chevron_left आश्रमवासिक पर्व अध्याय २६
वैशम्पाय़न उवाच:
ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः |
१ क
वैशम्पाय़न उवाच:
नारदः पर्वतश्चैव देवलश्च महातपाः ||
१ ख
वैशम्पाय़न उवाच:
द्वैपाय़नः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः |
२ क
वैशम्पाय़न उवाच:
शतय़ूपश्च राजर्षिर्वृद्धः परमधार्मिकः ||
२ ख
वैशम्पाय़न उवाच:
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि |
३ क
वैशम्पाय़न उवाच:
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया ||
३ ख
वैशम्पाय़न उवाच:
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षय़ः |
४ क
वैशम्पाय़न उवाच:
रमय़न्तो महात्मानं धृतराष्ट्रं जनाधिपम् ||
४ ख
वैशम्पाय़न उवाच:
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा |
५ क
वैशम्पाय़न उवाच:
कथामिमामकथय़त्सर्वप्रत्यक्षदर्शिवान् ||
५ ख
वैशम्पाय़न उवाच:
पुरा प्रजापतिसमो राजासीदकुतोभय़ः |
६ क
वैशम्पाय़न उवाच:
सहस्रचित्य इत्युक्तः शतय़ूपपितामहः ||
६ ख
वैशम्पाय़न उवाच:
स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके |
७ क
वैशम्पाय़न उवाच:
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ||
७ ख
वैशम्पाय़न उवाच:
स गत्वा तपसः पारं दीप्तस्य स नराधिपः |
८ क
वैशम्पाय़न उवाच:
पुरन्दरस्य संस्थानं प्रतिपेदे महामनाः ||
८ ख
वैशम्पाय़न उवाच:
दृष्टपूर्वः स वहुशो राजन्सम्पतता मय़ा |
९ क
वैशम्पाय़न उवाच:
महेन्द्रसदने राजा तपसा दग्धकिल्विषः ||
९ ख
वैशम्पाय़न उवाच:
तथा शैलालय़ो राजा भगदत्तपितामहः |
१० क
वैशम्पाय़न उवाच:
तपोवलेनैव नृपो महेन्द्रसदनं गतः ||
१० ख
वैशम्पाय़न उवाच:
तथा पृषध्रो नामासीद्राजा वज्रधरोपमः |
११ क
वैशम्पाय़न उवाच:
स चापि तपसा लेभे नाकपृष्ठमितो नृपः ||
११ ख
वैशम्पाय़न उवाच:
अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः |
१२ क
वैशम्पाय़न उवाच:
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् ||
१२ ख
वैशम्पाय़न उवाच:
भार्या समभवद्यस्य नर्मदा सरितां वरा |
१३ क
वैशम्पाय़न उवाच:
सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः ||
१३ ख
वैशम्पाय़न उवाच:
शशलोमा च नामासीद्राजा परमधार्मिकः |
१४ क
वैशम्पाय़न उवाच:
स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् ||
१४ ख
वैशम्पाय़न उवाच:
द्वैपाय़नप्रसादाच्च त्वमपीदं तपोवनम् |
१५ क
वैशम्पाय़न उवाच:
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि ||
१५ ख
वैशम्पाय़न उवाच:
त्वं चापि राजशार्दूल तपसोऽन्ते श्रिय़ा वृतः |
१६ क
वैशम्पाय़न उवाच:
गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् ||
१६ ख
वैशम्पाय़न उवाच:
पाण्डुः स्मरति नित्यं च वलहन्तुः समीपतः |
१७ क
वैशम्पाय़न उवाच:
त्वां सदैव महीपाल स त्वां श्रेय़सि योक्ष्यति ||
१७ ख
वैशम्पाय़न उवाच:
तव शुश्रूषय़ा चैव गान्धार्याश्च यशस्विनी |
१८ क
वैशम्पाय़न उवाच:
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ||
१८ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्य जननी स हि धर्मः सनातनः |
१९ क
वैशम्पाय़न उवाच:
वय़मेतत्प्रपश्यामो नृपते दिव्यचक्षुषा ||
१९ ख
वैशम्पाय़न उवाच:
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् |
२० क
वैशम्पाय़न उवाच:
सञ्जय़स्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति ||
२० ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् |
२१ क
वैशम्पाय़न उवाच:
विद्वान्वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय़ ||
२१ ख
वैशम्पाय़न उवाच:
तथा सर्वे नारदं विप्रसङ्घाः; सम्पूजय़ामासुरतीव राजन् |
२२ क
वैशम्पाय़न उवाच:
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास्तदानीम् ||
२२ ख