युधिष्ठिर उवाच:
कथं राजा प्रजा रक्षेन्न च किञ्चित्प्रतापय़ेत् |
१ क
युधिष्ठिर उवाच:
पृच्छामि त्वां सतां श्रेष्ठ तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह ||
२ ख
भीष्म उवाच:
अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् |
३ क
भीष्म उवाच:
वधाय़ नीय़मानेषु पितुरेवानुशासनात् ||
३ ख
भीष्म उवाच:
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् |
४ क
भीष्म उवाच:
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति ||
४ ख
द्युमत्सेन उवाच:
अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत् |
५ क
द्युमत्सेन उवाच:
दस्यवश्चेन्न हन्येरन्सत्यवन्सङ्करो भवेत् ||
५ ख
द्युमत्सेन उवाच:
ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे |
६ क
द्युमत्सेन उवाच:
लोकय़ात्रा न चैव स्यादथ चेद्वेत्थ शंस नः ||
६ ख
सत्यवानु उवाच:
सर्व एव त्रय़ो वर्णाः कार्या व्राह्मणवन्धनाः |
७ क
सत्यवानु उवाच:
धर्मपाशनिवद्धानामल्पो व्यपचरिष्यति ||
७ ख
सत्यवानु उवाच:
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः |
८ क
सत्यवानु उवाच:
अय़ं मे न शृणोतीति तस्मिन्राजा प्रधारय़ेत् ||
८ ख
सत्यवानु उवाच:
तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः |
९ क
सत्यवानु उवाच:
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि ||
९ ख
सत्यवानु उवाच:
दस्यून्हिनस्ति वै राजा भूय़सो वाप्यनागसः |
१० क
सत्यवानु उवाच:
भार्या माता पिता पुत्रो हन्यते पुरुषे हते |
१० ख
सत्यवानु उवाच:
परेणापकृते राजा तस्मात्सम्यक्प्रधारय़ेत् ||
१० ग
सत्यवानु उवाच:
असाधुश्चैव पुरुषो लभते शीलमेकदा |
११ क
सत्यवानु उवाच:
साधोश्चापि ह्यसाधुभ्यो जाय़तेऽशोभना प्रजा ||
११ ख
सत्यवानु उवाच:
न मूलघातः कर्तव्यो नैष धर्मः सनातनः |
१२ क
सत्यवानु उवाच:
अपि खल्ववधेनैव प्राय़श्चित्तं विधीय़ते ||
१२ ख
सत्यवानु उवाच:
उद्वेजनेन वन्धेन विरूपकरणेन च |
१३ क
सत्यवानु उवाच:
वधदण्डेन ते क्लेश्या न पुरोऽहितसम्पदा ||
१३ ख
सत्यवानु उवाच:
यदा पुरोहितं वा ते पर्येय़ुः शरणैषिणः |
१४ क
सत्यवानु उवाच:
करिष्यामः पुनर्व्रह्मन्न पापमिति वादिनः ||
१४ ख
सत्यवानु उवाच:
तदा विसर्गमर्हाः स्युरितीदं नृपशासनम् |
१५ क
सत्यवानु उवाच:
विभ्रद्दण्डाजिनं मुण्डो व्राह्मणोऽर्हति वाससम् ||
१५ ख
सत्यवानु उवाच:
गरीय़ांसो गरीय़ांसमपराधे पुनः पुनः |
१६ क
सत्यवानु उवाच:
तथा विसर्गमर्हन्ति न यथा प्रथमे तथा ||
१६ ख
द्युमत्सेन उवाच:
यत्र यत्रैव शक्येरन्संय़न्तुं समय़े प्रजाः |
१७ क
द्युमत्सेन उवाच:
स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते ||
१७ ख
द्युमत्सेन उवाच:
अहन्यमानेषु पुनः सर्वमेव पराभवेत् |
१८ क
द्युमत्सेन उवाच:
पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः ||
१८ ख
द्युमत्सेन उवाच:
मृदवः सत्यभूय़िष्ठा अल्पद्रोहाल्पमन्यवः |
१९ क
द्युमत्सेन उवाच:
