तुलाधार उवाच:
सद्भिर्वा यदि वासद्भिरय़ं पन्थाः समाश्रितः |
१ क
तुलाधार उवाच:
प्रत्यक्षं क्रिय़तां साधु ततो ज्ञास्यसि तद्यथा ||
१ ख
तुलाधार उवाच:
एते शकुन्ता वहवः समन्ताद्विचरन्ति हि |
२ क
तुलाधार उवाच:
तवोत्तमाङ्गे सम्भूताः श्येनाश्चान्याश्च जातय़ः ||
२ ख
तुलाधार उवाच:
आह्वय़ैनान्महाव्रह्मन्विशमानांस्ततस्ततः |
३ क
तुलाधार उवाच:
पश्येमान्हस्तपादेषु श्लिष्टान्देहे च सर्वशः ||
३ ख
तुलाधार उवाच:
सम्भावय़न्ति पितरं त्वय़ा सम्भाविताः खगाः |
४ क
तुलाधार उवाच:
असंशय़ं पिता च त्वं पुत्रानाह्वय़ जाजले ||
४ ख
भीष्म उवाच:
ततो जाजलिना तेन समाहूताः पतत्रिणः |
५ क
भीष्म उवाच:
वाचमुच्चारय़न्दिव्यां धर्मस्य वचनात्किल ||
५ ख
भीष्म उवाच:
अहिंसादिकृतं कर्म इह चैव परत्र च |
६ क
भीष्म उवाच:
स्पर्धा निहन्ति वै व्रह्मन्साहता हन्ति तं नरम् ||
६ ख
भीष्म उवाच:
श्रद्धावृद्धं वाङ्मनसी न यज्ञस्त्रातुमर्हति |
७ क
भीष्म उवाच:
अत्र गाथा व्रह्मगीताः कीर्तय़न्ति पुराविदः ||
७ ख
भीष्म उवाच:
शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः |
८ क
भीष्म उवाच:
देवाश्चित्तममन्यन्त सदृशं यज्ञकर्मणि ||
८ ख
भीष्म उवाच:
श्रोत्रिय़स्य कदर्यस्य वदान्यस्य च वार्धुषेः |
९ क
भीष्म उवाच:
मीमांसित्वोभय़ं देवाः सममन्नमकल्पय़न् ||
९ ख
भीष्म उवाच:
प्रजापतिस्तानुवाच विषमं कृतमित्युत |
१० क
भीष्म उवाच:
श्रद्धापूतं वदान्यस्य हतमश्रद्धय़ेतरत् |
१० ख
भीष्म उवाच:
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः ||
१० ग
भीष्म उवाच:
अश्रद्दधान एवैको देवानां नार्हते हविः |
११ क
भीष्म उवाच:
तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः ||
११ ख
भीष्म उवाच:
अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी |
१२ क
भीष्म उवाच:
जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम् ||
१२ ख
भीष्म उवाच:
ज्याय़सी या पवित्राणां निवृत्तिः श्रद्धय़ा सह |
१३ क
भीष्म उवाच:
निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः ||
१३ ख
भीष्म उवाच:
किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना |
१४ क
भीष्म उवाच:
श्रद्धामय़ोऽय़ं पुरुषो यो यच्छ्रद्धः स एव सः ||
१४ ख
भीष्म उवाच:
इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः |
१५ क
भीष्म उवाच:
वय़ं जिज्ञासमानास्त्वा सम्प्राप्ता धर्मदर्शनात् ||
१५ ख
भीष्म उवाच:
स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत्परम् |
१६ क
भीष्म उवाच:
श्रद्धावाञ्श्रद्दधानश्च धर्मांश्चैवेह वाणिजः |
१६ ख
भीष्म उवाच:
स्ववर्त्मनि स्थितश्चैव गरीय़ानेष जाजले ||
१६ ग
भीष्म उवाच:
एवं वहुमतार्थं च तुलाधारेण भाषितम् |
१७ क
भीष्म उवाच:
सम्यक्चैवमुपालव्धो धर्मश्चोक्तः सनातनः ||
१७ ख
भीष्म उवाच:
तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः |
१८ क
भीष्म उवाच:
तुलाधारस्य कौन्तेय़ शान्तिमेवान्वपद्यत ||
१८ ख
भीष्म उवाच:
ततोऽचिरेण कालेन तुलाधारः स एव च |
१९ क
भीष्म उवाच:
दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम् |
१९ ख
भीष्म उवाच:
स्वं स्वं स्थानमुपागम्य स्वकर्मफलनिर्जितम् ||
१९ ग
भीष्म उवाच:
समानां श्रद्दधानानां संय़तानां सुचेतसाम् |
२० क
भीष्म उवाच:
कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते ||
२० ख
भीष्म उवाच:
श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप |
२१ क
भीष्म उवाच:
सावित्री प्रसवित्री च जीवविश्वासिनी तथा ||
२१ ख
भीष्म उवाच:
वाग्वृद्धं त्राय़ते श्रद्धा मनोवृद्धं च भारत |
२२ क
भीष्म उवाच:
यथौपम्योपदेशेन किं भूय़ः श्रोतुमिच्छसि ||
२२ ख