chevron_left स्त्री पर्व अध्याय २६
वासुदेव उवाच:
उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः |
१ क
वासुदेव उवाच:
तवैव ह्यपराधेन कुरवो निधनं गताः ||
१ ख
वासुदेव उवाच:
या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् |
२ क
वासुदेव उवाच:
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ||
२ ख
वासुदेव उवाच:
निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम् |
३ क
वासुदेव उवाच:
कथमात्मकृतं दोषं मय़्याधातुमिहेच्छसि ||
३ ख
वासुदेव उवाच:
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति |
४ क
वासुदेव उवाच:
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ||
४ ख
वासुदेव उवाच:
तपोर्थीय़ं व्राह्मणी धत्त गर्भं; गौर्वोढारं धावितारं तुरङ्गी |
५ क
वासुदेव उवाच:
शूद्रा दासं पशुपालं तु वैश्या; वधार्थीय़ं त्वद्विधा राजपुत्री ||
५ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रिय़म् |
६ क
वैशम्पाय़न उवाच:
तूष्णीं वभूव गान्धारी शोकव्याकुललोचना ||
६ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्तु राजर्षिर्निगृह्यावुद्धिजं तमः |
७ क
वैशम्पाय़न उवाच:
पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् ||
७ ख
वैशम्पाय़न उवाच:
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव |
८ क
वैशम्पाय़न उवाच:
हतानां यदि जानीषे परिमाणं वदस्व मे ||
८ ख
युधिष्ठिर उवाच:
दशाय़ुतानामय़ुतं सहस्राणि च विंशतिः |
९ क
युधिष्ठिर उवाच:
कोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः ||
९ ख
युधिष्ठिर उवाच:
अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश |
१० क
युधिष्ठिर उवाच:
दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च ||
१० ख
धृतराष्ट्र उवाच:
युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः |
११ क
धृतराष्ट्र उवाच:
आचक्ष्व मे महावाहो सर्वज्ञो ह्यसि मे मतः ||
११ ख
युधिष्ठिर उवाच:
यैर्हुतानि शरीराणि हृष्टैः परमसंय़ुगे |
१२ क
युधिष्ठिर उवाच:
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः ||
१२ ख
युधिष्ठिर उवाच:
ये त्वहृष्टेन मनसा मर्तव्यमिति भारत |
१३ क
युधिष्ठिर उवाच:
युध्यमाना हताः सङ्ख्ये ते गन्धर्वैः समागताः ||
१३ ख
युधिष्ठिर उवाच:
ये तु सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः |
१४ क
युधिष्ठिर उवाच:
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ||
१४ ख
युधिष्ठिर उवाच:
पीड्यमानाः परैर्ये तु हीय़माना निराय़ुधाः |
१५ क
युधिष्ठिर उवाच:
ह्रीनिषेधा महात्मानः परानभिमुखा रणे ||
१५ ख
युधिष्ठिर उवाच:
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपराय़णाः |
१६ क
युधिष्ठिर उवाच:
गतास्ते व्रह्मसदनं हता वीराः सुवर्चसः ||
१६ ख
युधिष्ठिर उवाच:
ये तत्र निहता राजन्नन्तराय़ोधनं प्रति |
१७ क
युधिष्ठिर उवाच:
यथा कथञ्चित्ते राजन्सम्प्राप्ता उत्तरान्कुरून् ||
१७ ख
धृतराष्ट्र उवाच:
केन ज्ञानवलेनैवं पुत्र पश्यसि सिद्धवत् |
१८ क
धृतराष्ट्र उवाच:
तन्मे वद महावाहो श्रोतव्यं यदि वै मय़ा ||
१८ ख
युधिष्ठिर उवाच:
निदेशाद्भवतः पूर्वं वने विचरता मय़ा |
१९ क
युधिष्ठिर उवाच:
तीर्थय़ात्राप्रसङ्गेन सम्प्राप्तोऽय़मनुग्रहः ||
१९ ख
युधिष्ठिर उवाच:
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् |
२० क
युधिष्ठिर उवाच:
दिव्यं चक्षुरपि प्राप्तं ज्ञानय़ोगेन वै पुरा ||
२० ख
धृतराष्ट्र उवाच:
येऽत्रानाथा जनस्यास्य सनाथा ये च भारत |
२१ क
धृतराष्ट्र उवाच:
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ||
२१ ख
धृतराष्ट्र उवाच:
न येषां सन्ति कर्तारो न च येऽत्राहिताग्नय़ः |
२२ क
धृतराष्ट्र उवाच:
वय़ं च कस्य कुर्यामो वहुत्वात्तात कर्मणः ||