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् ||
१९ ख
द्युमत्सेन उवाच:
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते |
२० क
द्युमत्सेन उवाच:
वधेनापि न शक्यन्ते निय़न्तुमपरे जनाः ||
२० ख
द्युमत्सेन उवाच:
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः |
२१ क
द्युमत्सेन उवाच:
न गन्धर्वपितॄणां च कः कस्येह न कश्चन ||
२१ ख
द्युमत्सेन उवाच:
पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम् |
२२ क
द्युमत्सेन उवाच:
तेषु यः समय़ं कुर्यादज्ञेषु हतवुद्धिषु ||
२२ ख
सत्यवानु उवाच:
तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसय़ा |
२३ क
सत्यवानु उवाच:
कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु ||
२३ ख
द्युमत्सेन उवाच:
राजानो लोकय़ात्रार्थं तप्यन्ते परमं तपः |
२४ क
द्युमत्सेन उवाच:
अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च ||
२४ ख
द्युमत्सेन उवाच:
वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन् |
२५ क
द्युमत्सेन उवाच:
सुकृतेनैव राजानो भूय़िष्ठं शासते प्रजाः ||
२५ ख
द्युमत्सेन उवाच:
श्रेय़सः श्रेय़सीमेवं वृत्तिं लोकोऽनुवर्तते |
२६ क
द्युमत्सेन उवाच:
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः ||
२६ ख
द्युमत्सेन उवाच:
आत्मानमसमाधाय़ समाधित्सति यः परान् |
२७ क
द्युमत्सेन उवाच:
विषय़ेष्विन्द्रिय़वशं मानवाः प्रहसन्ति तम् ||
२७ ख
द्युमत्सेन उवाच:
यो राज्ञो दम्भमोहेन किञ्चित्कुर्यादसाम्प्रतम् |
२८ क
द्युमत्सेन उवाच:
सर्वोपाय़ैर्निय़म्यः स तथा पापान्निवर्तते ||
२८ ख
द्युमत्सेन उवाच:
आत्मैवादौ निय़न्तव्यो दुष्कृतं संनिय़च्छता |
२९ क
द्युमत्सेन उवाच:
दण्डय़ेच्च महादण्डैरपि वन्धूननन्तरान् ||
२९ ख
द्युमत्सेन उवाच:
यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति |
३० क
द्युमत्सेन उवाच:
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् |
३० ख
द्युमत्सेन उवाच:
इति कारुण्यशीलस्तु विद्वान्वै व्राह्मणोऽन्वशात् ||
३० ग
द्युमत्सेन उवाच:
इति चैवानुशिष्टोऽस्मि पूर्वैस्तात पितामहैः |
३१ क
द्युमत्सेन उवाच:
आश्वासय़द्भिः सुभृशमनुक्रोशात्तथैव च ||
३१ ख
द्युमत्सेन उवाच:
एतत्प्रथमकल्पेन राजा कृतय़ुगेऽभजत् |
३२ क
द्युमत्सेन उवाच:
पादोनेनापि धर्मेण गच्छेत्त्रेताय़ुगे तथा |
३२ ख
द्युमत्सेन उवाच:
द्वापरे तु द्विपादेन पादेन त्वपरे युगे ||
३२ ग
द्युमत्सेन उवाच:
तथा कलिय़ुगे प्राप्ते राज्ञां दुश्चरितेन ह |
३३ क
द्युमत्सेन उवाच:
भवेत्कालविशेषेण कला धर्मस्य षोडशी ||
३३ ख
द्युमत्सेन उवाच:
अथ प्रथमकल्पेन सत्यवन्सङ्करो भवेत् |
३४ क
द्युमत्सेन उवाच:
आय़ुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् ||
३४ ख
द्युमत्सेन उवाच:
सत्याय़ हि यथा नेह जह्याद्धर्मफलं महत् |
३५ क
द्युमत्सेन उवाच:
भूतानामनुकम्पार्थं मनुः स्वाय़म्भुवोऽव्रवीत् ||
३५ ख