chevron_left आश्वमेधिक पर्व अध्याय २६
व्राह्मण उवाच:
एकः शास्ता न द्वितीय़ोऽस्ति शास्ता; यथा निय़ुक्तोऽस्मि तथा चरामि |
१ क
व्राह्मण उवाच:
हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम् ||
१ ख
व्राह्मण उवाच:
एको गुरुर्नास्ति ततो द्वितीय़ो; यो हृच्छय़स्तमहमनुव्रवीमि |
२ क
व्राह्मण उवाच:
तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव ||
२ ख
व्राह्मण उवाच:
एको वन्धुर्नास्ति ततो द्वितीय़ो; यो हृच्छय़स्तमहमनुव्रवीमि |
३ क
व्राह्मण उवाच:
तेनानुशिष्टा वान्धवा वन्धुमन्तः; सप्तर्षय़ः सप्त दिवि प्रभान्ति ||
३ ख
व्राह्मण उवाच:
एकः श्रोता नास्ति ततो द्वितीय़ो; यो हृच्छय़स्तमहमनुव्रवीमि |
४ क
व्राह्मण उवाच:
तस्मिन्गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम् ||
४ ख
व्राह्मण उवाच:
एको द्वेष्टा नास्ति ततो द्वितीय़ो; यो हृच्छय़स्तमहमनुव्रवीमि |
५ क
व्राह्मण उवाच:
तेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव ||
५ ख
व्राह्मण उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
६ क
व्राह्मण उवाच:
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ||
६ ख
व्राह्मण उवाच:
देवर्षय़श्च नागाश्च असुराश्च प्रजापतिम् |
७ क
व्राह्मण उवाच:
पर्यपृच्छन्नुपासीनाः श्रेय़ो नः प्रोच्यतामिति ||
७ ख
व्राह्मण उवाच:
तेषां प्रोवाच भगवाञ्श्रेय़ः समनुपृच्छताम् |
८ क
व्राह्मण उवाच:
ओमित्येकाक्षरं व्रह्म ते श्रुत्वा प्राद्रवन्दिशः ||
८ ख
व्राह्मण उवाच:
तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः |
९ क
व्राह्मण उवाच:
सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ||
९ ख
व्राह्मण उवाच:
असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः |
१० क
व्राह्मण उवाच:
दानं देवा व्यवसिता दममेव महर्षय़ः ||
१० ख
व्राह्मण उवाच:
एकं शास्तारमासाद्य शव्देनैकेन संस्कृताः |
११ क
व्राह्मण उवाच:
नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ||
११ ख
व्राह्मण उवाच:
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् |
१२ क
व्राह्मण उवाच:
पृच्छतस्तावतो भूय़ो गुरुरन्योऽनुमन्यते ||
१२ ख
व्राह्मण उवाच:
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते |
१३ क
व्राह्मण उवाच:
गुरुर्वोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ||
१३ ख
व्राह्मण उवाच:
पापेन विचरँल्लोके पापचारी भवत्ययम् |
१४ क
व्राह्मण उवाच:
शुभेन विचरँल्लोके शुभचारी भवत्युत ||
१४ ख
व्राह्मण उवाच:
कामचारी तु कामेन य इन्द्रिय़सुखे रतः |
१५ क
व्राह्मण उवाच:
व्रतवारी सदैवैष य इन्द्रिय़जय़े रतः ||
१५ ख
व्राह्मण उवाच:
अपेतव्रतकर्मा तु केवलं व्रह्मणि श्रितः |
१६ क
व्राह्मण उवाच:
व्रह्मभूतश्चरँल्लोके व्रह्मचारी भवत्ययम् ||
१६ ख
व्राह्मण उवाच:
व्रह्मैव समिधस्तस्य व्रह्माग्निर्व्रह्मसंस्तरः |
१७ क
व्राह्मण उवाच:
आपो व्रह्म गुरुर्व्रह्म स व्रह्मणि समाहितः ||
१७ ख
व्राह्मण उवाच:
एतदेतादृशं सूक्ष्मं व्रह्मचर्यं विदुर्वुधाः |
१८ क
व्राह्मण उवाच:
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ||
१८ ख