युधिष्ठिर उवाच:
अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः |
१ क
युधिष्ठिर उवाच:
यः स्यादुभय़भाग्धर्मस्तन्मे व्रूहि पितामह ||
१ ख
युधिष्ठिर उवाच:
गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभय़ोः |
२ क
युधिष्ठिर उवाच:
अदूरसम्प्रस्थितय़ोः किं स्विच्छ्रेय़ः पितामह ||
२ ख
भीष्म उवाच:
उभौ धर्मौ महाभागावुभौ परमदुश्चरौ |
३ क
भीष्म उवाच:
उभौ महाफलौ तात सद्भिराचरितावुभौ ||
३ ख
भीष्म उवाच:
अत्र ते वर्तय़िष्यामि प्रामाण्यमुभय़ोस्तय़ोः |
४ क
भीष्म उवाच:
शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशय़म् ||
४ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
५ क
भीष्म उवाच:
कपिलस्य गोश्च संवादं तन्निवोध युधिष्ठिर ||
५ ख
भीष्म उवाच:
आम्नाय़मनुपश्यन्हि पुराणं शाश्वतं ध्रुवम् |
६ क
भीष्म उवाच:
नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् ||
६ ख
भीष्म उवाच:
तां निय़ुक्तामदीनात्मा सत्त्वस्थः समय़े रतः |
७ क
भीष्म उवाच:
ज्ञानवान्निय़ताहारो ददर्श कपिलस्तदा ||
७ ख
भीष्म उवाच:
स वुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभय़ाम् |
८ क
भीष्म उवाच:
स्मरामि शिथिलं सत्यं वेदा इत्यव्रवीत्सकृत् ||
८ ख
भीष्म उवाच:
तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमव्रवीत् |
९ क
भीष्म उवाच:
हंहो वेदा यदि मता धर्माः केनापरे मताः ||
९ ख
भीष्म उवाच:
तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः |
१० क
भीष्म उवाच:
सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः ||
१० ख
भीष्म उवाच:
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः |
११ क
भीष्म उवाच:
का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः ||
११ ख
कपिल उवाच:
नाहं वेदान्विनिन्दामि न विवक्षामि कर्हिचित् |
१२ क
कपिल उवाच:
पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् ||
१२ ख
कपिल उवाच:
गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति |
१३ क
कपिल उवाच:
गृहस्थो व्रह्मचारी च उभौ तावपि गच्छतः ||
१३ ख
कपिल उवाच:
देवय़ाना हि पन्थानश्चत्वारः शाश्वता मताः |
१४ क
कपिल उवाच:
तेषां ज्याय़ःकनीय़स्त्वं फलेषूक्तं वलावलम् ||
१४ ख
कपिल उवाच:
एवं विदित्वा सर्वार्थानारभेदिति वैदिकम् |
१५ क
कपिल उवाच:
नारभेदिति चान्यत्र नैष्ठिकी श्रूय़ते श्रुतिः ||
१५ ख
कपिल उवाच:
अनारम्भे ह्यदोषः स्यादारम्भेऽदोष उत्तमः |
१६ क
कपिल उवाच:
एवं स्थितस्य शास्त्रस्य दुर्विज्ञेय़ं वलावलम् ||
१६ ख
कपिल उवाच:
यद्यत्र किञ्चित्प्रत्यक्षमहिंसाय़ाः परं मतम् |
१७ क
कपिल उवाच:
ऋते त्वागमशास्त्रेभ्यो व्रूहि तद्यदि पश्यसि ||
१७ ख
स्यूमरश्मिरु उवाच:
स्वर्गकामो यजेतेति सततं श्रूय़ते श्रुतिः |
१८ क
स्यूमरश्मिरु उवाच:
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रताय़ते ||
१८ ख
स्यूमरश्मिरु उवाच:
अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये |
१९ क
स्यूमरश्मिरु उवाच:
ग्राम्यारण्या ओषधय़ः प्राणस्यान्नमिति श्रुतिः ||
१९ ख
स्यूमरश्मिरु उवाच:
तथैवान्नं ह्यहरहः साय़ं प्रातर्निरुप्यते |
२० क
स्यूमरश्मिरु उवाच:
पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः ||
२० ख
स्यूमरश्मिरु उवाच:
एतानि सह यज्ञेन प्रजापतिरकल्पय़त् |
२१ क
स्यूमरश्मिरु उवाच:
तेन प्रजापतिर्देवान्यज्ञेनाय़जत प्रभुः ||
२१ ख
स्यूमरश्मिरु उवाच:
ते स्मान्योन्यञ्चराः सर्वे प्राणिनः सप्त सप्त च |
२२ क
स्यूमरश्मिरु उवाच:
यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसञ्ज्ञितम् ||
२२ ख
स्यूमरश्मिरु उवाच:
एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा |
२३ क
स्यूमरश्मिरु उवाच:
को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः ||
२३ ख
स्यूमरश्मिरु उवाच:
पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह |
२४ क
स्यूमरश्मिरु उवाच:
स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्त्वृते मखम् ||
२४ ख
स्यूमरश्मिरु उवाच:
ओषध्यः पशवो वृक्षा वीरुदाज्यं पय़ो दधि |
२५ क
स्यूमरश्मिरु उवाच:
हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश ||
२५ ख
स्यूमरश्मिरु उवाच:
ऋचो यजूंषि सामानि यजमानश्च षोडशः |
२६ क
स्यूमरश्मिरु उवाच:
अग्निर्ज्ञेय़ो गृहपतिः स सप्तदश उच्यते |
२६ ख
स्यूमरश्मिरु उवाच:
अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः ||
२६ ग
स्यूमरश्मिरु उवाच:
आज्येन पय़सा दध्ना शकृतामिक्षय़ा त्वचा |
२७ क
स्यूमरश्मिरु उवाच:
वालैः शृङ्गेण पादेन सम्भवत्येव गौर्मखम् |
२७ ख
स्यूमरश्मिरु उवाच:
एवं प्रत्येकशः सर्वं यद्यदस्य विधीय़ते ||
२७ ग
स्यूमरश्मिरु उवाच:
यज्ञं वहन्ति सम्भूय़ सहर्त्विग्भिः सदक्षिणैः |
२८ क
स्यूमरश्मिरु उवाच:
संहत्यैतानि सर्वाणि यज्ञं निर्वर्तय़न्त्युत ||
२८ ख
स्यूमरश्मिरु उवाच:
यज्ञार्थानि हि सृष्टानि यथा वै श्रूय़ते श्रुतिः |
२९ क
स्यूमरश्मिरु उवाच:
एवं पूर्वे पूर्वतराः प्रवृत्ताश्चैव मानवाः ||
२९ ख
स्यूमरश्मिरु उवाच:
न हिनस्ति ह्यारभते नाभिद्रुह्यति किञ्चन |
३० क
स्यूमरश्मिरु उवाच:
यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सय़ा ||
३० ख
स्यूमरश्मिरु उवाच:
यज्ञाङ्गान्यपि चैतानि यथोक्तानि नसंशय़ः |
३१ क
स्यूमरश्मिरु उवाच:
विधिना विधिय़ुक्तानि तारय़न्ति परस्परम् ||
३१ ख
स्यूमरश्मिरु उवाच:
आम्नाय़मार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः |
३२ क
स्यूमरश्मिरु उवाच:
तं विद्वांसोऽनुपश्यन्ति व्राह्मणस्यानुदर्शनात् ||
३२ ख
स्यूमरश्मिरु उवाच:
व्राह्मणप्रभवो यज्ञो व्राह्मणार्पण एव च |
३३ क
स्यूमरश्मिरु उवाच:
अनु यज्ञं जगत्सर्वं यज्ञश्चानु जगत्सदा ||
३३ ख
स्यूमरश्मिरु उवाच:
ओमिति व्रह्मणो योनिर्नमः स्वाहा स्वधा वषट् |
३४ क
स्यूमरश्मिरु उवाच:
यस्यैतानि प्रय़ुज्यन्ते यथाशक्ति कृतान्यपि ||
३४ ख
स्यूमरश्मिरु उवाच:
न तस्य त्रिषु लोकेषु परलोकभय़ं विदुः |
३५ क
स्यूमरश्मिरु उवाच:
इति वेदा वदन्तीह सिद्धाश्च परमर्षय़ः ||
३५ ख
स्यूमरश्मिरु उवाच:
ऋचो यजूंषि सामानि स्तोभाश्च विधिचोदिताः |
३६ क
स्यूमरश्मिरु उवाच:
यस्मिन्नेतानि सर्वाणि वहिरेव स वै द्विजः ||
३६ ख
स्यूमरश्मिरु उवाच:
अग्न्याधेय़े यद्भवति यच्च सोमे सुते द्विज |
३७ क
स्यूमरश्मिरु उवाच:
यच्चेतरैर्महाय़ज्ञैर्वेद तद्भगवान्स्वतः ||
३७ ख
स्यूमरश्मिरु उवाच:
तस्माद्व्रह्मन्यजेतैव याजय़ेच्चाविचारय़न् |
३८ क
स्यूमरश्मिरु उवाच:
यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत् ||
३८ ख
स्यूमरश्मिरु उवाच:
नाय़ं लोकोऽस्त्ययज्ञानां परश्चेति विनिश्चय़ः |
३९ क
स्यूमरश्मिरु उवाच:
वेदवादविदश्चैव प्रमाणमुभय़ं तदा ||
३९ ख