वैशम्पाय़न उवाच:
ततो दिशः सम्प्रविहृत्य पार्था; मृगान्वराहान्महिषांश्च हत्वा |
१ क
वैशम्पाय़न उवाच:
धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक्चरन्तः सहिता वभूवुः ||
१ ख
वैशम्पाय़न उवाच:
ततो मृगव्यालगणानुकीर्णं; महावनं तद्विहगोपघुष्टम् |
२ क
वैशम्पाय़न उवाच:
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम् ||
२ ख
वैशम्पाय़न उवाच:
आदित्यदीप्तां दिशमभ्युपेत्य; मृगद्विजाः क्रूरमिमे वदन्ति |
३ क
वैशम्पाय़न उवाच:
आय़ासमुग्रं प्रतिवेदय़न्तो; महाहवं शत्रुभिर्वावमानम् ||
३ ख
वैशम्पाय़न उवाच:
क्षिप्रं निवर्तध्वमलं मृगैर्नो; मनो हि मे दूय़ति दह्यते च |
४ क
वैशम्पाय़न उवाच:
वुद्धिं समाच्छाद्य च मे समन्यु; रुद्धूय़ते प्राणपतिः शरीरे ||
४ ख
वैशम्पाय़न उवाच:
सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकमात्तलक्ष्मि |
५ क
वैशम्पाय़न उवाच:
एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर्यथा पीतरसश्च कुम्भः ||
५ ख
वैशम्पाय़न उवाच:
ते सैन्धवैरत्यनिलौघवेगै; र्महाजवैर्वाजिभिरुह्यमानाः |
६ क
वैशम्पाय़न उवाच:
युक्तैर्वृहद्भिः सुरथैर्नृवीरा; स्तदाश्रमाय़ाभिमुखा वभूवुः ||
६ ख
वैशम्पाय़न उवाच:
तेषां तु गोमाय़ुरनल्पघोषो; निवर्ततां वाममुपेत्य पार्श्वम् |
७ क
वैशम्पाय़न उवाच:
प्रव्याहरत्तं प्रविमृश्य राजा; प्रोवाच भीमं च धनञ्जय़ं च ||
७ ख
वैशम्पाय़न उवाच:
यथा वदत्येष विहीनय़ोनिः; शालावृको वाममुपेत्य पार्श्वम् |
८ क
वैशम्पाय़न उवाच:
सुव्यक्तमस्मानवमन्य पापैः; कृतोऽभिमर्दः कुरुभिः प्रसह्य ||
८ ख
वैशम्पाय़न उवाच:
इत्येव ते तद्वनमाविशन्तो; महत्यरण्ये मृगय़ां चरित्वा |
९ क
वैशम्पाय़न उवाच:
वालामपश्यन्त तदा रुदन्तीं; धात्रेय़िकां प्रेष्यवधूं प्रिय़ाय़ाः ||
९ ख
वैशम्पाय़न उवाच:
तामिन्द्रसेनस्त्वरितोऽभिसृत्य; रथादवप्लुत्य ततोऽभ्यधावत् |
१० क
वैशम्पाय़न उवाच:
प्रोवाच चैनां वचनं नरेन्द्र; धात्रेय़िकामार्ततरस्तदानीम् ||
१० ख
वैशम्पाय़न उवाच:
किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम् |
११ क
वैशम्पाय़न उवाच:
कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री |
११ ख
वैशम्पाय़न उवाच:
अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुङ्गवानाम् ||
११ ग
वैशम्पाय़न उवाच:
यद्येव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्यथ वा समुद्रम् |
१२ क
वैशम्पाय़न उवाच:
तस्या गमिष्यन्ति पदं हि पार्था; स्तथा हि सन्तप्यति धर्मराजः ||
१२ ख
वैशम्पाय़न उवाच:
को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम् |
१३ क
वैशम्पाय़न उवाच:
प्राणैः समामिष्टतमां जिहीर्षे; दनुत्तमं रत्नमिव प्रमूढः |
१३ ख
वैशम्पाय़न उवाच:
न वुध्यते नाथवतीमिहाद्य; वहिश्चरं हृदय़ं पाण्डवानाम् ||
१३ ग
वैशम्पाय़न उवाच:
कस्याद्य काय़ं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः |
१४ क
वैशम्पाय़न उवाच:
मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति |
