मार्कण्डेय़ उवाच:
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ |
१ क
मार्कण्डेय़ उवाच:
रक्षसा जानकी तस्य हृता भार्या वलीय़सा ||
१ ख
मार्कण्डेय़ उवाच:
आश्रमाद्राक्षसेन्द्रेण रावणेन विहाय़सा |
२ क
मार्कण्डेय़ उवाच:
माय़ामास्थाय़ तरसा हत्वा गृध्रं जटाय़ुषम् ||
२ ख
मार्कण्डेय़ उवाच:
प्रत्याजहार तां रामः सुग्रीववलमाश्रितः |
३ क
मार्कण्डेय़ उवाच:
वद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ||
३ ख
युधिष्ठिर उवाच:
कस्मिन्रामः कुले जातः किंवीर्यः किम्पराक्रमः |
४ क
युधिष्ठिर उवाच:
रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह ||
४ ख
युधिष्ठिर उवाच:
एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि |
५ क
युधिष्ठिर उवाच:
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ||
५ ख
मार्कण्डेय़ उवाच:
अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः |
६ क
मार्कण्डेय़ उवाच:
तस्य पुत्रो दशरथः शश्वत्स्वाध्याय़वाञ्शुचिः ||
६ ख
मार्कण्डेय़ उवाच:
अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः |
७ क
मार्कण्डेय़ उवाच:
रामलक्ष्मणशत्रुघ्ना भरतश्च महावलः ||
७ ख
मार्कण्डेय़ उवाच:
रामस्य माता कौसल्या कैकेय़ी भरतस्य तु |
८ क
मार्कण्डेय़ उवाच:
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्राय़ाः परन्तपौ ||
८ ख
मार्कण्डेय़ उवाच:
विदेहराजो जनकः सीता तस्यात्मजा विभो |
९ क
मार्कण्डेय़ उवाच:
यां चकार स्वय़ं त्वष्टा रामस्य महिषीं प्रिय़ाम् ||
९ ख
मार्कण्डेय़ उवाच:
एतद्रामस्य ते जन्म सीताय़ाश्च प्रकीर्तितम् |
१० क
मार्कण्डेय़ उवाच:
रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर ||
१० ख
मार्कण्डेय़ उवाच:
पितामहो रावणस्य साक्षाद्देवः प्रजापतिः |
११ क
मार्कण्डेय़ उवाच:
स्वय़म्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ||
११ ख
मार्कण्डेय़ उवाच:
पुलस्त्यो नाम तस्यासीन्मानसो दय़ितः सुतः |
१२ क
मार्कण्डेय़ उवाच:
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ||
१२ ख
मार्कण्डेय़ उवाच:
पितरं स समुत्सृज्य पितामहमुपस्थितः |
१३ क
मार्कण्डेय़ उवाच:
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ||
१३ ख
मार्कण्डेय़ उवाच:
स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः |
१४ क
मार्कण्डेय़ उवाच:
प्रतीकाराय़ सक्रोधस्ततो वैश्रवणस्य वै ||
१४ ख
मार्कण्डेय़ उवाच:
पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह |
१५ क
मार्कण्डेय़ उवाच:
अमरत्वं धनेशत्वं लोकपालत्वमेव च ||
१५ ख
मार्कण्डेय़ उवाच:
ईशानेन तथा सख्यं पुत्रं च नलकूवरम् |
१६ क
मार्कण्डेय़ उवाच:
राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् ||
१६ ख