chevron_left शल्य पर्व अध्याय २६
सञ्जय़ उवाच:
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः |
१ क
सञ्जय़ उवाच:
हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ ||
१ ख
सञ्जय़ उवाच:
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् |
२ क
सञ्जय़ उवाच:
उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जय़म् ||
२ ख
सञ्जय़ उवाच:
शत्रवो हतभूय़िष्ठा ज्ञातय़ः परिपालिताः |
३ क
सञ्जय़ उवाच:
गृहीत्वा सञ्जय़ं चासौ निवृत्तः शिनिपुङ्गवः ||
३ ख
सञ्जय़ उवाच:
परिश्रान्तश्च नकुलः सहदेवश्च भारत |
४ क
सञ्जय़ उवाच:
योधय़ित्वा रणे पापान्धार्तराष्ट्रपदानुगान् ||
४ ख
सञ्जय़ उवाच:
सुय़ोधनमभित्यज्य त्रय़ एते व्यवस्थिताः |
५ क
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ||
५ ख
सञ्जय़ उवाच:
असौ तिष्ठति पाञ्चाल्यः श्रिय़ा परमय़ा युतः |
६ क
सञ्जय़ उवाच:
दुर्योधनवलं हत्वा सह सर्वैः प्रभद्रकैः ||
६ ख
सञ्जय़ उवाच:
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः |
७ क
सञ्जय़ उवाच:
छत्रेण ध्रिय़माणेन प्रेक्षमाणो मुहुर्मुहुः ||
७ ख
सञ्जय़ उवाच:
प्रतिव्यूह्य वलं सर्वं रणमध्ये व्यवस्थितः |
८ क
सञ्जय़ उवाच:
एनं हत्वा शितैर्वाणैः कृतकृत्यो भविष्यसि ||
८ ख
सञ्जय़ उवाच:
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम |
९ क
सञ्जय़ उवाच:
यावन्न विद्रवन्त्येते तावज्जहि सुय़ोधनम् ||
९ ख
सञ्जय़ उवाच:
यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति |
१० क
सञ्जय़ उवाच:
परिश्रान्तवलस्तात नैष मुच्येत किल्विषी ||
१० ख
सञ्जय़ उवाच:
तव हत्वा वलं सर्वं सङ्ग्रामे धृतराष्ट्रजः |
११ क
सञ्जय़ उवाच:
जितान्पाण्डुसुतान्मत्वा रूपं धारय़ते महत् ||
११ ख
सञ्जय़ उवाच:
निहतं स्ववलं दृष्ट्वा पीडितं चापि पाण्डवैः |
१२ क
सञ्जय़ उवाच:
ध्रुवमेष्यति सङ्ग्रामे वधाय़ैवात्मनो नृपः ||
१२ ख
सञ्जय़ उवाच:
एवमुक्तः फल्गुनस्तु कृष्णं वचनमव्रवीत् |
१३ क
सञ्जय़ उवाच:
धृतराष्ट्रसुताः सर्वे हता भीमेन मानद |
१३ ख
सञ्जय़ उवाच:
यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः ||
१३ ग
सञ्जय़ उवाच:
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः |
१४ क
सञ्जय़ उवाच:
मद्रराजो हतः शल्यो हतः कृष्ण जय़द्रथः ||
१४ ख
सञ्जय़ उवाच:
हय़ाः पञ्चशताः शिष्टाः शकुनेः सौवलस्य च |
१५ क
सञ्जय़ उवाच:
रथानां तु शते शिष्टे द्वे एव तु जनार्दन |
१५ ख
सञ्जय़ उवाच:
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातय़ः ||
१५ ग
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा |
१६ क
सञ्जय़ उवाच:
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ||
१६ ख
सञ्जय़ उवाच:
एतद्वलमभूच्छेषं धार्तराष्ट्रस्य माधव |
१७ क
सञ्जय़ उवाच:
मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित् ||
१७ ख
सञ्जय़ उवाच:
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् |
१८ क
सञ्जय़ उवाच:
अद्याह्ना हि महाराजो हतामित्रो भविष्यति ||
१८ ख
सञ्जय़ उवाच:
न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तय़े |
१९ क
सञ्जय़ उवाच:
ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः |
१९ ख
सञ्जय़ उवाच:
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ||
१९ ग
सञ्जय़ उवाच:
अद्य युद्धे सुसङ्क्रुद्धो दीर्घं राज्ञः प्रजागरम् |
२० क
सञ्जय़ उवाच:
अपनेष्यामि गान्धारं पातय़ित्वा शितैः शरैः ||
२० ख
सञ्जय़ उवाच:
निकृत्या वै दुराचारो यानि रत्नानि सौवलः |
२१ क
सञ्जय़ उवाच:
सभाय़ामहरद्द्यूते पुनस्तान्याहराम्यहम् ||
२१ ख
सञ्जय़ उवाच:
अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रिय़ः |
२२ क
सञ्जय़ उवाच:
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ||
२२ ख
सञ्जय़ उवाच:
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति |
२३ क
सञ्जय़ उवाच:
अद्य दुर्योधनो दीप्तां श्रिय़ं प्राणांश्च त्यक्ष्यति ||
२३ ख
सञ्जय़ उवाच:
नापय़ाति भय़ात्कृष्ण सङ्ग्रामाद्यदि चेन्मम |
२४ क
