वृहदश्व उवाच:
अपक्रान्ते नले राजन्दमय़न्ती गतक्लमा |
१ क
वृहदश्व उवाच:
अवुध्यत वरारोहा सन्त्रस्ता विजने वने ||
१ ख
वृहदश्व उवाच:
सापश्यमाना भर्तारं दुःखशोकसमन्विता |
२ क
वृहदश्व उवाच:
प्राक्रोशदुच्चैः सन्त्रस्ता महाराजेति नैषधम् ||
२ ख
वृहदश्व उवाच:
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् |
३ क
वृहदश्व उवाच:
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ||
३ ख
वृहदश्व उवाच:
ननु नाम महाराज धर्मज्ञः सत्यवागसि |
४ क
वृहदश्व उवाच:
कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः ||
४ ख
वृहदश्व उवाच:
कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् |
५ क
वृहदश्व उवाच:
विशेषतोऽनपकृते परेणापकृते सति ||
५ ख
वृहदश्व उवाच:
शक्ष्यसे ता गिरः सत्याः कर्तुं मय़ि नरेश्वर |
६ क
वृहदश्व उवाच:
यास्त्वय़ा लोकपालानां संनिधौ कथिताः पुरा ||
६ ख
वृहदश्व उवाच:
पर्याप्तः परिहासोऽय़मेतावान्पुरुषर्षभ |
७ क
वृहदश्व उवाच:
भीताहमस्मि दुर्धर्ष दर्शय़ात्मानमीश्वर ||
७ ख
वृहदश्व उवाच:
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध |
८ क
वृहदश्व उवाच:
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ||
८ ख
वृहदश्व उवाच:
नृशंसं वत राजेन्द्र यन्मामेवङ्गतामिह |
९ क
वृहदश्व उवाच:
विलपन्तीं समालिङ्ग्य नाश्वासय़सि पार्थिव ||
९ ख
वृहदश्व उवाच:
न शोचाम्यहमात्मानं न चान्यदपि किञ्चन |
१० क
वृहदश्व उवाच:
कथं नु भवितास्येक इति त्वां नृप शोचिमि ||
१० ख
वृहदश्व उवाच:
कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः |
११ क
वृहदश्व उवाच:
साय़ाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ||
११ ख
वृहदश्व उवाच:
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना |
१२ क
वृहदश्व उवाच:
इतश्चेतश्च रुदती पर्यधावत दुःखिता ||
१२ ख
वृहदश्व उवाच:
मुहुरुत्पतते वाला मुहुः पतति विह्वला |
१३ क
वृहदश्व उवाच:
मुहुरालीय़ते भीता मुहुः क्रोशति रोदिति ||
१३ ख
वृहदश्व उवाच:
सा तीव्रशोकसन्तप्ता मुहुर्निःश्वस्य विह्वला |
१४ क
वृहदश्व उवाच:
उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता ||
१४ ख
वृहदश्व उवाच:
यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः |
१५ क
वृहदश्व उवाच:
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ||
१५ ख
वृहदश्व उवाच:
अपापचेतसं पापो य एवं कृतवान्नलम् |
१६ क
वृहदश्व उवाच:
तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् ||
१६ ख
वृहदश्व उवाच:
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः |
१७ क
वृहदश्व उवाच:
अन्वेषति स्म भर्तारं वने श्वापदसेविते ||
१७ ख
वृहदश्व उवाच:
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः |
१८ क
वृहदश्व उवाच:
हा हा राजन्निति मुहुरितश्चेतश्च धावति ||
१८ ख
वृहदश्व उवाच:
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् |
१९ क
वृहदश्व उवाच:
करुणं वहु शोचन्तीं विलपन्तीं मुहुर्मुहुः ||
