chevron_left भीष्म पर्व अध्याय २६
श्रीभगवानु उवाच:
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |
१ क
श्रीभगवानु उवाच:
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽव्रवीत् ||
१ ख
श्रीभगवानु उवाच:
एवं परम्पराप्राप्तमिमं राजर्षय़ो विदुः |
२ क
श्रीभगवानु उवाच:
स कालेनेह महता योगो नष्टः परन्तप ||
२ ख
श्रीभगवानु उवाच:
स एवाय़ं मय़ा तेऽद्य योगः प्रोक्तः पुरातनः |
३ क
श्रीभगवानु उवाच:
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ||
३ ख
अर्जुन उवाच:
अपरं भवतो जन्म परं जन्म विवस्वतः |
४ क
अर्जुन उवाच:
कथमेतद्विजानीय़ां त्वमादौ प्रोक्तवानिति ||
४ ख
श्रीभगवानु उवाच:
वहूनि मे व्यतीतानि जन्मानि तव चार्जुन |
५ क
श्रीभगवानु उवाच:
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ||
५ ख
श्रीभगवानु उवाच:
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् |
६ क
श्रीभगवानु उवाच:
प्रकृतिं स्वामधिष्ठाय़ सम्भवाम्यात्ममाय़या ||
६ ख
श्रीभगवानु उवाच:
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |
७ क
श्रीभगवानु उवाच:
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ||
७ ख
श्रीभगवानु उवाच:
परित्राणाय़ साधूनां विनाशाय़ च दुष्कृताम् |
८ क
श्रीभगवानु उवाच:
धर्मसंस्थापनार्थाय़ सम्भवामि युगे युगे ||
८ ख
श्रीभगवानु उवाच:
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः |
९ क
श्रीभगवानु उवाच:
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ||
९ ख
श्रीभगवानु उवाच:
वीतरागभय़क्रोधा मन्मय़ा मामुपाश्रिताः |
१० क
श्रीभगवानु उवाच:
वहवो ज्ञानतपसा पूता मद्भावमागताः ||
१० ख
श्रीभगवानु उवाच:
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |
११ क
श्रीभगवानु उवाच:
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||
११ ख
श्रीभगवानु उवाच:
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः |
१२ क
श्रीभगवानु उवाच:
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ||
१२ ख
श्रीभगवानु उवाच:
चातुर्वर्ण्यं मय़ा सृष्टं गुणकर्मविभागशः |
१३ क
श्रीभगवानु उवाच:
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ||
१३ ख
श्रीभगवानु उवाच:
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा |
१४ क
श्रीभगवानु उवाच:
इति मां योऽभिजानाति कर्मभिर्न स वध्यते ||
१४ ख
श्रीभगवानु उवाच:
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः |
१५ क
श्रीभगवानु उवाच:
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ||
१५ ख
श्रीभगवानु उवाच:
किं कर्म किमकर्मेति कवय़ोऽप्यत्र मोहिताः |
१६ क
श्रीभगवानु उवाच:
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||
१६ ख
श्रीभगवानु उवाच:
कर्मणो ह्यपि वोद्धव्यं वोद्धव्यं च विकर्मणः |
१७ क
श्रीभगवानु उवाच:
अकर्मणश्च वोद्धव्यं गहना कर्मणो गतिः ||
१७ ख
श्रीभगवानु उवाच:
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः |
१८ क
श्रीभगवानु उवाच:
स वुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ||
१८ ख
श्रीभगवानु उवाच:
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः |
१९ क
श्रीभगवानु उवाच:
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं वुधाः ||
१९ ख
श्रीभगवानु उवाच:
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रय़ः |
२० क
श्रीभगवानु उवाच:
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ||
२० ख
श्रीभगवानु उवाच:
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः |
२१ क
श्रीभगवानु उवाच:
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्विषम् ||