२२ ख
धृतराष्ट्र उवाच:
यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततः |
२३ क
धृतराष्ट्र उवाच:
तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर ||
२३ ख
वैशम्पाय़न उवाच:
एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः |
२४ क
वैशम्पाय़न उवाच:
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जय़म् ||
२४ ख
वैशम्पाय़न उवाच:
विदुरं च महावुद्धिं युय़ुत्सुं चैव कौरवम् |
२५ क
वैशम्पाय़न उवाच:
इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः ||
२५ ख
वैशम्पाय़न उवाच:
भवन्तः कारय़न्त्वेषां प्रेतकार्याणि सर्वशः |
२६ क
वैशम्पाय़न उवाच:
यथा चानाथवत्किञ्चिच्छरीरं न विनश्यति ||
२६ ख
वैशम्पाय़न उवाच:
शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जय़ः |
२७ क
वैशम्पाय़न उवाच:
सुधर्मा धौम्यसहित इन्द्रसेनादय़स्तथा ||
२७ ख
वैशम्पाय़न उवाच:
चन्दनागुरुकाष्ठानि तथा कालीय़कान्युत |
२८ क
वैशम्पाय़न उवाच:
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ||
२८ ख
वैशम्पाय़न उवाच:
समाहृत्य महार्हाणि दारूणां चैव सञ्चय़ान् |
२९ क
वैशम्पाय़न उवाच:
रथांश्च मृदितांस्तत्र नानाप्रहरणानि च ||
२९ ख
वैशम्पाय़न उवाच:
चिताः कृत्वा प्रय़त्नेन यथामुख्यान्नराधिपान् |
३० क
वैशम्पाय़न उवाच:
दाहय़ामासुरव्यग्रा विधिदृष्टेन कर्मणा ||
३० ख
वैशम्पाय़न उवाच:
दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान् |
३१ क
वैशम्पाय़न उवाच:
शल्यं शलं च राजानं भूरिश्रवसमेव च ||
३१ ख
वैशम्पाय़न उवाच:
जय़द्रथं च राजानमभिमन्युं च भारत |
३२ क
वैशम्पाय़न उवाच:
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ||
३२ ख
वैशम्पाय़न उवाच:
वृहन्तं सोमदत्तं च सृञ्जय़ांश्च शताधिकान् |
३३ क
वैशम्पाय़न उवाच:
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ||
३३ ख
वैशम्पाय़न उवाच:
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् |
३४ क
वैशम्पाय़न उवाच:
युधामन्युं च विक्रान्तमुत्तमौजसमेव च ||
३४ ख
वैशम्पाय़न उवाच:
कौसल्यं द्रौपदेय़ांश्च शकुनिं चापि सौवलम् |
३५ क
वैशम्पाय़न उवाच:
अचलं वृषकं चैव भगदत्तं च पार्थिवम् ||
३५ ख
वैशम्पाय़न उवाच:
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् |
३६ क
वैशम्पाय़न उवाच:
केकय़ांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ||
३६ ख
वैशम्पाय़न उवाच:
घटोत्कचं राक्षसेन्द्रं वकभ्रातरमेव च |
३७ क
वैशम्पाय़न उवाच:
अलम्वुसं च राजानं जलसन्धं च पार्थिवम् ||
३७ ख
वैशम्पाय़न उवाच:
अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशः |
३८ क
वैशम्पाय़न उवाच:
घृतधाराहुतैर्दीप्तैः पावकैः समदाहय़न् ||
३८ ख
वैशम्पाय़न उवाच:
पितृमेधाश्च केषाञ्चिदवर्तन्त महात्मनाम् |
३९ क
वैशम्पाय़न उवाच:
सामभिश्चाप्यगाय़न्त तेऽन्वशोच्यन्त चापरैः ||
३९ ख
वैशम्पाय़न उवाच:
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः |
४० क
वैशम्पाय़न उवाच:
कश्मलं सर्वभूतानां निशाय़ां समपद्यत ||
४० ख
वैशम्पाय़न उवाच:
ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः |
४१ क
वैशम्पाय़न उवाच:
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ||
४१ ख
वैशम्पाय़न उवाच:
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः |
४२ क
वैशम्पाय़न उवाच:
तांश्च सर्वान्समानाय़्य राशीन्कृत्वा सहस्रशः ||
४२ ख
वैशम्पाय़न उवाच:
चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैः |
४३ क
वैशम्पाय़न उवाच:
दाहय़ामास विदुरो धर्मराजस्य शासनात् ||
४३ ख
वैशम्पाय़न उवाच:
कारय़ित्वा क्रिय़ास्तेषां कुरुराजो युधिष्ठिरः |
४४ क
वैशम्पाय़न उवाच:
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ||
४४ ख