chevron_left कर्ण पर्व अध्याय २६
दुर्योधन उवाच:
अय़ं ते कर्ण सारथ्यं मद्रराजः करिष्यति |
१ क
दुर्योधन उवाच:
कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः ||
१ ख
दुर्योधन उवाच:
यथा हरिहय़ैर्युक्तं सङ्गृह्णाति स मातलिः |
२ क
दुर्योधन उवाच:
शल्यस्तव तथाद्याय़ं संय़न्ता रथवाजिनाम् ||
२ ख
दुर्योधन उवाच:
योधे त्वय़ि रथस्थे च मद्रराजे च सारथौ |
३ क
दुर्योधन उवाच:
रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थो नाभिभविष्यति ||
३ ख
सञ्जय़ उवाच:
ततो दुर्योधनो भूय़ो मद्रराजं तरस्विनम् |
४ क
सञ्जय़ उवाच:
उवाच राजन्सङ्ग्रामे संय़च्छन्तं हय़ोत्तमान् ||
४ ख
सञ्जय़ उवाच:
त्वय़ाभिगुप्तो राधेय़ो विजेष्यति धनञ्जय़म् |
५ क
सञ्जय़ उवाच:
इत्युक्तो रथमास्थाय़ तथेति प्राह भारत ||
५ ख
सञ्जय़ उवाच:
शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽव्रवीत् |
६ क
सञ्जय़ उवाच:
स्वं सूत स्यन्दनं मह्यं कल्पय़ेत्यसकृत्त्वरन् ||
६ ख
सञ्जय़ उवाच:
ततो जैत्रं रथवरं गन्धर्वनगरोपमम् |
७ क
सञ्जय़ उवाच:
विधिवत्कल्पितं भर्त्रे जय़ेत्युक्त्वा न्यवेदय़त् ||
७ ख
सञ्जय़ उवाच:
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि |
८ क
सञ्जय़ उवाच:
सम्पादितं व्रह्मविदा पूर्वमेव पुरोधसा ||
८ ख
सञ्जय़ उवाच:
कृत्वा प्रदक्षिणं यत्नादुपस्थाय़ च भास्करम् |
९ क
सञ्जय़ उवाच:
समीपस्थं मद्रराजं समारोपय़दग्रतः ||
९ ख
सञ्जय़ उवाच:
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् |
१० क
सञ्जय़ उवाच:
आरुरोह महातेजाः शल्यः सिंह इवाचलम् ||
१० ख
सञ्जय़ उवाच:
ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम् |
११ क
सञ्जय़ उवाच:
अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः ||
११ ख
सञ्जय़ उवाच:
तावेकरथमारूढावादित्याग्निसमत्विषौ |
१२ क
सञ्जय़ उवाच:
व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ||
१२ ख
सञ्जय़ उवाच:
संस्तूय़मानौ तौ वीरौ तदास्तां द्युतिमत्तरौ |
१३ क
सञ्जय़ उवाच:
ऋत्विक्सदस्यैरिन्द्राग्नी हूय़मानाविवाध्वरे ||
१३ ख
सञ्जय़ उवाच:
स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितोऽभवत् |
१४ क
सञ्जय़ उवाच:
धनुर्विस्फारय़न्घोरं परिवेषीव भास्करः ||
१४ ख
सञ्जय़ उवाच:
आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् |
१५ क
सञ्जय़ उवाच:
प्रवभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् ||
१५ ख
सञ्जय़ उवाच:
तं रथस्थं महावीरं यान्तं चामिततेजसम् |
१६ क
सञ्जय़ उवाच:
दुर्योधनः स्म राधेय़मिदं वचनमव्रवीत् ||
१६ ख
सञ्जय़ उवाच:
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संय़ुगे |
१७ क
सञ्जय़ उवाच:
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् ||
