युधिष्ठिर उवाच:
कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा |
१ क
युधिष्ठिर उवाच:
सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले ||
२ ख
भीष्म उवाच:
चिरकारिक भद्रं ते भद्रं ते चिरकारिक |
३ क
भीष्म उवाच:
चिरकारी हि मेधावी नापराध्यति कर्मसु ||
३ ख
भीष्म उवाच:
चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः |
४ क
भीष्म उवाच:
चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते ||
४ ख
भीष्म उवाच:
चिरं सञ्चिन्तय़न्नर्थांश्चिरं जाग्रच्चिरं स्वपन् |
५ क
भीष्म उवाच:
चिरकार्याभिसम्पत्तेश्चिरकारी तथोच्यते ||
५ ख
भीष्म उवाच:
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते |
६ क
भीष्म उवाच:
वुद्धिलाघवय़ुक्तेन जनेनादीर्घदर्शिना ||
६ ख
भीष्म उवाच:
व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् |
७ क
भीष्म उवाच:
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ||
७ ख
भीष्म उवाच:
स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः |
८ क
भीष्म उवाच:
विमृश्य चिरकारित्वाच्चिन्तय़ामास वै चिरम् ||
८ ख
भीष्म उवाच:
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् |
९ क
भीष्म उवाच:
कथं धर्मच्छले नास्मिन्निमज्जेय़मसाधुवत् ||
९ ख
भीष्म उवाच:
पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् |
१० क
भीष्म उवाच:
अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडय़ेत् ||
१० ख
भीष्म उवाच:
स्त्रिय़ं हत्वा मातरं च को हि जातु सुखी भवेत् |
११ क
भीष्म उवाच:
पितरं चाप्यवज्ञाय़ कः प्रतिष्ठामवाप्नुय़ात् ||
११ ख
भीष्म उवाच:
अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम् |
१२ क
भीष्म उवाच:
युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम् ||
१२ ख
भीष्म उवाच:
पिता ह्यात्मानमाधत्ते जाय़ाय़ां जज्ञिय़ामिति |
१३ क
भीष्म उवाच:
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ||
१३ ख
भीष्म उवाच:
सोऽहमात्मा स्वय़ं पित्रा पुत्रत्वे प्रकृतः पुनः |
१४ क
भीष्म उवाच:
विज्ञानं मे कथं न स्याद्वुवुधे चात्मसम्भवम् ||
१४ ख
भीष्म उवाच:
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि |
१५ क
भीष्म उवाच:
पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चय़े ||
१५ ख
भीष्म उवाच:
गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः |
१६ क
भीष्म उवाच:
पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः ||
१६ ख
भीष्म उवाच:
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता |
१७ क
भीष्म उवाच:
शरीरादीनि देय़ानि पिता त्वेकः प्रय़च्छति ||
१७ ख
भीष्म उवाच:
तस्मात्पितुर्वचः कार्यं न विचार्यं कथञ्चन |
१८ क
भीष्म उवाच:
पातकान्यपि पूय़न्ते पितुर्वचनकारिणः ||
१८ ख
भीष्म उवाच:
भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने |
१९ क
भीष्म उवाच:
भर्त्रा चैव समाय़ोगे सीमन्तोन्नय़ने तथा ||
१९ ख
भीष्म उवाच:
पिता स्वर्गः पिता धर्मः पिता परमकं तपः |
२० क
भीष्म उवाच:
पितरि प्रीतिमापन्ने सर्वाः प्रीय़न्ति देवताः ||
२० ख
भीष्म उवाच:
आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता |
२१ क
भीष्म उवाच:
निष्कृतिः सर्वपापानां पिता यदभिनन्दति ||
२१ ख
भीष्म उवाच:
मुच्यते वन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते |
२२ क
भीष्म उवाच:
क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति ||
२२ ख
भीष्म उवाच:
एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् |
२३ क
भीष्म उवाच:
पिता ह्यल्पतरं स्थानं चिन्तय़िष्यामि मातरम् ||
२३ ख
भीष्म उवाच:
यो ह्ययं मय़ि सङ्घातो मर्त्यत्वे पाञ्चभौतिकः |
२४ क
भीष्म उवाच:
अस्य मे जननी हेतुः पावकस्य यथारणिः |
२४ ख
भीष्म उवाच:
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः ||
२४ ग
भीष्म उवाच:
न च शोचति नाप्येनं स्थाविर्यमपकर्षति |
२५ क
भीष्म उवाच:
श्रिय़ा हीनोऽपि यो गेहे अम्वेति प्रतिपद्यते ||
