वैशम्पाय़न उवाच:
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा |
१ क
वैशम्पाय़न उवाच:
महारथेषु छन्नेषु मासा दश समत्ययुः ||
१ ख
वैशम्पाय़न उवाच:
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते |
२ क
वैशम्पाय़न उवाच:
अवसत्परिचारार्हा सुदुःखं जनमेजय़ ||
२ ख
वैशम्पाय़न उवाच:
तथा चरन्तीं पाञ्चालीं सुदेष्णाय़ा निवेशने |
३ क
वैशम्पाय़न उवाच:
सेनापतिर्विराटस्य ददर्श जलजाननाम् ||
३ ख
वैशम्पाय़न उवाच:
तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव |
४ क
वैशम्पाय़न उवाच:
कीचकः कामय़ामास कामवाणप्रपीडितः ||
४ ख
वैशम्पाय़न उवाच:
स तु कामाग्निसन्तप्तः सुदेष्णामभिगम्य वै |
५ क
वैशम्पाय़न उवाच:
प्रहसन्निव सेनानीरिदं वचनमव्रवीत् ||
५ ख
वैशम्पाय़न उवाच:
नेय़ं पुरा जातु मय़ेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा |
६ क
वैशम्पाय़न उवाच:
रूपेण चोन्मादय़तीव मां भृशं; गन्धेन जाता मदिरेव भामिनी ||
६ ख
वैशम्पाय़न उवाच:
का देवरूपा हृदय़ङ्गमा शुभे; आचक्ष्व मे का च कुतश्च शोभना |
७ क
वैशम्पाय़न उवाच:
चित्तं हि निर्मथ्य करोति मां वशे; न चान्यदत्रौषधमद्य मे मतम् ||
७ ख
वैशम्पाय़न उवाच:
अहो तवेय़ं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति मामिय़म् |
८ क
वैशम्पाय़न उवाच:
अय़ुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच्च ममास्ति किञ्चन ||
८ ख
वैशम्पाय़न उवाच:
प्रभूतनागाश्वरथं महाधनं; समृद्धिय़ुक्तं वहुपानभोजनम् |
९ क
वैशम्पाय़न उवाच:
मनोहरं काञ्चनचित्रभूषणं; गृहं महच्छोभय़तामिय़ं मम ||
९ ख
वैशम्पाय़न उवाच:
ततः सुदेष्णामनुमन्त्र्य कीचक; स्ततः समभ्येत्य नराधिपात्मजाम् |
१० क
वैशम्पाय़न उवाच:
उवाच कृष्णामभिसान्त्वय़ंस्तदा; मृगेन्द्रकन्यामिव जम्वुको वने ||
१० ख
वैशम्पाय़न उवाच:
इदं च रूपं प्रथमं च ते वय़ो; निरर्थकं केवलमद्य भामिनि |
११ क
वैशम्पाय़न उवाच:
अधार्यमाणा स्रगिवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती ||
११ ख
वैशम्पाय़न उवाच:
त्यजामि दारान्मम ये पुरातना; भवन्तु दास्यस्तव चारुहासिनि |
१२ क
वैशम्पाय़न उवाच:
अहं च ते सुन्दरि दासवत्स्थितः; सदा भविष्ये वशगो वरानने ||
१२ ख
द्रौपद्यु उवाच:
अप्रार्थनीय़ामिह मां सूतपुत्राभिमन्यसे |
१३ क
द्रौपद्यु उवाच:
विहीनवर्णां सैरन्ध्रीं वीभत्सां केशकारिकाम् ||
१३ ख
द्रौपद्यु उवाच:
परदारास्मि भद्रं ते न युक्तं त्वय़ि साम्प्रतम् |
१४ क
द्रौपद्यु उवाच:
दय़िताः प्राणिनां दारा धर्मं समनुचिन्तय़ ||
१४ ख
द्रौपद्यु उवाच:
परदारे न ते वुद्धिर्जातु कार्या कथञ्चन |
१५ क
द्रौपद्यु उवाच:
विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् ||
१५ ख
द्रौपद्यु उवाच:
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः |
१६ क
द्रौपद्यु उवाच:
अय़शः प्राप्नुय़ाद्घोरं सुमहत्प्राप्नुय़ाद्भय़म् ||
१६ ख
द्रौपद्यु उवाच:
मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् |
१७ क
द्रौपद्यु उवाच:
दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम् ||
१७ ख
द्रौपद्यु उवाच:
न चाप्यहं त्वय़ा शक्या गन्धर्वाः पतय़ो मम |
१८ क
द्रौपद्यु उवाच:
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ||
१८ ख
द्रौपद्यु उवाच:
अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि |
१९ क
द्रौपद्यु उवाच:
यथा निश्चेतनो वालः कूलस्थः कूलमुत्तरम् |
१९ ख
द्रौपद्यु उवाच:
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ||
१९ ग
द्रौपद्यु उवाच:
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः; समुद्रपारं यदि वा प्रधावसि |
२० क
द्रौपद्यु उवाच:
तथापि तेषां न विमोक्षमर्हसि; प्रमाथिनो देवसुता हि मे वराः ||
२० ख
द्रौपद्यु उवाच:
त्वं कालरात्रीमिव कश्चिदातुरः; किं मां दृढं प्रार्थय़सेऽद्य कीचक |
२१ क
द्रौपद्यु उवाच:
किं मातुरङ्के शय़ितो यथा शिशु; श्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ||
२१ ख