१७ ख
सञ्जय़ उवाच:
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ |
१८ क
सञ्जय़ उवाच:
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ||
१८ ख
सञ्जय़ उवाच:
ताभ्यां यदकृतं वीर वीरकर्म महामृधे |
१९ क
सञ्जय़ उवाच:
तत्कर्म कुरु राधेय़ वज्रपाणिरिवापरः ||
१९ ख
सञ्जय़ उवाच:
गृहाण धर्मराजं वा जहि वा त्वं धनञ्जय़म् |
२० क
सञ्जय़ उवाच:
भीमसेनं च राधेय़ माद्रीपुत्रौ यमावपि ||
२० ख
सञ्जय़ उवाच:
जय़श्च तेऽस्तु भद्रं च प्रय़ाहि पुरुषर्षभ |
२१ क
सञ्जय़ उवाच:
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ||
२१ ख
सञ्जय़ उवाच:
ततस्तूर्यसहस्राणि भेरीणामय़ुतानि च |
२२ क
सञ्जय़ उवाच:
वाद्यमानान्यरोचन्त मेघशव्दा यथा दिवि ||
२२ ख
सञ्जय़ उवाच:
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः |
२३ क
सञ्जय़ उवाच:
अभ्यभाषत राधेय़ः शल्यं युद्धविशारदम् ||
२३ ख
सञ्जय़ उवाच:
चोदय़ाश्वान्महावाहो यावद्धन्मि धनञ्जय़म् |
२४ क
सञ्जय़ उवाच:
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् ||
२४ ख
सञ्जय़ उवाच:
अद्य पश्यतु मे शल्य वाहुवीर्यं धनञ्जय़ः |
२५ क
सञ्जय़ उवाच:
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ||
२५ ख
सञ्जय़ उवाच:
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् |
२६ क
सञ्जय़ उवाच:
पाण्डवानां विनाशाय़ दुर्योधनजय़ाय़ च ||
२६ ख
शल्य उवाच:
सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे |
२७ क
शल्य उवाच:
सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान् ||
२७ ख
शल्य उवाच:
अनिवर्तिनो महाभागानजेय़ान्सत्यविक्रमान् |
२८ क
शल्य उवाच:
अपि सञ्जनय़ेय़ुर्ये भय़ं साक्षाच्छतक्रतोः ||
२८ ख
शल्य उवाच:
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः |
२९ क
शल्य उवाच:
राधेय़ गाण्डिवस्याजौ तदा नैवं वदिष्यसि ||
२९ ख
सञ्जय़ उवाच:
अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम् |
३० क
सञ्जय़ उवाच:
द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर ||
३० ख
सञ्जय़ उवाच:
दृष्ट्वा कर्णं महेष्वासं युय़ुत्सुं समवस्थितम् |
३१ क
सञ्जय़ उवाच:
चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परन्तप ||
३१ ख
सञ्जय़ उवाच:
ततो दुन्दुभिघोषेण भेरीणां निनदेन च |
३२ क
सञ्जय़ उवाच:
वाणशव्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् |
३२ ख
सञ्जय़ उवाच:
निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम् ||
३२ ग
सञ्जय़ उवाच:
प्रय़ाते तु ततः कर्णे योधेषु मुदितेषु च |
३३ क
सञ्जय़ उवाच:
चचाल पृथिवी राजन्ररास च सुविस्वरम् ||
३३ ख
सञ्जय़ उवाच:
निश्चरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः |
३४ क
सञ्जय़ उवाच:
