सञ्जय़ उवाच:
प्राय़ोपविष्टे तु हते पुत्रे सात्यकिना ततः |
१ क
सञ्जय़ उवाच:
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमव्रवीत् ||
१ ख
सञ्जय़ उवाच:
क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः |
२ क
सञ्जय़ उवाच:
तं त्वं सात्वत सन्त्यज्य दस्युधर्मे कथं रतः ||
२ ख
सञ्जय़ उवाच:
पराङ्मुखाय़ दीनाय़ न्यस्तशस्त्राय़ याचते |
३ क
सञ्जय़ उवाच:
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ||
३ ख
सञ्जय़ उवाच:
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ |
४ क
सञ्जय़ उवाच:
प्रद्युम्नश्च महावाहुस्त्वं चैव युधि सात्वत ||
४ ख
सञ्जय़ उवाच:
कथं प्राय़ोपविष्टाय़ पार्थेन छिन्नवाहवे |
५ क
सञ्जय़ उवाच:
नृशंसं पतनीय़ं च तादृशं कृतवानसि ||
५ ख
सञ्जय़ उवाच:
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च |
६ क
सञ्जय़ उवाच:
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ||
६ ख
सञ्जय़ उवाच:
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् |
७ क
सञ्जय़ उवाच:
न हन्यां निरय़े घोरे पतेय़ं वृष्णिपांसन ||
७ ख
सञ्जय़ उवाच:
एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महावलः |
८ क
सञ्जय़ उवाच:
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ||
८ ख
सञ्जय़ उवाच:
ततः कमलपत्राक्षः सिंहदंष्ट्रो महावलः |
९ क
सञ्जय़ उवाच:
सात्वतो भृशसङ्क्रुद्धः सोमदत्तमथाव्रवीत् ||
९ ख
सञ्जय़ उवाच:
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः |
१० क
सञ्जय़ उवाच:
शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः ||
१० ख
सञ्जय़ उवाच:
त्वां चाप्यद्य वधिष्यामि सपुत्रपशुवान्धवम् |
११ क
सञ्जय़ उवाच:
तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः ||
११ ख
सञ्जय़ उवाच:
यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा |
१२ क
सञ्जय़ उवाच:
अनपाय़ीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ||
१२ ख
सञ्जय़ उवाच:
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा |
१३ क
सञ्जय़ उवाच:
सकर्णसौवलः सङ्ख्ये विनाशं समुपेष्यसि ||
१३ ख
सञ्जय़ उवाच:
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह |
१४ क
सञ्जय़ उवाच:
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः |
१४ ख
सञ्जय़ उवाच:
अपय़ास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि ||
१४ ग
सञ्जय़ उवाच:
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ |
१५ क
सञ्जय़ उवाच:
प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ ||
१५ ख
सञ्जय़ उवाच:
ततो गजसहस्रेण रथानामय़ुतेन च |
१६ क
सञ्जय़ उवाच:
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ||
१६ ख
सञ्जय़ उवाच:
शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः |
१७ क
सञ्जय़ उवाच:
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः |
१७ ख
सञ्जय़ उवाच:
स्यालस्तव महावाहुर्वज्रसंहननो युवा ||
१७ ग
सञ्जय़ उवाच:
साग्रं शतसहस्रं तु हय़ानां तस्य धीमतः |
१८ क
सञ्जय़ उवाच:
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ||
१८ ख
सञ्जय़ उवाच:
रक्ष्यमाणश्च वलिभिश्छादय़ामास सात्यकिम् |
१९ क
सञ्जय़ उवाच:
तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः |
१९ ख
सञ्जय़ उवाच:
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ||
१९ ग
सञ्जय़ उवाच:
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः |
२० क
सञ्जय़ उवाच:
आसीद्राजन्वलौघानामन्योन्यमभिनिघ्नताम् ||
२० ख
सञ्जय़ उवाच:
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः |
२१ क
सञ्जय़ उवाच:
सात्यकिर्दशभिश्चैनमवधीत्कुरुपुङ्गवम् ||
२१ ख
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता समरे दृढधन्वना |
२२ क
सञ्जय़ उवाच:
रथोपस्थं समासाद्य मुमोह गतचेतनः ||
२२ ख
सञ्जय़ उवाच:
तं विमूढं समालक्ष्य सारथिस्त्वरय़ान्वितः |
२३ क
सञ्जय़ उवाच:
अपोवाह रणाद्वीरं सोमदत्तं महारथम् ||
२३ ख
सञ्जय़ उवाच:
तं विसञ्ज्ञं समालोक्य युय़ुधानशरार्दितम् |
२४ क
सञ्जय़ उवाच:
द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि ||