२१ ख
श्रीभगवानु उवाच:
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः |
२२ क
श्रीभगवानु उवाच:
समः सिद्धावसिद्धौ च कृत्वापि न निवध्यते ||
२२ ख
श्रीभगवानु उवाच:
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः |
२३ क
श्रीभगवानु उवाच:
यज्ञाय़ाचरतः कर्म समग्रं प्रविलीय़ते ||
२३ ख
श्रीभगवानु उवाच:
व्रह्मार्पणं व्रह्महविर्व्रह्माग्नौ व्रह्मणा हुतम् |
२४ क
श्रीभगवानु उवाच:
व्रह्मैव तेन गन्तव्यं व्रह्मकर्मसमाधिना ||
२४ ख
श्रीभगवानु उवाच:
दैवमेवापरे यज्ञं योगिनः पर्युपासते |
२५ क
श्रीभगवानु उवाच:
व्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ||
२५ ख
श्रीभगवानु उवाच:
श्रोत्रादीनीन्द्रिय़ाण्यन्ये संय़माग्निषु जुह्वति |
२६ क
श्रीभगवानु उवाच:
शव्दादीन्विषय़ानन्य इन्द्रिय़ाग्निषु जुह्वति ||
२६ ख
श्रीभगवानु उवाच:
सर्वाणीन्द्रिय़कर्माणि प्राणकर्माणि चापरे |
२७ क
श्रीभगवानु उवाच:
आत्मसंय़मय़ोगाग्नौ जुह्वति ज्ञानदीपिते ||
२७ ख
श्रीभगवानु उवाच:
द्रव्ययज्ञास्तपोय़ज्ञा योगय़ज्ञास्तथापरे |
२८ क
श्रीभगवानु उवाच:
स्वाध्याय़ज्ञानय़ज्ञाश्च यतय़ः संशितव्रताः ||
२८ ख
श्रीभगवानु उवाच:
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे |
२९ क
श्रीभगवानु उवाच:
प्राणापानगती रुद्ध्वा प्राणाय़ामपराय़णाः ||
२९ ख
श्रीभगवानु उवाच:
अपरे निय़ताहाराः प्राणान्प्राणेषु जुह्वति |
३० क
श्रीभगवानु उवाच:
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ||
३० ख
श्रीभगवानु उवाच:
यज्ञशिष्टामृतभुजो यान्ति व्रह्म सनातनम् |
३१ क
श्रीभगवानु उवाच:
नाय़ं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ||
३१ ख
श्रीभगवानु उवाच:
एवं वहुविधा यज्ञा वितता व्रह्मणो मुखे |
३२ क
श्रीभगवानु उवाच:
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ||
३२ ख
श्रीभगवानु उवाच:
श्रेय़ान्द्रव्यमय़ाद्यज्ञाज्ज्ञानय़ज्ञः परन्तप |
३३ क
श्रीभगवानु उवाच:
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ||
३३ ख
श्रीभगवानु उवाच:
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवय़ा |
३४ क
श्रीभगवानु उवाच:
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ||
३४ ख
श्रीभगवानु उवाच:
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव |
३५ क
श्रीभगवानु उवाच:
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मय़ि ||
३५ ख
श्रीभगवानु उवाच:
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः |
३६ क
श्रीभगवानु उवाच:
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ||
३६ ख
श्रीभगवानु उवाच:
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |
३७ क
श्रीभगवानु उवाच:
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ||
३७ ख
श्रीभगवानु उवाच:
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |
३८ क
श्रीभगवानु उवाच:
तत्स्वय़ं योगसंसिद्धः कालेनात्मनि विन्दति ||
३८ ख
श्रीभगवानु उवाच:
श्रद्धावाँल्लभते ज्ञानं तत्परः संय़तेन्द्रिय़ः |
३९ क
श्रीभगवानु उवाच:
ज्ञानं लव्ध्वा परां शान्तिमचिरेणाधिगच्छति ||
३९ ख
श्रीभगवानु उवाच:
अज्ञश्चाश्रद्दधानश्च संशय़ात्मा विनश्यति |
४० क
श्रीभगवानु उवाच:
नाय़ं लोकोऽस्ति न परो न सुखं संशय़ात्मनः ||
४० ख
श्रीभगवानु उवाच:
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशय़म् |
४१ क
श्रीभगवानु उवाच:
आत्मवन्तं न कर्माणि निवध्नन्ति धनञ्जय़ ||
४१ ख
श्रीभगवानु उवाच:
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः |
४२ क
श्रीभगवानु उवाच:
छित्त्वैनं संशय़ं योगमातिष्ठोत्तिष्ठ भारत ||
४२ ख