उल्कापातश्च सञ्जज्ञे दिशां दाहस्तथैव च |
३४ ख
सञ्जय़ उवाच:
तथाशन्यश्च सम्पेतुर्ववुर्वाताश्च दारुणाः ||
३४ ग
सञ्जय़ उवाच:
मृगपक्षिगणाश्चैव वहुशः पृतनां तव |
३५ क
सञ्जय़ उवाच:
अपसव्यं तदा चक्रुर्वेदय़न्तो महद्भय़म् ||
३५ ख
सञ्जय़ उवाच:
प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि |
३६ क
सञ्जय़ उवाच:
अस्थिवर्षं च पतितमन्तरिक्षाद्भय़ानकम् ||
३६ ख
सञ्जय़ उवाच:
जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे |
३७ क
सञ्जय़ उवाच:
अश्रूणि च व्यमुञ्चन्त वाहनानि विशां पते ||
३७ ख
सञ्जय़ उवाच:
एते चान्ये च वहव उत्पातास्तत्र मारिष |
३८ क
सञ्जय़ उवाच:
समुत्पेतुर्विनाशाय़ कौरवाणां सुदारुणाः ||
३८ ख
सञ्जय़ उवाच:
न च तान्गणय़ामासुः सर्वे ते दैवमोहिताः |
३९ क
सञ्जय़ उवाच:
प्रस्थितं सूतपुत्रं च जय़ेत्यूचुर्नरा भुवि |
३९ ख
सञ्जय़ उवाच:
निर्जितान्पाण्डवांश्चैव मेनिरे तव कौरवाः ||
३९ ग
सञ्जय़ उवाच:
ततो रथस्थः परवीरहन्ता; भीष्मद्रोणावात्तवीर्यौ निरीक्ष्य |
४० क
सञ्जय़ उवाच:
समज्वलद्भारत पावकाभो; वैकर्तनोऽसौ रथकुञ्जरो वृषः ||
४० ख
सञ्जय़ उवाच:
स शल्यमाभाष्य जगाद वाक्यं; पार्थस्य कर्माप्रतिमं च दृष्ट्वा |
४१ क
सञ्जय़ उवाच:
मानेन दर्पेण च दह्यमानः; क्रोधेन दीप्यन्निव निःश्वसित्वा ||
४१ ख
सञ्जय़ उवाच:
नाहं महेन्द्रादपि वज्रपाणेः; क्रुद्धाद्विभेम्यात्तधनू रथस्थः |
४२ क
सञ्जय़ उवाच:
दृष्ट्वा तु भीष्मप्रमुखाञ्शय़ाना; न्न त्वेव मां स्थिरता सञ्जहाति ||
४२ ख
सञ्जय़ उवाच:
महेन्द्रविष्णुप्रतिमावनिन्दितौ; रथाश्वनागप्रवरप्रमाथिनौ |
४३ क
सञ्जय़ उवाच:
अवध्यकल्पौ निहतौ यदा परै; स्ततो ममाद्यापि रणेऽस्ति साध्वसम् ||
४३ ख
सञ्जय़ उवाच:
समीक्ष्य सङ्ख्येऽतिवलान्नराधिपै; र्नराश्वमातङ्गरथाञ्शरैर्हतान् |
४४ क
सञ्जय़ उवाच:
कथं न सर्वानहितान्रणेऽवधी; न्महास्त्रविद्व्राह्मणपुङ्गवो गुरुः ||
४४ ख
सञ्जय़ उवाच:
स संस्मरन्द्रोणहवं महाहवे; व्रवीमि सत्यं कुरवो निवोधत |
४५ क
सञ्जय़ उवाच:
न वो मदन्यः प्रसहेद्रणेऽर्जुनं; क्रमागतं मृत्युमिवोग्ररूपिणम् ||
४५ ख
सञ्जय़ उवाच:
शिक्षा प्रसादश्च वलं धृतिश्च; द्रोणे महास्त्राणि च संनतिश्च |
४६ क
सञ्जय़ उवाच:
स चेदगान्मृत्युवशं महात्मा; सर्वानन्यानातुरानद्य मन्ये ||
४६ ख
सञ्जय़ उवाच:
नेह ध्रुवं किञ्चिदपि प्रचिन्त्यं; विदुर्लोके कर्मणोऽनित्ययोगात् |
४७ क
सञ्जय़ उवाच:
सूर्योदय़े को हि विमुक्तसंशय़ो; गर्वं कुर्वीताद्य गुरौ निपातिते ||
४७ ख
सञ्जय़ उवाच:
न नूनमस्त्राणि वलं पराक्रमः; क्रिय़ा सुनीतं परमाय़ुधानि वा |
४८ क
सञ्जय़ उवाच:
अलं मनुष्यस्य सुखाय़ वर्तितुं; तथा हि युद्धे निहतः परैर्गुरुः ||
४८ ख
सञ्जय़ उवाच:
हुताशनादित्यसमानतेजसं; पराक्रमे विष्णुपुरन्दरोपमम् |
४९ क