युधिष्ठिर उवाच:
कां नु वाचं सञ्जय़ मे शृणोषि; युद्धैषिणीं येन युद्धाद्विभेषि |
१ क
युधिष्ठिर उवाच:
अय़ुद्धं वै तात युद्धाद्गरीय़ः; कस्तल्लव्ध्वा जातु युध्येत सूत ||
१ ख
युधिष्ठिर उवाच:
अकुर्वतश्चेत्पुरुषस्य सञ्जय़; सिध्येत्सङ्कल्पो मनसा यं यमिच्छेत् |
२ क
युधिष्ठिर उवाच:
न कर्म कुर्याद्विदितं ममैत; दन्यत्र युद्धाद्वहु यल्लघीय़ः ||
२ ख
युधिष्ठिर उवाच:
कुतो युद्धं जातु नरः प्रजान; न्को दैवशप्तोऽभिवृणीत युद्धम् |
३ क
युधिष्ठिर उवाच:
सुखैषिणः कर्म कुर्वन्ति पार्था; धर्मादहीनं यच्च लोकस्य पथ्यम् ||
३ ख
युधिष्ठिर उवाच:
कर्मोदय़ं सुखमाशंसमानः; कृच्छ्रोपाय़ं तत्त्वतः कर्म दुःखम् |
४ क
युधिष्ठिर उवाच:
सुखप्रेप्सुर्विजिघांसुश्च दुःखं; य इन्द्रिय़ाणां प्रीतिवशानुगामी |
४ ख
युधिष्ठिर उवाच:
कामाभिध्या स्वशरीरं दुनोति; यय़ा प्रय़ुक्तोऽनुकरोति दुःखम् ||
४ ग
युधिष्ठिर उवाच:
यथेध्यमानस्य समिद्धतेजसो; भूय़ो वलं वर्धते पावकस्य |
५ क
युधिष्ठिर उवाच:
कामार्थलाभेन तथैव भूय़ो; न तृप्यते सर्पिषेवाग्निरिद्धः |
५ ख
युधिष्ठिर उवाच:
सम्पश्येमं भोगचय़ं महान्तं; सहास्माभिर्धृतराष्ट्रस्य राज्ञः ||
५ ग
युधिष्ठिर उवाच:
नाश्रेय़सामीश्वरो विग्रहाणां; नाश्रेय़सां गीतशव्दं शृणोति |
६ क
युधिष्ठिर उवाच:
नाश्रेय़सः सेवते माल्यगन्धा; न्न चाप्यश्रेय़ांस्यनुलेपनानि ||
६ ख
युधिष्ठिर उवाच:
नाश्रेय़सः प्रावरानध्यवस्ते; कथं त्वस्मान्सम्प्रणुदेत्कुरुभ्यः |
७ क
युधिष्ठिर उवाच:
अत्रैव च स्यादवधूय़ एष; कामः शरीरे हृदय़ं दुनोति ||
७ ख
युधिष्ठिर उवाच:
स्वय़ं राजा विषमस्थः परेषु; सामस्थ्यमन्विच्छति तन्न साधु |
८ क
युधिष्ठिर उवाच:
यथात्मनः पश्यति वृत्तमेव; तथा परेषामपि सोऽभ्युपैति ||
८ ख
युधिष्ठिर उवाच:
आसन्नमग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य |
९ क
युधिष्ठिर उवाच:
यथा वृद्धं वाय़ुवशेन शोचे; त्क्षेमं मुमुक्षुः शिशिरव्यपाय़े ||
९ ख
युधिष्ठिर उवाच:
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा; लालप्यते सञ्जय़ कस्य हेतोः |
१० क
युधिष्ठिर उवाच:
प्रगृह्य दुर्वुद्धिमनार्जवे रतं; पुत्रं मन्दं मूढममन्त्रिणं तु ||
१० ख
युधिष्ठिर उवाच:
अनाप्तः सन्नाप्ततमस्य वाचं; सुय़ोधनो विदुरस्यावमन्य |
११ क
युधिष्ठिर उवाच:
सुतस्य राजा धृतराष्ट्रः प्रिय़ैषी; सम्वुध्यमानो विशतेऽधर्ममेव ||
११ ख
युधिष्ठिर उवाच:
मेधाविनं ह्यर्थकामं कुरूणां; वहुश्रुतं वाग्मिनं शीलवन्तम् |
१२ क
युधिष्ठिर उवाच:
सूत राजा धृतराष्ट्रः कुरुभ्यो; न सोऽस्मरद्विदुरं पुत्रकाम्यात् ||
१२ ख
युधिष्ठिर उवाच:
मानघ्नस्य आत्मकामस्य चेर्ष्योः; संरम्भिणश्चार्थधर्मातिगस्य |
१३ क
युधिष्ठिर उवाच:
दुर्भाषिणो मन्युवशानुगस्य; कामात्मनो दुर्हृदो भावनस्य ||
१३ ख
युधिष्ठिर उवाच:
अनेय़स्याश्रेय़सो दीर्घमन्यो; र्मित्रद्रुहः सञ्जय़ पापवुद्धेः |
१४ क
युधिष्ठिर उवाच:
सुतस्य राजा धृतराष्ट्रः प्रिय़ैषी; प्रपश्यमानः प्रजहाद्धर्मकामौ ||
१४ ख
युधिष्ठिर उवाच:
तदैव मे सञ्जय़ दीव्यतोऽभू; न्नो चेत्कुरूनागतः स्यादभावः |
१५ क
युधिष्ठिर उवाच:
काव्यां वाचं विदुरो भाषमाणो; न विन्दते धृतराष्ट्रात्प्रशंसाम् ||
१५ ख
युधिष्ठिर उवाच:
क्षत्तुर्यदा अन्ववर्तन्त वुद्धिं; कृच्छ्रं कुरून्न तदाभ्याजगाम |
१६ क
युधिष्ठिर उवाच:
यावत्प्रज्ञामन्ववर्तन्त तस्य; तावत्तेषां राष्ट्रवृद्धिर्वभूव ||
१६ ख
युधिष्ठिर उवाच:
तदर्थलुव्धस्य निवोध मेऽद्य; ये मन्त्रिणो धार्तराष्ट्रस्य सूत |
१७ क
युधिष्ठिर उवाच:
दुःशासनः शकुनिः सूतपुत्रो; गावल्गणे पश्य संमोहमस्य ||
१७ ख
युधिष्ठिर उवाच:
सोऽहं न पश्यामि परीक्षमाणः; कथं स्वस्ति स्यात्कुरुसृञ्जय़ानाम् |
१८ क
युधिष्ठिर उवाच:
आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः; प्रव्राजिते विदुरे दीर्घदृष्टौ ||
१८ ख
युधिष्ठिर उवाच:
आशंसते वै धृतराष्ट्रः सपुत्रो; महाराज्यमसपत्नं पृथिव्याम् |
१९ क
युधिष्ठिर उवाच:
तस्मिञ्शमः केवलं नोपलभ्यो; अत्यासन्नं मद्गतं मन्यतेऽर्थम् ||
१९ ख
युधिष्ठिर उवाच:
यत्तत्कर्णो मन्यते पारणीय़ं; युद्धे गृहीताय़ुधमर्जुनेन |
२० क
युधिष्ठिर उवाच:
आसंश्च युद्धानि पुरा महान्ति; कथं कर्णो नाभवद्द्वीप एषाम् ||
२० ख
युधिष्ठिर उवाच:
कर्णश्च जानाति सुय़ोधनश्च; द्रोणश्च जानाति पितामहश्च |
२१ क
युधिष्ठिर उवाच:
अन्ये च ये कुरवस्तत्र सन्ति; यथार्जुनान्नास्त्यपरो धनुर्धरः ||
२१ ख
युधिष्ठिर उवाच:
जानन्त्येते कुरवः सर्व एव; ये चाप्यन्ये भूमिपालाः समेताः |
२२ क
युधिष्ठिर उवाच:
दुर्योधनं चापराधे चरन्त; मरिन्दमे फल्गुनेऽविद्यमाने ||
२२ ख
युधिष्ठिर उवाच:
तेनार्थवद्धं मन्यते धार्तराष्ट्रः; शक्यं हर्तुं पाण्डवानां ममत्वम् |
२३ क
युधिष्ठिर उवाच:
किरीटिना तालमात्राय़ुधेन; तद्वेदिना संय़ुगं तत्र गत्वा ||
२३ ख
युधिष्ठिर उवाच:
गाण्डीवविस्फारितशव्दमाजा; वशृण्वाना धार्तराष्ट्रा ध्रिय़न्ते |
२४ क
युधिष्ठिर उवाच:
क्रुद्धस्य चेद्भीमसेनस्य वेगा; त्सुय़ोधनो मन्यते सिद्धमर्थम् ||
२४ ख
युधिष्ठिर उवाच:
इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु; मैश्वर्यं नो जीवति भीमसेने |
२५ क
युधिष्ठिर उवाच:
धनञ्जय़े नकुले चैव सूत; तथा वीरे सहदेवे मदीय़े ||
२५ ख
युधिष्ठिर उवाच:
स चेदेतां प्रतिपद्येत वुद्धिं; वृद्धो राजा सह पुत्रेण सूत |
२६ क
युधिष्ठिर उवाच:
एवं रणे पाण्डवकोपदग्धा; न नश्येय़ुः सञ्जय़ धार्तराष्ट्राः ||
२६ ख
युधिष्ठिर उवाच:
जानासि त्वं क्लेशमस्मासु वृत्तं; त्वां पूजय़न्सञ्जय़ाहं क्षमेय़म् |
२७ क
युधिष्ठिर उवाच:
यच्चास्माकं कौरवैर्भूतपूर्वं; या नो वृत्तिर्धार्तराष्ट्रे तदासीत् ||
२७ ख
युधिष्ठिर उवाच:
अद्यापि तत्तत्र तथैव वर्ततां; शान्तिं गमिष्यामि यथा त्वमात्थ |
२८ क
युधिष्ठिर उवाच:
इन्द्रप्रस्थे भवतु ममैव राज्यं; सुय़ोधनो यच्छतु भारताग्र्यः ||
२८ ख