chevron_left शान्ति पर्व अध्याय २५७
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
भीष्म उवाच:
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ||
१ ख
भीष्म उवाच:
छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम् |
२ क
भीष्म उवाच:
गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः ||
२ ख
भीष्म उवाच:
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् |
३ क
भीष्म उवाच:
हिंसाय़ां हि प्रवृत्ताय़ामाशीरेषानुकल्पिता ||
३ ख
भीष्म उवाच:
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः |
४ क
भीष्म उवाच:
संशय़ात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ||
४ ख
भीष्म उवाच:
सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरव्रवीत् |
५ क
भीष्म उवाच:
कामरागाद्विहिंसन्ति वहिर्वेद्यां पशून्नराः ||
५ ख
भीष्म उवाच:
तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता |
६ क
भीष्म उवाच:
अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्याय़सी मता ||
६ ख
भीष्म उवाच:
उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः |
७ क
भीष्म उवाच:
आचार इत्यनाचाराः कृपणाः फलहेतवः ||
७ ख
भीष्म उवाच:
यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः |
८ क
भीष्म उवाच:
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ||
८ ख
भीष्म उवाच:
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् |
९ क
भीष्म उवाच:
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ||
९ ख
भीष्म उवाच:
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् |
१० क
भीष्म उवाच:
विष्णुमेवाभिजानन्ति सर्वय़ज्ञेषु व्राह्मणाः |
१० ख
भीष्म उवाच:
पाय़सैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ||
१० ग
भीष्म उवाच:
यज्ञिय़ाश्चैव ये वृक्षा वेदेषु परिकल्पिताः |
११ क
भीष्म उवाच:
यच्चापि किञ्चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् |
११ ख
भीष्म उवाच:
महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ||
११ ग
युधिष्ठिर उवाच:
शरीरमापदश्चापि विवदन्त्यविहिंसतः |
१२ क
युधिष्ठिर उवाच:
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ||
१२ ख
भीष्म उवाच:
यथा शरीरं न ग्लाय़ेन्नेय़ान्मृत्युवशं यथा |
१३ क
भीष्म उवाच:
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ||
१३ ख