१४ ख
वैशम्पाय़न उवाच:
निहत्य सर्वान्द्विषतः समग्रा; न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या ||
१४ ग
वैशम्पाय़न उवाच:
अथाव्रवीच्चारुमुखं प्रमृज्य; धात्रेय़िका सारथिमिन्द्रसेनम् |
१५ क
वैशम्पाय़न उवाच:
जय़द्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान्परिभूय़ कृष्णा ||
१५ ख
वैशम्पाय़न उवाच:
तिष्ठन्ति वर्त्मानि नवान्यमूनि; वृक्षाश्च न म्लान्ति तथैव भग्नाः |
१६ क
वैशम्पाय़न उवाच:
आवर्तय़ध्वं ह्यनुय़ात शीघ्रं; न दूरय़ातैव हि राजपुत्री ||
१६ ख
वैशम्पाय़न उवाच:
संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि |
१७ क
वैशम्पाय़न उवाच:
गृह्णीत चापानि महाधनानि; शरांश्च शीघ्रं पदवीं व्रजध्वम् ||
१७ ख
वैशम्पाय़न उवाच:
पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता |
१८ क
वैशम्पाय़न उवाच:
ददाति कस्मैचिदनर्हते तनुं; वराज्यपूर्णामिव भस्मनि स्रुचम् ||
१८ ख
वैशम्पाय़न उवाच:
पुरा तुषाग्नाविव हूय़ते हविः; पुरा श्मशाने स्रगिवापविध्यते |
१९ क
वैशम्पाय़न उवाच:
पुरा च सोमोऽध्वरगोऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते |
१९ ख
वैशम्पाय़न उवाच:
महत्यरण्ये मृगय़ां चरित्वा; पुरा शृगालो नलिनीं विगाहते ||
१९ ग
वैशम्पाय़न उवाच:
मा वः प्रिय़ाय़ाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम् |
२० क
वैशम्पाय़न उवाच:
स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपय़ुङ्क्षीत् |
२० ख
वैशम्पाय़न उवाच:
एतानि वर्त्मान्यनुय़ात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै ||
२० ग
युधिष्ठिर उवाच:
भद्रे तूष्णीमास्स्व निय़च्छ वाचं; मास्मत्सकाशे परुषाण्यवोचः |
२१ क
युधिष्ठिर उवाच:
राजानो वा यदि वा राजपुत्रा; वलेन मत्ता वञ्चनां प्राप्नुवन्ति ||
२१ ख
वैशम्पाय़न उवाच:
एतावदुक्त्वा प्रय़युर्हि शीघ्रं; तान्येव वर्त्मान्यनुवर्तमानाः |
२२ क
वैशम्पाय़न उवाच:
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो; ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ||
२२ ख
वैशम्पाय़न उवाच:
ततोऽपश्यंस्तस्य सैन्यस्य रेणु; मुद्धूतं वै वाजिखुरप्रणुन्नम् |
२३ क
वैशम्पाय़न उवाच:
पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीममभिद्रवेति ||
२३ ख
वैशम्पाय़न उवाच:
ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवानेत्विति राजपुत्राः |
२४ क
वैशम्पाय़न उवाच:
श्येना यथैवामिषसम्प्रय़ुक्ता; जवेन तत्सैन्यमथाभ्यधावन् ||
२४ ख
वैशम्पाय़न उवाच:
तेषां महेन्द्रोपमविक्रमाणां; संरव्धानां धर्षणाद्याज्ञसेन्याः |
२५ क
वैशम्पाय़न उवाच:
क्रोधः प्रजज्वाल जय़द्रथं च; दृष्ट्वा प्रिय़ां तस्य रथे स्थितां च ||
२५ ख
वैशम्पाय़न उवाच:
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं; वृकोदरश्चैव धनञ्जय़श्च |
२६ क
वैशम्पाय़न उवाच:
यमौ च राजा च महाधनुर्धरा; स्ततो दिशः संमुमुहुः परेषाम् ||
२६ ख