१९ ख
वृहदश्व उवाच:
सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् |
२० क
वृहदश्व उवाच:
जग्राहाजगरो ग्राहो महाकाय़ः क्षुधान्वितः ||
२० ख
वृहदश्व उवाच:
सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता |
२१ क
वृहदश्व उवाच:
नात्मानं शोचति तथा यथा शोचति नैषधम् ||
२१ ख
वृहदश्व उवाच:
हा नाथ मामिह वने ग्रस्यमानामनाथवत् |
२२ क
वृहदश्व उवाच:
ग्राहेणानेन विपिने किमर्थं नाभिधावसि ||
२२ ख
वृहदश्व उवाच:
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध |
२३ क
वृहदश्व उवाच:
पापान्मुक्तः पुनर्लव्ध्वा वुद्धिं चेतो धनानि च ||
२३ ख
वृहदश्व उवाच:
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध |
२४ क
वृहदश्व उवाच:
कः श्रमं राजशार्दूल नाशय़िष्यति मानद ||
२४ ख
वृहदश्व उवाच:
तामकस्मान्मृगव्याधो विचरन्गहने वने |
२५ क
वृहदश्व उवाच:
आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह ||
२५ ख
वृहदश्व उवाच:
तां स दृष्ट्वा तथा ग्रस्तामुरगेणाय़तेक्षणाम् |
२६ क
वृहदश्व उवाच:
त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः ||
२६ ख
वृहदश्व उवाच:
मुखतः पातय़ामास शस्त्रेण निशितेन ह |
२७ क
वृहदश्व उवाच:
निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः ||
२७ ख
वृहदश्व उवाच:
मोक्षय़ित्वा च तां व्याधः प्रक्षाल्य सलिलेन च |
२८ क
वृहदश्व उवाच:
समाश्वास्य कृताहारामथ पप्रच्छ भारत ||
२८ ख
वृहदश्व उवाच:
कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् |
२९ क
वृहदश्व उवाच:
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ||
२९ ख
वृहदश्व उवाच:
दमय़न्ती तथा तेन पृच्छ्यमाना विशां पते |
३० क
वृहदश्व उवाच:
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ||
३० ख
वृहदश्व उवाच:
तामर्धवस्त्रसंवीतां पीनश्रोणिपय़ोधराम् |
३१ क
वृहदश्व उवाच:
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ||
३१ ख
वृहदश्व उवाच:
अरालपक्ष्मनय़नां तथा मधुरभाषिणीम् |
३२ क
वृहदश्व उवाच:
लक्षय़ित्वा मृगव्याधः कामस्य वशमेय़िवान् ||
३२ ख
वृहदश्व उवाच:
तामथ श्लक्ष्णय़ा वाचा लुव्धको मृदुपुर्वय़ा |
३३ क
वृहदश्व उवाच:
सान्त्वय़ामास कामार्तस्तदवुध्यत भामिनी ||
३३ ख
वृहदश्व उवाच:
दमय़न्ती तु तं दुष्टमुपलभ्य पतिव्रता |
३४ क
वृहदश्व उवाच:
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ||
३४ ख
वृहदश्व उवाच:
स तु पापमतिः क्षुद्रः प्रधर्षय़ितुमातुरः |
३५ क
वृहदश्व उवाच:
दुर्धर्षां तर्कय़ामास दीप्तामग्निशिखामिव ||
३५ ख
वृहदश्व उवाच:
दमय़न्ती तु दुःखार्ता पतिराज्यविनाकृता |
३६ क
वृहदश्व उवाच:
अतीतवाक्पथे काले शशापैनं रुषा किल ||
३६ ख
वृहदश्व उवाच:
यथाहं नैषधादन्यं मनसापि न चिन्तय़े |
३७ क
वृहदश्व उवाच:
तथाय़ं पततां क्षुद्रः परासुर्मृगजीवनः ||
३७ ख
वृहदश्व उवाच:
उक्तमात्रे तु वचने तय़ा स मृगजीवनः |
३८ क
वृहदश्व उवाच:
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ||
३८ ख