chevron_left शान्ति पर्व अध्याय २६
वैशम्पाय़न उवाच:
द्वैपाय़नवचः श्रुत्वा कुपिते च धनञ्जय़े |
१ क
वैशम्पाय़न उवाच:
व्यासमामन्त्र्य कौन्तेय़ः प्रत्युवाच युधिष्ठिरः ||
१ ख
वैशम्पाय़न उवाच:
न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः |
२ क
वैशम्पाय़न उवाच:
प्रीणय़न्ति मनो मेऽद्य शोको मां नर्दय़त्ययम् ||
२ ख
वैशम्पाय़न उवाच:
श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम् |
३ क
वैशम्पाय़न उवाच:
परिदेवय़मानानां शान्तिं नोपलभे मुने ||
३ ख
वैशम्पाय़न उवाच:
इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः |
४ क
वैशम्पाय़न उवाच:
युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः ||
४ ख
वैशम्पाय़न उवाच:
न कर्मणा लभ्यते चिन्तय़ा वा; नाप्यस्य दाता पुरुषस्य कश्चित् |
५ क
वैशम्पाय़न उवाच:
पर्याय़योगाद्विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः ||
५ ख
वैशम्पाय़न उवाच:
न वुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर्मनुजैरकाले |
६ क
वैशम्पाय़न उवाच:
मूर्खोऽपि प्राप्नोति कदाचिदर्था; न्कालो हि कार्यं प्रति निर्विशेषः ||
६ ख
वैशम्पाय़न उवाच:
नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश्च तथौषधानि |
७ क
वैशम्पाय़न उवाच:
तान्येव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले ||
७ ख
वैशम्पाय़न उवाच:
कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर्जलदानुपैति |
८ क
वैशम्पाय़न उवाच:
कालेन पद्मोत्पलवज्जलं च; कालेन पुष्यन्ति नगा वनेषु ||
८ ख
वैशम्पाय़न उवाच:
कालेन कृष्णाश्च सिताश्च रात्र्यः; कालेन चन्द्रः परिपूर्णविम्वः |
९ क
वैशम्पाय़न उवाच:
नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति ||
९ ख
वैशम्पाय़न उवाच:
नाकालमत्ताः खगपन्नगाश्च; मृगद्विपाः शैलमहाग्रहाश्च |
१० क
वैशम्पाय़न उवाच:
नाकालतः स्त्रीषु भवन्ति गर्भा; नाय़ान्त्यकाले शिशिरोष्णवर्षाः ||
१० ख
वैशम्पाय़न उवाच:
नाकालतो म्रिय़ते जाय़ते वा; नाकालतो व्याहरते च वालः |
११ क
वैशम्पाय़न उवाच:
नाकालतो यौवनमभ्युपैति; नाकालतो रोहति वीजमुप्तम् ||
११ ख
वैशम्पाय़न उवाच:
नाकालतो भानुरुपैति योगं; नाकालतोऽस्तं गिरिमभ्युपैति |
१२ क
वैशम्पाय़न उवाच:
नाकालतो वर्धते हीय़ते च; चन्द्रः समुद्रश्च महोर्मिमाली ||
१२ ख
वैशम्पाय़न उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१३ क
वैशम्पाय़न उवाच:
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ||
१३ ख
वैशम्पाय़न उवाच:
सर्वानेवैष पर्याय़ो मर्त्यान्स्पृशति दुस्तरः |
१४ क
वैशम्पाय़न उवाच:
कालेन परिपक्वा हि म्रिय़न्ते सर्वमानवाः ||
१४ ख
वैशम्पाय़न उवाच:
घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा |
१५ क
वैशम्पाय़न उवाच:
सञ्ज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ||
१५ ख
वैशम्पाय़न उवाच:
हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे |
१६ क
वैशम्पाय़न उवाच:
स्वभावतस्तु निय़तौ भूतानां प्रभवाप्ययौ ||
१६ ख
वैशम्पाय़न उवाच:
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते |
१७ क
वैशम्पाय़न उवाच:
अहो कष्टमिति ध्याय़ञ्शोकस्यापचितिं चरेत् ||
१७ ख
वैशम्पाय़न उवाच:
स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि |
१८ क
वैशम्पाय़न उवाच:
पश्य दुःखेषु दुःखानि भय़ेषु च भय़ान्यपि ||
१८ ख
वैशम्पाय़न उवाच:
