जाजलिरु उवाच:
यथा प्रवर्तितो धर्मस्तुलां धारय़ता त्वय़ा |
१ क
जाजलिरु उवाच:
स्वर्गद्वारं च वृत्तिं च भूतानामवरोत्स्यते ||
१ ख
जाजलिरु उवाच:
कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जीवसि |
२ क
जाजलिरु उवाच:
पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज ||
२ ख
जाजलिरु उवाच:
यतो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि |
३ क
जाजलिरु उवाच:
न हि वर्तेदय़ं लोको वार्तामुत्सृज्य केवलम् ||
३ ख
तुलाधार उवाच:
वक्ष्यामि जाजले वृत्तिं नास्मि व्राह्मण नास्तिकः |
४ क
तुलाधार उवाच:
न च यज्ञं विनिन्दामि यज्ञवित्तु सुदुर्लभः ||
४ ख
तुलाधार उवाच:
नमो व्राह्मणय़ज्ञाय़ ये च यज्ञविदो जनाः |
५ क
तुलाधार उवाच:
स्वय़ज्ञं व्राह्मणा हित्वा क्षात्रं यज्ञमिहास्थिताः ||
५ ख
तुलाधार उवाच:
लुव्धैर्वित्तपरैर्व्रह्मन्नास्तिकैः सम्प्रवर्तितम् |
६ क
तुलाधार उवाच:
वेदवादानविज्ञाय़ सत्याभासमिवानृतम् ||
६ ख
तुलाधार उवाच:
इदं देय़मिदं देय़मिति नान्तं चिकीर्षति |
७ क
तुलाधार उवाच:
अतः स्तैन्यं प्रभवति विकर्माणि च जाजले |
७ ख
तुलाधार उवाच:
तदेव सुकृतं हव्यं येन तुष्यन्ति देवताः ||
७ ग
तुलाधार उवाच:
नमस्कारेण हविषा स्वाध्याय़ैरौषधैस्तथा |
८ क
तुलाधार उवाच:
पूजा स्याद्देवतानां हि यथा शास्त्रनिदर्शनम् ||
८ ख
तुलाधार उवाच:
इष्टापूर्तादसाधूनां विषमा जाय़ते प्रजा |
९ क
तुलाधार उवाच:
लुव्धेभ्यो जाय़ते लुव्धः समेभ्यो जाय़ते समः ||
९ ख
तुलाधार उवाच:
यजमानो यथात्मानमृत्विजश्च तथा प्रजाः |
१० क
तुलाधार उवाच:
यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम् ||
१० ख
तुलाधार उवाच:
अग्नौ प्रास्ताहुतिर्व्रह्मन्नादित्यमुपतिष्ठति |
११ क
तुलाधार उवाच:
आदित्याज्जाय़ते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ||
११ ख
तुलाधार उवाच:
तस्मात्स्वनुष्ठितात्पूर्वे सर्वान्कामांश्च लेभिरे |
१२ क
तुलाधार उवाच:
अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन् |
१२ ख
तुलाधार उवाच:
न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किञ्चन ||
१२ ग
तुलाधार उवाच:
शङ्कमानाः फलं यज्ञे ये यजेरन्कथञ्चन |
१३ क
तुलाधार उवाच:
जाय़न्तेऽसाधवो धूर्ता लुव्धा वित्तप्रय़ोजनाः ||
१३ ख
तुलाधार उवाच:
स स्म पापकृतां लोकान्गच्छेदशुभकर्मणा |
१४ क
तुलाधार उवाच:
प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः |
१४ ख
तुलाधार उवाच:
पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम ||
१४ ग
तुलाधार उवाच:
कर्तव्यमिति कर्तव्यं वेत्ति यो व्राह्मणोभय़म् |
१५ क
तुलाधार उवाच:
व्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः ||
१५ ख
तुलाधार उवाच:
विगुणं च पुनः कर्म ज्याय़ इत्यनुशुश्रुम |
१६ क
तुलाधार उवाच:
सर्वभूतोपघातश्च फलभावे च संय़मः ||
१६ ख
तुलाधार उवाच:
सत्ययज्ञा दमय़ज्ञा अलुव्धाश्चात्मतृप्तय़ः |
१७ क
तुलाधार उवाच:
उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः ||
१७ ख
तुलाधार उवाच:
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वय़ज्ञपरिनिष्ठिताः |
१८ क
तुलाधार उवाच:
व्राह्मं वेदमधीय़न्तस्तोषय़न्त्यमरानपि ||
१८ ख
तुलाधार उवाच:
अखिलं दैवतं सर्वं व्रह्म व्राह्मणसंश्रितम् |
१९ क
तुलाधार उवाच:
तृप्यन्ति तृप्यतो देवास्तृप्तास्तृप्तस्य जाजले ||
१९ ख
तुलाधार उवाच:
यथा सर्वरसैस्तृप्तो नाभिनन्दति किञ्चन |
२० क
तुलाधार उवाच:
तथा प्रज्ञानतृप्तस्य नित्यं तृप्तिः सुखोदय़ा ||
२० ख
तुलाधार उवाच:
धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास्तथा |
२१ क
तुलाधार उवाच:
