chevron_left शान्ति पर्व अध्याय २६१
कपिल उवाच:
एतावदनुपश्यन्तो यतय़ो यान्ति मार्गगाः |
१ क
कपिल उवाच:
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ||
१ ख
कपिल उवाच:
निर्द्वन्द्वा निर्नमस्कारा निराशीर्वन्धना वुधाः |
२ क
कपिल उवाच:
विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचय़ोऽमलाः ||
२ ख
कपिल उवाच:
अपवर्गेऽथ सन्त्यागे वुद्धौ च कृतनिश्चय़ाः |
३ क
कपिल उवाच:
व्रह्मिष्ठा व्रह्मभूताश्च व्रह्मण्येव कृतालय़ाः ||
३ ख
कपिल उवाच:
विशोका नष्टरजसस्तेषां लोकाः सनातनाः |
४ क
कपिल उवाच:
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रय़ोजनम् ||
४ ख
स्यूमरश्मिरु उवाच:
यद्येषा परमा निष्ठा यद्येषा परमा गतिः |
५ क
स्यूमरश्मिरु उवाच:
गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ||
५ ख
स्यूमरश्मिरु उवाच:
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः |
६ क
स्यूमरश्मिरु उवाच:
एवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः ||
६ ख
स्यूमरश्मिरु उवाच:
गृहस्थ एव यजते गृहस्थस्तप्यते तपः |
७ क
स्यूमरश्मिरु उवाच:
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किञ्चिदेजते ||
७ ख
स्यूमरश्मिरु उवाच:
प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने |
८ क
स्यूमरश्मिरु उवाच:
प्रजनं चाप्युतान्यत्र न कथञ्चन विद्यते ||
८ ख
स्यूमरश्मिरु उवाच:
यास्ताः स्युर्वहिरोषध्यो वह्वरण्यास्तथा द्विज |
९ क
स्यूमरश्मिरु उवाच:
ओषधिभ्यो वहिर्यस्मात्प्राणी कश्चिन्न विद्यते |
९ ख
स्यूमरश्मिरु उवाच:
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति ||
९ ग
स्यूमरश्मिरु उवाच:
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः |
१० क
स्यूमरश्मिरु उवाच:
निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः |
१० ख
स्यूमरश्मिरु उवाच:
श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः ||
१० ग
स्यूमरश्मिरु उवाच:
त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा |
११ क
स्यूमरश्मिरु उवाच:
व्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते ||
११ ख
स्यूमरश्मिरु उवाच:
प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु |
१२ क
स्यूमरश्मिरु उवाच:
अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशय़म् ||
१२ ख
स्यूमरश्मिरु उवाच:
दाहः पुनः संश्रय़णे संस्थिते पात्रभोजनम् |
१३ क
स्यूमरश्मिरु उवाच:
दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् ||
१३ ख
स्यूमरश्मिरु उवाच:
अर्चिष्मन्तो वर्हिषदः क्रव्यादाः पितरः स्मृताः |
१४ क
स्यूमरश्मिरु उवाच:
मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् ||
१४ ख
स्यूमरश्मिरु उवाच:
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् |
१५ क
स्यूमरश्मिरु उवाच:
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ||
१५ ख
स्यूमरश्मिरु उवाच:
श्रिय़ा विहीनैरलसैः पण्डितैरपलापितम् |
१६ क
स्यूमरश्मिरु उवाच:
वेदवादापरिज्ञानं सत्याभासमिवानृतम् ||
१६ ख
स्यूमरश्मिरु उवाच:
न वै पापैर्ह्रिय़ते कृष्यते वा; यो व्राह्मणो यजते वेदशास्त्रैः |
१७ क
स्यूमरश्मिरु उवाच:
ऊर्ध्वं यज्ञः पशुभिः सार्धमेति; सन्तर्पितस्तर्पय़ते च कामैः ||
१७ ख
स्यूमरश्मिरु उवाच:
न वेदानां परिभवान्न शाठ्येन न माय़या |
१८ क
स्यूमरश्मिरु उवाच:
महत्प्राप्नोति पुरुषो व्रह्म व्रह्मणि विन्दति ||
१८ ख
कपिल उवाच:
दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम् |
१९ क
कपिल उवाच:
चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः ||
१९ ख
कपिल उवाच:
अनारम्भाः सुधृतय़ः शुचय़ो व्रह्मसंश्रिताः |
२० क
कपिल उवाच:
व्रह्मणैव स्म ते देवांस्तर्पय़न्त्यमृतैषिणः ||
२० ख
कपिल उवाच:
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः |
२१ क
कपिल उवाच:
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ||
२१ ख
कपिल उवाच:
चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनमुपय़ाति निन्दा |
२२ क
कपिल उवाच:
वाहुभ्यां वाच उदरादुपस्था; त्तेषां द्वारं द्वारपालो वुभूषेत् ||
२२ ख
कपिल उवाच:
नाक्षैर्दीव्येन्नाददीतान्यवित्तं; न वाय़ोनीय़स्य शृतं प्रगृह्णेत् |
२३ क
कपिल उवाच:
क्रुद्धो न चैव प्रहरेत धीमां; स्तथास्य तत्पाणिपादं सुगुप्तम् ||
२३ ख
कपिल उवाच:
नाक्रोशमर्छेन्न मृषा वदेच्च; न पैशुनं जनवादं च कुर्यात् |
२४ क
कपिल उवाच:
सत्यव्रतो मितभाषोऽप्रमत्त; स्तथास्य वाग्द्वारमथो सुगुप्तम् ||
२४ ख
कपिल उवाच:
नानाशनः स्यान्न महाशनः स्या; दलोलुपः साधुभिरागतः स्यात् |
२५ क
कपिल उवाच:
यात्रार्थमाहारमिहाददीत; तथास्य स्याज्जाठरी द्वारगुप्तिः ||
२५ ख
कपिल उवाच:
न वीरपत्नीं विहरेत नारीं; न चापि नारीमनृतावाह्वय़ीत |
२६ क
कपिल उवाच:
भार्याव्रतं ह्यात्मनि धारय़ीत; तथास्योपस्थद्वारगुप्तिर्भवेत ||
२६ ख
कपिल उवाच:
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः |
२७ क
कपिल उवाच:
उपस्थमुदरं वाहू वाक्चतुर्थी स वै द्विजः ||
२७ ख
कपिल उवाच:
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत |
२८ क
कपिल उवाच:
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ||
२८ ख
कपिल उवाच:
अनुत्तरीय़वसनमनुपस्तीर्णशाय़िनम् |
२९ क
कपिल उवाच:
वाहूपधानं शाम्यन्तं तं देवा व्राह्मणं विदुः ||
२९ ख
कपिल उवाच:
द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः |
३० क
कपिल उवाच:
परेषामननुध्याय़ंस्तं देवा व्राह्मणं विदुः ||
३० ख
कपिल उवाच:
येन सर्वमिदं वुद्धं प्रकृतिर्विकृतिश्च या |
३१ क
कपिल उवाच:
गतिज्ञः सर्वभूतानां तं देवा व्राह्मणं विदुः ||
३१ ख
कपिल उवाच:
अभय़ं सर्वभूतेभ्यः सर्वेषामभय़ं यतः |
३२ क
कपिल उवाच:
सर्वभूतात्मभूतो यस्तं देवा व्राह्मणं विदुः ||
३२ ख
कपिल उवाच:
नान्तरेणानुजानन्ति वेदानां यत्क्रिय़ाफलम् |
३३ क
कपिल उवाच:
अनुज्ञाय़ च तत्सर्वमन्यद्रोचय़तेऽफलम् ||
३३ ख
कपिल उवाच:
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च |
३४ क
कपिल उवाच:
विगुणानि च पश्यन्ति तथानैकान्तिकानि च ||
३४ ख
कपिल उवाच:
गुणाश्चात्र सुदुर्ज्ञेय़ा ज्ञाताश्चापि सुदुष्कराः |
३५ क
कपिल उवाच:
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ||
३५ ख
स्यूमरश्मिरु उवाच:
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा |
३६ क
स्यूमरश्मिरु उवाच:
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्व्रवीहि मे ||
३६ ख
कपिल उवाच:
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः |
३७ क
कपिल उवाच:
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ||
३७ ख
स्यूमरश्मिरु उवाच:
स्यूमरश्मिरहं व्रह्मञ्जिज्ञासार्थमिहागतः |
३८ क
स्यूमरश्मिरु उवाच:
श्रेय़स्कामः प्रत्यवोचमार्जवान्न विवक्षय़ा |
३८ ख
स्यूमरश्मिरु उवाच:
इमं च संशय़ं घोरं भगवान्प्रव्रवीतु मे ||
३८ ग
स्यूमरश्मिरु उवाच:
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः |
३९ क
स्यूमरश्मिरु उवाच:
किमत्र प्रत्यक्षतमं भवन्तो यदुपासते |
३९ ख
स्यूमरश्मिरु उवाच:
अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम् ||
३९ ग
स्यूमरश्मिरु उवाच:
आगमो वेदवादस्तु तर्कशास्त्राणि चागमः |
४० क
स्यूमरश्मिरु उवाच:
यथागममुपासीत आगमस्तत्र सिध्यति |
४० ख
स्यूमरश्मिरु उवाच:
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चय़ात् ||
४० ग
स्यूमरश्मिरु उवाच:
नौर्नावीव निवद्धा हि स्रोतसा सनिवन्धना |
४१ क
स्यूमरश्मिरु उवाच:
ह्रिय़माणा कथं विप्र कुवुद्धींस्तारय़िष्यति |
४१ ख
स्यूमरश्मिरु उवाच:
एतद्व्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः ||
४१ ग
स्यूमरश्मिरु उवाच:
नैव त्यागी न सन्तुष्टो नाशोको न निरामय़ः |
४२ क
स्यूमरश्मिरु उवाच:
न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ||
४२ ख
स्यूमरश्मिरु उवाच:
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वय़म् |
४३ क
स्यूमरश्मिरु उवाच:
इन्द्रिय़ार्थाश्च भवतां समानाः सर्वजन्तुषु ||
४३ ख
स्यूमरश्मिरु उवाच:
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु |
४४ क
स्यूमरश्मिरु उवाच:
एकमालम्वमानानां निर्णय़े किं निरामय़म् ||
४४ ख
कपिल उवाच:
यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु |
४५ क
कपिल उवाच:
यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामय़म् ||
४५ ख
कपिल उवाच:
सर्वं पावय़ते ज्ञानं यो ज्ञानं ह्यनुवर्तते |
४६ क
कपिल उवाच:
ज्ञानादपेत्य या वृत्तिः सा विनाशय़ति प्रजाः ||
४६ ख
कपिल उवाच:
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाः |
४७ क
कपिल उवाच:
ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते ||
४७ ख