२४ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य शैनेय़स्य रथं प्रति |
२५ क
सञ्जय़ उवाच:
भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारय़त् ||
२५ ख
सञ्जय़ उवाच:
कार्ष्णाय़समय़ं घोरमृक्षचर्मावृतं महत् |
२६ क
सञ्जय़ उवाच:
युक्तं गजनिभैर्वाहैर्न हय़ैर्नापि वा गजैः ||
२६ ख
सञ्जय़ उवाच:
विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता |
२७ क
सञ्जय़ उवाच:
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ||
२७ ख
सञ्जय़ उवाच:
लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् |
२८ क
सञ्जय़ उवाच:
अष्टचक्रसमाय़ुक्तमास्थाय़ विपुलं रथम् ||
२८ ख
सञ्जय़ उवाच:
शूलमुद्गरधारिण्या शैलपादपहस्तय़ा |
२९ क
सञ्जय़ उवाच:
रक्षसां घोररूपाणामक्षौहिण्या समावृतः ||
२९ ख
सञ्जय़ उवाच:
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः |
३० क
सञ्जय़ उवाच:
युगान्तकालसमय़े दण्डहस्तमिवान्तकम् ||
३० ख
सञ्जय़ उवाच:
भय़ार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी |
३१ क
सञ्जय़ उवाच:
वाय़ुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ||
३१ ख
सञ्जय़ उवाच:
घटोत्कचप्रय़ुक्तेन सिंहनादेन भीषिताः |
३२ क
सञ्जय़ उवाच:
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ||
३२ ख
सञ्जय़ उवाच:
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः |
३३ क
सञ्जय़ उवाच:
सन्ध्याकालाधिकवलैः प्रमुक्ता राक्षसैः क्षितौ ||
३३ ख
सञ्जय़ उवाच:
आय़सानि च चक्राणि भुशुण्ड्यः प्रासतोमराः |
३४ क
सञ्जय़ उवाच:
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ||
३४ ख
सञ्जय़ उवाच:
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः |
३५ क
सञ्जय़ उवाच:
तनय़ास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ||
३५ ख
सञ्जय़ उवाच:
तत्रैकोऽस्त्रवलश्लाघी द्रौणिर्मानी न विव्यथे |
३६ क
सञ्जय़ उवाच:
व्यधमच्च शरैर्माय़ां घटोत्कचविनिर्मिताम् ||
३६ ख
सञ्जय़ उवाच:
निहताय़ां तु माय़ाय़ाममर्षी स घटोत्कचः |
३७ क
सञ्जय़ उवाच:
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् ||
३७ ख
सञ्जय़ उवाच:
भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः |
३८ क
सञ्जय़ उवाच:
ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् |
३८ ख
सञ्जय़ उवाच:
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ||
३८ ग
सञ्जय़ उवाच:
अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् |
३९ क
सञ्जय़ उवाच:
घटोत्कचमभिक्रुद्धं विभेद दशभिः शरैः ||
३९ ख
सञ्जय़ उवाच:
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु |
४० क
सञ्जय़ उवाच:
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ||
४० ख
सञ्जय़ उवाच:
क्षुरान्तं वालसूर्याभं मणिवज्रविभूषितम् |
४१ क
सञ्जय़ उवाच:
अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसय़ा ||
४१ ख
सञ्जय़ उवाच:
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः |
४२ क
सञ्जय़ उवाच:
अभाग्यस्येव सङ्कल्पस्तन्मोघं न्यपतद्भुवि ||
४२ ख
सञ्जय़ उवाच:
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् |
४३ क
सञ्जय़ उवाच:
द्रौणिं प्राच्छादय़द्वाणैः स्वर्भानुरिव भास्करम् ||
४३ ख
सञ्जय़ उवाच:
घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचय़ोपमः |
४४ क
सञ्जय़ उवाच:
रुरोध द्रौणिमाय़ान्तं प्रभञ्जनमिवाद्रिराट् ||
४४ ख
सञ्जय़ उवाच:
पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा |
४५ क
सञ्जय़ उवाच:
वभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः ||
४५ ख
सञ्जय़ उवाच:
अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः |
४६ क
सञ्जय़ उवाच:
ध्वजमेकेन वाणेन चिच्छेदाञ्जनपर्वणः ||
४६ ख
सञ्जय़ उवाच:
द्वाभ्यां तु रथय़न्तारं त्रिभिश्चास्य त्रिवेणुकम् |
४७ क
सञ्जय़ उवाच:
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हय़ान् ||
४७ ख
सञ्जय़ उवाच:
विरथस्योद्यतं हस्ताद्धेमविन्दुभिराचितम् |
४८ क
सञ्जय़ उवाच:
विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् ||
४८ ख