आत्मापि चाय़ं न मम सर्वापि पृथिवी मम |
१९ क
वैशम्पाय़न उवाच:
यथा मम तथान्येषामिति पश्यन्न मुह्यति ||
१९ ख
वैशम्पाय़न उवाच:
शोकस्थानसहस्राणि हर्षस्थानशतानि च |
२० क
वैशम्पाय़न उवाच:
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||
२० ख
वैशम्पाय़न उवाच:
एवमेतानि कालेन प्रिय़द्वेष्याणि भागशः |
२१ क
वैशम्पाय़न उवाच:
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ||
२१ ख
वैशम्पाय़न उवाच:
दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते |
२२ क
वैशम्पाय़न उवाच:
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ||
२२ ख
वैशम्पाय़न उवाच:
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् |
२३ क
वैशम्पाय़न उवाच:
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ||
२३ ख
वैशम्पाय़न उवाच:
सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च |
२४ क
वैशम्पाय़न उवाच:
तस्मादेतद्द्वय़ं जह्याद्य इच्छेच्छाश्वतं सुखम् ||
२४ ख
वैशम्पाय़न उवाच:
यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः |
२५ क
वैशम्पाय़न उवाच:
आय़ासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् ||
२५ ख
वैशम्पाय़न उवाच:
सुखं वा यदि वा दुःखं प्रिय़ं वा यदि वाप्रिय़म् |
२६ क
वैशम्पाय़न उवाच:
प्राप्तं प्राप्तमुपासीत हृदय़ेनापराजितः ||
२६ ख
वैशम्पाय़न उवाच:
ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रिय़म् |
२७ क
वैशम्पाय़न उवाच:
ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा ||
२७ ख
वैशम्पाय़न उवाच:
ये च मूढतमा लोके ये च वुद्धेः परं गताः |
२८ क
वैशम्पाय़न उवाच:
त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते ||
२८ ख
वैशम्पाय़न उवाच:
इत्यव्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् |
२९ क
वैशम्पाय़न उवाच:
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ||
२९ ख
वैशम्पाय़न उवाच:
सुखी परस्य यो दुःखे न जातु स सुखी भवेत् |
३० क
वैशम्पाय़न उवाच:
दुःखानां हि क्षय़ो नास्ति जाय़ते ह्यपरात्परम् ||
३० ख
वैशम्पाय़न उवाच:
सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च |
३१ क
वैशम्पाय़न उवाच:
पर्याय़शः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न कुप्येत् ||
३१ ख
वैशम्पाय़न उवाच:
दीक्षां यज्ञे पालनं युद्धमाहु; र्योगं राष्ट्रे दण्डनीत्या च सम्यक् |
३२ क
वैशम्पाय़न उवाच:
वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग्ज्ञानं पावनानीति विद्यात् ||
३२ ख
वैशम्पाय़न उवाच:
रक्षन्राष्ट्रं वुद्धिपूर्वं नय़ेन; सन्त्यक्तात्मा यज्ञशीलो महात्मा |
३३ क
वैशम्पाय़न उवाच:
सर्वाँल्लोकान्धर्ममूर्त्या चरंश्चा; प्यूर्ध्वं देहान्मोदते देवलोके ||
३३ ख
वैशम्पाय़न उवाच:
जित्वा सङ्ग्रामान्पालय़ित्वा च राष्ट्रं; सोमं पीत्वा वर्धय़ित्वा प्रजाश्च |
३४ क
वैशम्पाय़न उवाच:
युक्त्या दण्डं धारय़ित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके ||
३४ ख
वैशम्पाय़न उवाच:
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालय़ित्वा च राजा |
३५ क
वैशम्पाय़न उवाच:
चातुर्वर्ण्यं स्थापय़ित्वा स्वधर्मे; पूतात्मा वै मोदते देवलोके ||
३५ ख
वैशम्पाय़न उवाच:
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः |
३६ क
वैशम्पाय़न उवाच:
पौरजानपदामात्याः स राजा राजसत्तमः ||
३६ ख