अस्ति नस्तत्त्वतो भूय़ इति प्रज्ञागवेषिणः ||
२१ ख
तुलाधार उवाच:
ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः |
२२ क
तुलाधार उवाच:
अतीव तत्सदा पुण्यं पुण्याभिजनसंहितम् ||
२२ ख
तुलाधार उवाच:
यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च |
२३ क
तुलाधार उवाच:
ते तु तद्व्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः ||
२३ ख
तुलाधार उवाच:
नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनैः |
२४ क
तुलाधार उवाच:
सतां वर्त्मानुवर्तन्ते यथावलमहिंसय़ा ||
२४ ख
तुलाधार उवाच:
वनस्पतीनोषधीश्च फलमूलं च ते विदुः |
२५ क
तुलाधार उवाच:
न चैतानृत्विजो लुव्धा याजय़न्ति धनार्थिनः ||
२५ ख
तुलाधार उवाच:
स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः |
२६ क
तुलाधार उवाच:
परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया ||
२६ ख
तुलाधार उवाच:
प्रापय़ेय़ुः प्रजाः स्वर्गं स्वधर्मचरणेन वै |
२७ क
तुलाधार उवाच:
इति मे वर्तते वुद्धिः समा सर्वत्र जाजले ||
२७ ख
तुलाधार उवाच:
प्रय़ुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ |
२८ क
तुलाधार उवाच:
तेन ते देवय़ानेन पथा यान्ति महामुने ||
२८ ख
तुलाधार उवाच:
आवृत्तिस्तत्र चैकस्य नास्त्यावृत्तिर्मनीषिणाम् |
२९ क
तुलाधार उवाच:
उभौ तौ देवय़ानेन गच्छतो जाजले पथा ||
२९ ख
तुलाधार उवाच:
स्वय़ं चैषामनडुहो युज्यन्ति च वहन्ति च |
३० क
तुलाधार उवाच:
स्वय़मुस्राश्च दुह्यन्ते मनःसङ्कल्पसिद्धिभिः ||
३० ख
तुलाधार उवाच:
स्वय़ं यूपानुपादाय़ यजन्ते स्वाप्तदक्षिणैः |
३१ क
तुलाधार उवाच:
यस्तथाभावितात्मा स्यात्स गामालव्धुमर्हति ||
३१ ख
तुलाधार उवाच:
ओषधीभिस्तथा व्रह्मन्यजेरंस्ते नतादृशाः |
३२ क
तुलाधार उवाच:
वुद्धित्यागं पुरस्कृत्य तादृशं प्रव्रवीमि ते ||
३२ ख
तुलाधार उवाच:
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् |
३३ क
तुलाधार उवाच:
अक्षीणं क्षीणकर्माणं तं देवा व्राह्मणं विदुः ||
३३ ख
तुलाधार उवाच:
नाश्रावय़न्न च यजन्न ददद्व्राह्मणेषु च |
३४ क
तुलाधार उवाच:
ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले |
३४ ख
तुलाधार उवाच:
इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुय़ात् ||
३४ ग
जाजलिरु उवाच:
न वै मुनीनां शृणुमः स्म तत्त्वं; पृच्छामि त्वा वाणिज कष्टमेतत् |
३५ क
जाजलिरु उवाच:
पूर्वे पूर्वे चास्य नावेक्षमाणा; नातः परं तमृषय़ः स्थापय़न्ति ||
३५ ख
जाजलिरु उवाच:
अस्मिन्नेवात्मतीर्थे न पशवः प्राप्नुय़ुः सुखम् |
३६ क
जाजलिरु उवाच:
अथ स्वकर्मणा केन वाणिज प्राप्नुय़ात्सुखम् |
३६ ख
जाजलिरु उवाच:
शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते ||
३६ ग
तुलाधार उवाच:
उत यज्ञा उताय़ज्ञा मखं नार्हन्ति ते क्वचित् |
३७ क
तुलाधार उवाच:
आज्येन पय़सा दध्ना पूर्णाहुत्या विशेषतः |
३७ ख
तुलाधार उवाच:
वालैः शृङ्गेण पादेन सम्भवत्येव गौर्मखम् ||
३७ ग
तुलाधार उवाच:
पत्नीं चानेन विधिना प्रकरोति निय़ोजय़न् |
३८ क
तुलाधार उवाच:
पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते ||
३८ ख
तुलाधार उवाच:
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चय़ाः |
३९ क
तुलाधार उवाच:
जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव ||
३९ ख
तुलाधार उवाच:
एतानीदृशकान्धर्मानाचरन्निह जाजले |
४० क
तुलाधार उवाच:
कारणैर्धर्ममन्विच्छन्न लोकानाप्नुते शुभान् ||
४० ख
भीष्म उवाच:
एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति |
४१ क
भीष्म उवाच:
उपपत्त्या हि सम्पन्नान्नित्यं सद्भिर्निषेवितान् ||
४१ ख