सञ्जय़ उवाच:
जित्वा यवनकाम्वोजान्युय़ुधानस्ततोऽर्जुनम् |
१ क
सञ्जय़ उवाच:
जगाम तव सैन्यस्य मध्येन रथिनां वरः ||
१ ख
सञ्जय़ उवाच:
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः |
२ क
सञ्जय़ उवाच:
मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषय़त् ||
२ ख
सञ्जय़ उवाच:
स रथेन चरन्मार्गान्धनुरभ्रामय़द्भृशम् |
३ क
सञ्जय़ उवाच:
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ||
३ ख
सञ्जय़ उवाच:
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः |
४ क
सञ्जय़ उवाच:
रुक्मध्वजवरः शूरो मेरुशृङ्ग इवावभौ ||
४ ख
सञ्जय़ उवाच:
सधनुर्मण्डलः सङ्ख्ये तेजोभास्वररश्मिवान् |
५ क
सञ्जय़ उवाच:
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ||
५ ख
सञ्जय़ उवाच:
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः |
६ क
सञ्जय़ उवाच:
तावकानां वभौ मध्ये गवां मध्ये यथा वृषः ||
६ ख
सञ्जय़ उवाच:
मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम् |
७ क
सञ्जय़ उवाच:
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् |
७ ख
सञ्जय़ उवाच:
व्याघ्रा इव जिघांसन्तस्त्वदीय़ाभ्यद्रवन्रणे ||
७ ग
सञ्जय़ उवाच:
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् |
८ क
सञ्जय़ उवाच:
जलसन्धार्णवं तीर्त्वा काम्वोजानां च वाहिनीम् ||
८ ख
सञ्जय़ उवाच:
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् |
९ क
सञ्जय़ उवाच:
परिवव्रुः सुसङ्क्रुद्धास्त्वदीय़ाः सात्यकिं रथाः ||
९ ख
सञ्जय़ उवाच:
दुर्योधनश्चित्रसेनो दुःशासनविविंशती |
१० क
सञ्जय़ उवाच:
शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः ||
१० ख
सञ्जय़ उवाच:
अन्ये च वहवः शूराः शस्त्रवन्तो दुरासदाः |
११ क
सञ्जय़ उवाच:
पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः ||
११ ख
सञ्जय़ उवाच:
अथ शव्दो महानासीत्तव सैन्यस्य मारिष |
१२ क
सञ्जय़ उवाच:
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ||
१२ ख
सञ्जय़ उवाच:
तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः |
१३ क
सञ्जय़ उवाच:
शनैर्याहीति यन्तारमव्रवीत्प्रहसन्निव ||
१३ ख
सञ्जय़ उवाच:
इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्वलम् |
१४ क
सञ्जय़ उवाच:
मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ||
१४ ख
सञ्जय़ उवाच:
नादय़न्वै दिशः सर्वा रथघोषेण सारथे |
१५ क
सञ्जय़ उवाच:
पृथिवीं चान्तरिक्षं च कम्पय़न्सागरानपि ||
१५ ख
सञ्जय़ उवाच:
एतद्वलार्णवं तात वारय़िष्ये महारणे |
१६ क
सञ्जय़ उवाच:
पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशय़म् ||
१६ ख
सञ्जय़ उवाच:
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे |
१७ क
सञ्जय़ उवाच:
एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ||
१७ ख
सञ्जय़ उवाच:
निहतानाहवे पश्य पदात्यश्वरथद्विपान् |
१८ क
सञ्जय़ उवाच:
मच्छरैरग्निसङ्काशैर्विदेहासून्सहस्रशः ||
१८ ख
सञ्जय़ उवाच:
इत्येवं व्रुवतस्तस्य सात्यकेरमितौजसः |
१९ क
सञ्जय़ उवाच:
समीपं सैनिकास्ते तु शीघ्रमीय़ुर्युय़ुत्सवः |
१९ ख
सञ्जय़ उवाच:
जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः ||
१९ ग
सञ्जय़ उवाच:
तानेवं व्रुवतो वीरान्सात्यकिर्निशितैः शरैः |
२० क
सञ्जय़ उवाच:
जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ||
२० ख
सञ्जय़ उवाच:
स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् |
२१ क
सञ्जय़ उवाच:
देवासुररणप्रख्यः प्रावर्तत जनक्षय़ः ||
२१ ख
सञ्जय़ उवाच:
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष |
२२ क
सञ्जय़ उवाच:
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ||
२२ ख
सञ्जय़ उवाच:
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् |
२३ क
सञ्जय़ उवाच:
असम्भ्रमं महाराज तावकानवधीद्वहून् ||