२५ ख
भीष्म उवाच:
पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः |
२६ क
भीष्म उवाच:
अपि वर्षशतस्यान्ते स द्विहाय़नवच्चरेत् ||
२६ ख
भीष्म उवाच:
समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा |
२७ क
भीष्म उवाच:
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः ||
२७ ख
भीष्म उवाच:
तदा स वृद्धो भवति यदा भवति दुःखितः |
२८ क
भीष्म उवाच:
तदा शून्यं जगत्तस्य यदा मात्रा विय़ुज्यते ||
२८ ख
भीष्म उवाच:
नास्ति मातृसमा छाय़ा नास्ति मातृसमा गतिः |
२९ क
भीष्म उवाच:
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा ||
२९ ख
भीष्म उवाच:
कुक्षिसन्धारणाद्धात्री जननाज्जननी स्मृता |
३० क
भीष्म उवाच:
अङ्गानां वर्धनादम्वा वीरसूत्वेन वीरसूः ||
३० ख
भीष्म उवाच:
शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् |
३१ क
भीष्म उवाच:
चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः ||
३१ ख
भीष्म उवाच:
दम्पत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल |
३२ क
भीष्म उवाच:
तं माता वा पिता वेद भूतार्थो मातरि स्थितः ||
३२ ख
भीष्म उवाच:
माता जानाति यद्गोत्रं माता जानाति यस्य सः |
३३ क
भीष्म उवाच:
मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ||
३३ ख
भीष्म उवाच:
पाणिवन्धं स्वय़ं कृत्वा सहधर्ममुपेत्य च |
३४ क
भीष्म उवाच:
यदि याप्यन्ति पुरुषाः स्त्रिय़ो नार्हन्ति याप्यताम् ||
३४ ख
भीष्म उवाच:
भरणाद्धि स्त्रिय़ो भर्ता पात्याच्चैव स्त्रिय़ाः पतिः |
३५ क
भीष्म उवाच:
गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः ||
३५ ख
भीष्म उवाच:
एवं स्त्री नापराध्नोति नर एवापराध्यति |
३६ क
भीष्म उवाच:
व्युच्चरंश्च महादोषं नर एवापराध्यति ||
३६ ख
भीष्म उवाच:
स्त्रिय़ा हि परमो भर्ता दैवतं परमं स्मृतम् |
३७ क
भीष्म उवाच:
तस्यात्मना तु सदृशमात्मानं परमं ददौ |
३७ ख
भीष्म उवाच:
सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः ||
३७ ग
भीष्म उवाच:
यश्चनोक्तो हि निर्देशः स्त्रिय़ा मैथुनतृप्तय़े |
३८ क
भीष्म उवाच:
तस्य स्मारय़तो व्यक्तमधर्मो नात्र संशय़ः ||
३८ ख
भीष्म उवाच:
यावन्नारीं मातरं च गौरवे चाधिके स्थिताम् |
३९ क
भीष्म उवाच:
अवध्यां तु विजानीय़ुः पशवोऽप्यविचक्षणाः ||
३९ ख
भीष्म उवाच:
देवतानां समावाय़मेकस्थं पितरं विदुः |
४० क
भीष्म उवाच:
मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् ||
४० ख
भीष्म उवाच:
एवं विमृशतस्तस्य चिरकारितय़ा वहु |
४१ क
भीष्म उवाच:
दीर्घः कालो व्यतिक्रान्तस्ततस्तस्यागमत्पिता ||
४१ ख
भीष्म उवाच:
मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः |
४२ क
भीष्म उवाच:
विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् ||
४२ ख
भीष्म उवाच:
सोऽव्रवीद्दुःखसन्तप्तो भृशमश्रूणि वर्तय़न् |
४३ क
भीष्म उवाच:
श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः ||
४३ ख
भीष्म उवाच:
आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरन्दरः |
४४ क
भीष्म उवाच:
अतिथिव्रतमास्थाय़ व्राह्मणं रूपमास्थितः ||
४४ ख
भीष्म उवाच:
समय़ा सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः |
४५ क
भीष्म उवाच:
अर्घ्यं पाद्यं च न्याय़ेन तय़ाभिप्रतिपादितः ||
४५ ख
भीष्म उवाच:
परवत्यस्मि चाप्युक्तः प्रणय़िष्ये नय़ेन च |
४६ क
भीष्म उवाच:
अत्र चाकुशले जाते स्त्रिय़ो नास्ति व्यतिक्रमः ||
४६ ख
भीष्म उवाच:
एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः |
४७ क
भीष्म उवाच:
अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति ||
४७ ख
भीष्म उवाच:
ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः |
४८ क
भीष्म उवाच:
ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे ||
४८ ख
भीष्म उवाच:
हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम् |
४९ क
भीष्म उवाच:
भर्तव्यत्वेन भार्यां च को नु मां तारय़िष्यति ||
४९ ख