कपिल उवाच:
शास्त्रं ह्यवुद्ध्वा तत्त्वेन केचिद्वादवला जनाः |
४८ क
कपिल उवाच:
कामद्वेषाभिभूतत्वादहङ्कारवशं गताः ||
४८ ख
कपिल उवाच:
याथातथ्यमविज्ञाय़ शास्त्राणां शास्त्रदस्यवः |
४९ क
कपिल उवाच:
व्रह्मस्तेना निरारम्भा अपक्वमतय़ोऽशिवाः ||
४९ ख
कपिल उवाच:
वैगुण्यमेव पश्यन्ति न गुणाननुय़ुञ्जते |
५० क
कपिल उवाच:
तेषां तमःशरीराणां तम एव पराय़णम् ||
५० ख
कपिल उवाच:
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः |
५१ क
कपिल उवाच:
तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः |
५१ ख
कपिल उवाच:
नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसम्भवाः ||
५१ ग
कपिल उवाच:
एतद्वुद्ध्यानुपश्यन्तः सन्त्यजेय़ुः शुभाशुभम् |
५२ क
कपिल उवाच:
परां गतिमभीप्सन्तो यतय़ः संय़मे रताः ||
५२ ख
स्यूमरश्मिरु उवाच:
सर्वमेतन्मय़ा व्रह्मञ्शास्त्रतः परिकीर्तितम् |
५३ क
स्यूमरश्मिरु उवाच:
न ह्यविज्ञाय़ शात्रार्थं प्रवर्तन्ते प्रवृत्तय़ः ||
५३ ख
स्यूमरश्मिरु उवाच:
यः कश्चिन्न्याय़्य आचारः सर्वं शास्त्रमिति श्रुतिः |
५४ क
स्यूमरश्मिरु उवाच:
यदन्याय़्यमशास्त्रं तदित्येषा श्रूय़ते श्रुतिः ||
५४ ख
स्यूमरश्मिरु उवाच:
न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चय़ः |
५५ क
स्यूमरश्मिरु उवाच:
यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः ||
५५ ख
स्यूमरश्मिरु उवाच:
शास्त्रादपेतं पश्यन्ति वहवो व्यक्तमानिनः |
५६ क
स्यूमरश्मिरु उवाच:
शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे |
५६ ख
स्यूमरश्मिरु उवाच:
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ||
५६ ग
स्यूमरश्मिरु उवाच:
शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशः |
५७ क
स्यूमरश्मिरु उवाच:
पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम् |
५७ ख
स्यूमरश्मिरु उवाच:
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम् ||
५७ ग
स्यूमरश्मिरु उवाच:
इदं तु दुष्करं कर्म कुटुम्वमभिसंश्रितम् |
५८ क
स्यूमरश्मिरु उवाच:
दानमध्ययनं यज्ञः प्रजासन्तानमार्जवम् ||
५८ ख
स्यूमरश्मिरु उवाच:
यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित् |
५९ क
स्यूमरश्मिरु उवाच:
धिक्कर्तारं च कार्यं च श्रमश्चाय़ं निरर्थकः ||
५९ ख
स्यूमरश्मिरु उवाच:
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रिय़ा |
६० क
स्यूमरश्मिरु उवाच:
एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा ||
६० ख
स्यूमरश्मिरु उवाच:
तथ्यं वदस्व मे व्रह्मन्नुपसन्नोऽस्म्यधीहि भोः |
६१ क
स्यूमरश्मिरु उवाच:
यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ||
६१ ख