chevron_left अनुशासन पर्व अध्याय २६
युधिष्ठिर उवाच:
तीर्थानां दर्शनं श्रेय़ः स्नानं च भरतर्षभ |
१ क
युधिष्ठिर उवाच:
श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ||
१ ख
युधिष्ठिर उवाच:
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ |
२ क
युधिष्ठिर उवाच:
वक्तुमर्हसि मे तानि श्रोतास्मि निय़तः प्रभो ||
२ ख
भीष्म उवाच:
इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते |
३ क
भीष्म उवाच:
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ||
३ ख
भीष्म उवाच:
तपोवनगतं विप्रमभिगम्य महामुनिम् |
४ क
भीष्म उवाच:
पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः ||
४ ख
भीष्म उवाच:
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशय़ः |
५ क
भीष्म उवाच:
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ||
५ ख
भीष्म उवाच:
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने |
६ क
भीष्म उवाच:
प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद ||
६ ख
अङ्गिरा उवाच:
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् |
७ क
अङ्गिरा उवाच:
विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत् ||
७ ख
अङ्गिरा उवाच:
काश्मीरमण्डले नद्यो याः पतन्ति महानदम् |
८ क
अङ्गिरा उवाच:
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुय़ात् ||
८ ख
अङ्गिरा उवाच:
पुष्करं च प्रभासं च नैमिषं सागरोदकम् |
९ क
अङ्गिरा उवाच:
देविकामिन्द्रमार्गं च स्वर्णविन्दुं विगाह्य च |
९ ख
अङ्गिरा उवाच:
विवोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ||
९ ग
अङ्गिरा उवाच:
हिरण्यविन्दुं विक्षोभ्य प्रय़तश्चाभिवाद्य तम् |
१० क
अङ्गिरा उवाच:
कुशेशय़ं च देवत्वं पूय़ते तस्य किल्विषम् ||
१० ख
अङ्गिरा उवाच:
इन्द्रतोय़ां समासाद्य गन्धमादनसंनिधौ |
११ क
अङ्गिरा उवाच:
करतोय़ां कुरङ्गेषु त्रिरात्रोपोषितो नरः |
११ ख
अङ्गिरा उवाच:
अश्वमेधमवाप्नोति विगाह्य निय़तः शुचिः ||
११ ग
अङ्गिरा उवाच:
गङ्गाद्वारे कुशावर्ते विल्वके नेमिपर्वते |
१२ क
अङ्गिरा उवाच:
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ||
१२ ख
अङ्गिरा उवाच:
अपां ह्रद उपस्पृश्य वाजपेय़फलं लभेत् |
१३ क
अङ्गिरा उवाच:
व्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः ||
१३ ख
अङ्गिरा उवाच:
यत्र भागीरथी गङ्गा भजते दिशमुत्तराम् |
१४ क
अङ्गिरा उवाच:
महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते |
१४ ख
अङ्गिरा उवाच:
एकमासं निराहारः स्वय़ं पश्यति देवताः ||
१४ ग
अङ्गिरा उवाच:
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पय़न् |
१५ क
अङ्गिरा उवाच:
सुधां वै लभते भोक्तुं यो नरो जाय़ते पुनः ||
१५ ख
अङ्गिरा उवाच:
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः |
१६ क
अङ्गिरा उवाच:
एकमासं निराहारः सिद्धिं मासेन स व्रजेत् ||
१६ ख
अङ्गिरा उवाच:
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः |
१७ क
अङ्गिरा उवाच:
त्रिरात्रोपोषितो भूत्वा मुच्यते व्रह्महत्यया ||
१७ ख
अङ्गिरा उवाच:
कन्याकूप उपस्पृश्य वलाकाय़ां कृतोदकः |
१८ क
अङ्गिरा उवाच:
देवेषु कीर्तिं लभते यशसा च विराजते ||
१८ ख
अङ्गिरा उवाच:
देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे |
१९ क
अङ्गिरा उवाच:
अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः ||
१९ ख
अङ्गिरा उवाच:
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा |
२० क
अङ्गिरा उवाच:
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ||
२० ख
अङ्गिरा उवाच:
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा |
२१ क
अङ्गिरा उवाच:
निवासेऽप्सरसां दिव्ये कामचारी महीय़ते ||
२१ ख
अङ्गिरा उवाच:
कालिकाश्रममासाद्य विपाशाय़ां कृतोदकः |
२२ क
अङ्गिरा उवाच:
व्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात् ||
२२ ख
अङ्गिरा उवाच:
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पय़ेत्पितॄन् |
२३ क
अङ्गिरा उवाच:
तोषय़ित्वा महादेवं निर्मलः स्वर्गमाप्नुय़ात् ||
२३ ख
अङ्गिरा उवाच:
महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः |
२४ क
अङ्गिरा उवाच:
त्रसानां स्थावराणां च द्विपदानां भय़ं त्यजेत् ||
२४ ख
अङ्गिरा उवाच:
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः |
२५ क
अङ्गिरा उवाच:
देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः ||
२५ ख
अङ्गिरा उवाच:
कौशन्ते च कुशस्तम्वे द्रोणशर्मपदे तथा |
२६ क
अङ्गिरा उवाच:
आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः ||
२६ ख
अङ्गिरा उवाच:
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले |
२७ क
अङ्गिरा उवाच:
विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति ||
२७ ख
अङ्गिरा उवाच:
श्यामाय़ास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च |
२८ क
अङ्गिरा उवाच:
त्रींस्त्रिरात्रान्स सन्धाय़ गन्धर्वनगरे वसेत् ||
२८ ख
अङ्गिरा उवाच:
रमण्यां च उपस्पृश्य तथा वै गन्धतारिके |
२९ क
अङ्गिरा उवाच:
एकमासं निराहारस्त्वन्तर्धानफलं लभेत् ||
२९ ख
अङ्गिरा उवाच:
कौशिकीद्वारमासाद्य वाय़ुभक्षस्त्वलोलुपः |
३० क
अङ्गिरा उवाच:
एकविंशतिरात्रेण स्वर्गमारोहते नरः ||
३० ख
अङ्गिरा उवाच:
मतङ्गवाप्यां यः स्नाय़ादेकरात्रेण सिध्यति |
३१ क
अङ्गिरा उवाच:
विगाहति ह्यनालम्वमन्धकं वै सनातनम् ||
३१ ख
अङ्गिरा उवाच:
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रिय़ः |
३२ क
अङ्गिरा उवाच:
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ||
३२ ख
अङ्गिरा उवाच:
गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने |
३३ क
अङ्गिरा उवाच:
अश्वमेधमवाप्नोति तत्र मासं कृतोदकः ||
३३ ख
अङ्गिरा उवाच:
गङ्गाय़मुनय़ोस्तीर्थे तथा कालञ्जरे गिरौ |
३४ क
अङ्गिरा उवाच:
षष्टिह्रद उपस्पृश्य दानं नान्यद्विशिष्यते ||
३४ ख
अङ्गिरा उवाच:
दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः |
३५ क
अङ्गिरा उवाच:
समागच्छन्ति माघ्यां तु प्रय़ागे भरतर्षभ ||
३५ ख
अङ्गिरा उवाच:
माघमासं प्रय़ागे तु निय़तः संशितव्रतः |
३६ क
अङ्गिरा उवाच:
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुय़ात् ||
३६ ख
अङ्गिरा उवाच:
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः |
३७ क
अङ्गिरा उवाच:
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ||
३७ ख
अङ्गिरा उवाच:
तथा व्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः |
३८ क
अङ्गिरा उवाच:
एकमासं निराहारः सोमलोकमवाप्नुय़ात् ||
३८ ख
अङ्गिरा उवाच:
कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः |
३९ क
अङ्गिरा उवाच:
द्वादशाहं निराहारो नरमेधफलं लभेत् ||
३९ ख
अङ्गिरा उवाच:
मुञ्जपृष्ठं गय़ां चैव निरृतिं देवपर्वतम् |
४० क
अङ्गिरा उवाच:
तृतीय़ां क्रौञ्चपादीं च व्रह्महत्या विशुध्यति ||
४० ख
अङ्गिरा उवाच:
कलश्यां वाप्युपस्पृश्य वेद्यां च वहुशोजलाम् |
४१ क
अङ्गिरा उवाच:
अग्नेः पुरे नरः स्नात्वा विशालाय़ां कृतोदकः |
४१ ख
अङ्गिरा उवाच:
देवह्रद उपस्पृश्य व्रह्मभूतो विराजते ||
४१ ग
अङ्गिरा उवाच:
पुरापवर्तनं नन्दां महानन्दां च सेव्य वै |
४२ क
अङ्गिरा उवाच:
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ||
४२ ख
अङ्गिरा उवाच:
उर्वशीकृत्तिकाय़ोगे गत्वा यः सुसमाहितः |
४३ क
अङ्गिरा उवाच:
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ||
४३ ख
अङ्गिरा उवाच:
रामह्रद उपस्पृश्य विशालाय़ां कृतोदकः |
४४ क
अङ्गिरा उवाच:
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ||
४४ ख
अङ्गिरा उवाच:
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः |
४५ क
अङ्गिरा उवाच:
एकमासं निराहारो जमदग्निगतिं लभेत् ||
४५ ख
अङ्गिरा उवाच:
विन्ध्ये सन्ताप्य चात्मानं सत्यसन्धस्त्वहिंसकः |
४६ क
अङ्गिरा उवाच:
षण्मासं पदमास्थाय़ मासेनैकेन शुध्यति ||
४६ ख
अङ्गिरा उवाच:
नर्मदाय़ामुपस्पृश्य तथा सूर्पारकोदके |
४७ क
अङ्गिरा उवाच:
एकपक्षं निराहारो राजपुत्रो विधीय़ते ||
४७ ख
अङ्गिरा उवाच:
जम्वूमार्गे त्रिभिर्मासैः संय़तः सुसमाहितः |
४८ क
अङ्गिरा उवाच:
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ||
४८ ख