२३ ख
सञ्जय़ उवाच:
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् |
२४ क
सञ्जय़ उवाच:
न मोघः साय़कः कश्चित्सात्यकेरभवत्प्रभो ||
२४ ख
सञ्जय़ उवाच:
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः |
२५ क
सञ्जय़ उवाच:
शैनेय़वेलामासाद्य स्थितः सैन्यमहार्णवः ||
२५ ख
सञ्जय़ उवाच:
सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः |
२६ क
सञ्जय़ उवाच:
तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः |
२६ ख
सञ्जय़ उवाच:
वभ्राम तत्र तत्रैव गावः शीतार्दिता इव ||
२६ ग
सञ्जय़ उवाच:
पदातिनं रथं नागं सादिनं तुरगं तथा |
२७ क
सञ्जय़ उवाच:
अविद्धं तत्र नाद्राक्षं युय़ुधानस्य साय़कैः ||
२७ ख
सञ्जय़ उवाच:
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः |
२८ क
सञ्जय़ उवाच:
यादृक्क्षय़मनीकानामकरोत्सात्यकिर्नृप |
२८ ख
सञ्जय़ उवाच:
अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ ||
२८ ग
सञ्जय़ उवाच:
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः |
२९ क
सञ्जय़ उवाच:
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हय़ान् ||
२९ ख
सञ्जय़ उवाच:
सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः |
३० क
सञ्जय़ उवाच:
दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ||
३० ख
सञ्जय़ उवाच:
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः |
३१ क
सञ्जय़ उवाच:
दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ||
३१ ख
सञ्जय़ उवाच:
उत्स्मय़न्वृष्णिशार्दूलस्तथा वाणैः समाहतः |
३२ क
सञ्जय़ उवाच:
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ||
३२ ख
सञ्जय़ उवाच:
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः |
३३ क
सञ्जय़ उवाच:
शैनेय़ः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ||
३३ ख
सञ्जय़ उवाच:
सौवलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च |
३४ क
सञ्जय़ उवाच:
दुर्योधनं त्रिभिर्वाणैरभ्यविध्यत्स्तनान्तरे ||
३४ ख
सञ्जय़ उवाच:
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा |
३५ क
सञ्जय़ उवाच:
दुःशासनं च विंशत्या विव्याध शिनिपुङ्गवः ||
३५ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ स्यालस्तव विशां पते |
३६ क
सञ्जय़ उवाच:
अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ||
३६ ख
सञ्जय़ उवाच:
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः |
३७ क
सञ्जय़ उवाच:
दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ||
३७ ख
सञ्जय़ उवाच:
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम् |
३८ क
सञ्जय़ उवाच:
ततोऽस्य निशितैर्वाणैस्त्रिभिर्विव्याध सारथिम् ||
३८ ख
सञ्जय़ उवाच:
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् |
३९ क
सञ्जय़ उवाच:
पञ्चभिः पञ्चभिर्वाणैः पुनर्विव्याध सात्यकिः ||
३९ ख
सञ्जय़ उवाच:
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् |
४० क
सञ्जय़ उवाच:
आजघानाशु भल्लेन स हतो न्यपतद्भुवि ||
४० ख
सञ्जय़ उवाच:
पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो |
४१ क
सञ्जय़ उवाच:
वाताय़मानैस्तैरश्वैरपानीय़त सङ्गरात् ||
४१ ख
सञ्जय़ उवाच:
ततस्तव सुता राजन्सैनिकाश्च विशां पते |
४२ क
सञ्जय़ उवाच:
राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ||
४२ ख
सञ्जय़ उवाच:
विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः |
४३ क
सञ्जय़ उवाच:
अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ||
४३ ख
सञ्जय़ उवाच:
विद्राव्य सर्वसैन्यानि तावकानि समन्ततः |
४४ क
सञ्जय़ उवाच:
प्रय़यौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ||
४४ ख
सञ्जय़ उवाच:
तं शरानाददानं च रक्षमाणं च सारथिम् |
४५ क
सञ्जय़ उवाच:
आत्मानं मोचय़न्तं च तावकाः समपूजय़न् ||
४५ ख