सञ्जय़ उवाच:
निहतं विद्धि वार्ष्णेय़ धार्तराष्ट्रं सुवालिशम् ||
२४ ख
सञ्जय़ उवाच:
मम ह्येतदशक्तं वै वाजिवृन्दमरिन्दम |
२५ क
सञ्जय़ उवाच:
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ||
२५ ख
सञ्जय़ उवाच:
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना |
२६ क
सञ्जय़ उवाच:
अचोदय़द्धय़ान्राजन्दुर्योधनवलं प्रति ||
२६ ख
सञ्जय़ उवाच:
तदनीकमभिप्रेक्ष्य त्रय़ः सज्जा महारथाः |
२७ क
सञ्जय़ उवाच:
भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष |
२७ ख
सञ्जय़ उवाच:
प्रय़युः सिंहनादेन दुर्योधनजिघांसय़ा ||
२७ ग
सञ्जय़ उवाच:
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् |
२८ क
सञ्जय़ उवाच:
सौवलोऽभ्यद्रवद्युद्धे पाण्डवानातताय़िनः ||
२८ ख
सञ्जय़ उवाच:
सुदर्शनस्तव सुतो भीमसेनं समभ्ययात् |
२९ क
सञ्जय़ उवाच:
सुशर्मा शकुनिश्चैव युय़ुधाते किरीटिना |
२९ ख
सञ्जय़ उवाच:
सहदेवं तव सुतो हय़पृष्ठगतोऽभ्ययात् ||
२९ ग
सञ्जय़ उवाच:
ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप |
३० क
सञ्जय़ उवाच:
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ||
३० ख
सञ्जय़ उवाच:
सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः |
३१ क
सञ्जय़ उवाच:
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ||
३१ ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशां पते |
३२ क
सञ्जय़ उवाच:
दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् ||
३२ ख
सञ्जय़ उवाच:
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जय़ः |
३३ क
सञ्जय़ उवाच:
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ||
३३ ख
सञ्जय़ उवाच:
तदनीकं तदा पार्थो व्यधमद्वहुभिः शरैः |
३४ क
सञ्जय़ उवाच:
पातय़ित्वा हय़ान्सर्वांस्त्रिगर्तानां रथान्ययौ ||
३४ ख
सञ्जय़ उवाच:
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः |
३५ क
सञ्जय़ उवाच:
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ||
३५ ख
सञ्जय़ उवाच:
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महाय़शाः |
३६ क
सञ्जय़ उवाच:
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ||
३६ ख
सञ्जय़ उवाच:
शिलाशितेन च विभो क्षुरप्रेण महाय़शाः |
३७ क
सञ्जय़ उवाच:
शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम् ||
३७ ख
सञ्जय़ उवाच:
सत्येषुमथ चादत्त योधानां मिषतां ततः |
३८ क
सञ्जय़ उवाच:
यथा सिंहो वने राजन्मृगं परिवुभुक्षितः ||
३८ ख
सञ्जय़ उवाच:
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः |
३९ क
सञ्जय़ उवाच:
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् ||
३९ ख
सञ्जय़ उवाच:
ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसम्भृतम् |
४० क
सञ्जय़ उवाच:
मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ||
४० ख
सञ्जय़ उवाच:
तमर्जुनः पृषत्कानां शतेन भरतर्षभ |
४१ क
सञ्जय़ उवाच:
पूरय़ित्वा ततो वाहान्न्यहनत्तस्य धन्विनः ||
४१ ख
सञ्जय़ उवाच:
ततः शरं समादाय़ यमदण्डोपमं शितम् |
४२ क
सञ्जय़ उवाच:
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ||
४२ ख
सञ्जय़ उवाच:
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना |
४३ क
सञ्जय़ उवाच:
सुशर्माणं समासाद्य विभेद हृदय़ं रणे ||
४३ ख
सञ्जय़ उवाच:
स गतासुर्महाराज पपात धरणीतले |
४४ क
सञ्जय़ उवाच:
नन्दय़न्पाण्डवान्सर्वान्व्यथय़ंश्चापि तावकान् ||
४४ ख
सञ्जय़ उवाच:
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् |
४५ क
सञ्जय़ उवाच:
सप्त चाष्टौ च त्रिंशच्च साय़कैरनय़त्क्षय़म् ||
४५ ख
सञ्जय़ उवाच:
ततोऽस्य निशितैर्वाणैः सर्वान्हत्वा पदानुगान् |
४६ क
सञ्जय़ उवाच:
अभ्यगाद्भारतीं सेनां हतशेषां महारथः ||
४६ ख
सञ्जय़ उवाच:
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप |
४७ क
सञ्जय़ उवाच:
सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव ||
४७ ख
सञ्जय़ उवाच:
ततोऽस्य प्रहसन्क्रुद्धः शिरः काय़ादपाहरत् |
४८ क