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत |
१० क
वृहदश्व उवाच:
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव ||
१० ख
वृहदश्व उवाच:
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् |
११ क
वृहदश्व उवाच:
सन्देहादथ वैदर्भी नाभ्यजानान्नलं नृपम् |
११ ख
वृहदश्व उवाच:
यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् ||
११ ग
वृहदश्व उवाच:
सा चिन्तय़न्ती वुद्ध्याथ तर्कय़ामास भामिनी |
१२ क
वृहदश्व उवाच:
कथं नु देवाञ्जानीय़ां कथं विद्यां नलं नृपम् ||
१२ ख
वृहदश्व उवाच:
एवं सञ्चिन्तय़न्ती सा वैदर्भी भृशदुःखिता |
१३ क
वृहदश्व उवाच:
श्रुतानि देवलिङ्गानि चिन्तय़ामास भारत ||
१३ ख
वृहदश्व उवाच:
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे |
१४ क
वृहदश्व उवाच:
तानीह तिष्ठतां भूमावेकस्यापि न लक्षय़े ||
१४ ख
वृहदश्व उवाच:
सा विनिश्चित्य वहुधा विचार्य च पुनः पुनः |
१५ क
वृहदश्व उवाच:
शरणं प्रति देवानां प्राप्तकालममन्यत ||
१५ ख
वृहदश्व उवाच:
वाचा च मनसा चैव नमस्कारं प्रय़ुज्य सा |
१६ क
वृहदश्व उवाच:
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमव्रवीत् ||
१६ ख
वृहदश्व उवाच:
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः |
१७ क
वृहदश्व उवाच:
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ||
१७ ख
वृहदश्व उवाच:
वाचा च मनसा चैव यथा नाभिचराम्यहम् |
१८ क
वृहदश्व उवाच:
तेन सत्येन विवुधास्तमेव प्रदिशन्तु मे ||
१८ ख
वृहदश्व उवाच:
यथा देवैः स मे भर्ता विहितो निषधाधिपः |
१९ क
वृहदश्व उवाच:
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ||
१९ ख
वृहदश्व उवाच:
स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः |
२० क
वृहदश्व उवाच:
यथाहमभिजानीय़ां पुण्यश्लोकं नराधिपम् ||
२० ख
वृहदश्व उवाच:
निशम्य दमय़न्त्यास्तत्करुणं परिदेवितम् |
२१ क
वृहदश्व उवाच:
निश्चय़ं परमं तथ्यमनुरागं च नैषधे ||
२१ ख
वृहदश्व उवाच:
मनोविशुद्धिं वुद्धिं च भक्तिं रागं च भारत |
२२ क
वृहदश्व उवाच:
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ||
२२ ख
वृहदश्व उवाच:
सापश्यद्विवुधान्सर्वानस्वेदान्स्तव्धलोचनान् |
२३ क
वृहदश्व उवाच:
हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ||
२३ ख
वृहदश्व उवाच:
छाय़ाद्वितीय़ो म्लानस्रग्रजःस्वेदसमन्वितः |
२४ क
वृहदश्व उवाच:
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ||
२४ ख
वृहदश्व उवाच:
सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत |
२५ क
वृहदश्व उवाच:
नैषधं वरय़ामास भैमी धर्मेण भारत ||
२५ ख
वृहदश्व उवाच:
विलज्जमाना वस्त्रान्ते जग्राहाय़तलोचना |
२६ क
वृहदश्व उवाच:
स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम् |
२६ ख
वृहदश्व उवाच:
वरय़ामास चैवैनं पतित्वे वरवर्णिनी ||
२६ ग
वृहदश्व उवाच:
ततो हा हेति सहसा शव्दो मुक्तो नराधिपैः |
२७ क
वृहदश्व उवाच:
देवैर्महर्षिभिश्चैव साधु साध्विति भारत |
२७ ख
वृहदश्व उवाच:
विस्मितैरीरितः शव्दः प्रशंसद्भिर्नलं नृपम् ||
२७ ग
वृहदश्व उवाच:
वृते तु नैषधे भैम्या लोकपाला महौजसः |
२८ क
वृहदश्व उवाच:
प्रहृष्टमनसः सर्वे नलाय़ाष्टौ वरान्ददुः ||
२८ ख
वृहदश्व उवाच:
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् |
२९ क
वृहदश्व उवाच:
नैषधाय़ ददौ शक्रः प्रीय़माणः शचीपतिः ||
२९ ख
वृहदश्व उवाच:
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः |
३० क
वृहदश्व उवाच:
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ||
३० ख
वृहदश्व उवाच:
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् |
३१ क
वृहदश्व उवाच:
अपाम्पतिरपां भावं यत्र वाञ्छति नैषधः ||
३१ ख
वृहदश्व उवाच:
स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः |
३२ क
वृहदश्व उवाच:
वरानेवं प्रदाय़ास्य देवास्ते त्रिदिवं गताः ||
३२ ख
वृहदश्व उवाच:
पार्थिवाश्चानुभूय़ास्या विवाहं विस्मय़ान्विताः |
३३ क
वृहदश्व उवाच:
दमय़न्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् ||
३३ ख
वृहदश्व उवाच:
अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः |
३४ क
वृहदश्व उवाच:
रेमे सह तय़ा राजा शच्येव वलवृत्रहा ||
३४ ख
वृहदश्व उवाच:
अतीव मुदितो राजा भ्राजमानोंऽशुमानिव |
३५ क
वृहदश्व उवाच:
अरञ्जय़त्प्रजा वीरो धर्मेण परिपालय़न् ||
३५ ख
वृहदश्व उवाच:
ईजे चाप्यश्वमेधेन यय़ातिरिव नाहुषः |
३६ क
वृहदश्व उवाच:
अन्यैश्च क्रतुभिर्धीमान्वहुभिश्चाप्तदक्षिणैः ||
३६ ख
वृहदश्व उवाच:
पुनश्च रमणीय़ेषु वनेषूपवनेषु च |
३७ क
वृहदश्व उवाच:
दमय़न्त्या सह नलो विजहारामरोपमः ||
३७ ख
वृहदश्व उवाच:
एवं स यजमानश्च विहरंश्च नराधिपः |
३८ क
वृहदश्व उवाच:
ररक्ष वसुसम्पूर्णां वसुधां वसुधाधिपः ||
३८ ख