chevron_left शान्ति पर्व अध्याय २६२
कपिल उवाच:
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः |
१ क
कपिल उवाच:
द्वे व्रह्मणी वेदितव्ये शव्दव्रह्म परं च यत् |
१ ख
कपिल उवाच:
शव्दव्रह्मणि निष्णातः परं व्रह्माधिगच्छति ||
१ ग
कपिल उवाच:
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् |
२ क
कपिल उवाच:
कृतशुद्धशरीरो हि पात्रं भवति व्राह्मणः ||
२ ख
कपिल उवाच:
आनन्त्यमनुय़ुङ्क्ते यः कर्मणा तद्व्रवीमि ते |
३ क
कपिल उवाच:
निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम् ||
३ ख
कपिल उवाच:
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः |
४ क
कपिल उवाच:
उत्पन्नत्यागिनोऽलुव्धाः कृपासूय़ाविवर्जिताः |
४ ख
कपिल उवाच:
धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम् ||
४ ग
कपिल उवाच:
अनाश्रिताः पापकृत्याः कदाचित्कर्मय़ोनितः |
५ क
कपिल उवाच:
मनःसङ्कल्पसंसिद्धा विशुद्धज्ञाननिश्चय़ाः ||
५ ख
कपिल उवाच:
अक्रुध्यन्तोऽनसूय़न्तो निरहङ्कारमत्सराः |
६ क
कपिल उवाच:
ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः ||
६ ख
कपिल उवाच:
आसन्गृहस्था भूय़िष्ठमव्युत्क्रान्ताः स्वकर्मसु |
७ क
कपिल उवाच:
राजानश्च तथा युक्ता व्राह्मणाश्च यथाविधि ||
७ ख
कपिल उवाच:
समा ह्यार्जवसम्पन्नाः सन्तुष्टा ज्ञाननिश्चय़ाः |
८ क
कपिल उवाच:
प्रत्यक्षधर्माः शुचय़ः श्रद्दधानाः परावरे ||
८ ख
कपिल उवाच:
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः |
९ क
कपिल उवाच:
चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवाधिसंहताः ||
९ ख
कपिल उवाच:
संहत्य धर्मं चरतां पुरासीत्सुखमेव तत् |
१० क
कपिल उवाच:
तेषां नासीद्विधातव्यं प्राय़श्चित्तं कदाचन ||
१० ख
कपिल उवाच:
सत्यं हि धर्ममास्थाय़ दुराधर्षतमा मताः |
११ क
कपिल उवाच:
न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः ||
११ ख
कपिल उवाच:
य एव प्रथमः कल्पस्तमेवाभ्याचरन्सह |
१२ क
कपिल उवाच:
अस्यां स्थितौ स्थितानां हि प्राय़श्चित्तं न विद्यते |
१२ ख
कपिल उवाच:
दुर्वलात्मन उत्पन्नं प्राय़श्चित्तमिति श्रुतिः ||
१२ ग
कपिल उवाच:
यत एवंविधा विप्राः पुराणा यज्ञवाहनाः |
१३ क
कपिल उवाच:
त्रैविद्यवृद्धाः शुचय़ो वृत्तवन्तो यशस्विनः |
१३ ख
कपिल उवाच:
यजन्तोऽहरहर्यज्ञैर्निराशीर्वन्धना वुधाः ||
१३ ग
कपिल उवाच:
तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम् |
१४ क
कपिल उवाच:
आगमाश्च यथाकालं सङ्कल्पाश्च यथाव्रतम् ||
१४ ख
कपिल उवाच:
अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम् |
१५ क
कपिल उवाच:
ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु |
१५ ख
कपिल उवाच:
सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः ||
१५ ग
कपिल उवाच:
तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम् |
१६ क
कपिल उवाच:
स्वकर्मभिः संवृतानां तपो घोरत्वमागतम् ||
१६ ख
कपिल उवाच:
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् |
१७ क
कपिल उवाच:
अशक्नुवद्भिश्चरितुं किञ्चिद्धर्मेषु सूचितम् ||
१७ ख
कपिल उवाच:
निरापद्धर्म आचारस्त्वप्रमादोऽपराभवः |
१८ क
कपिल उवाच:
सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः ||
१८ ख
कपिल उवाच:
धर्ममेकं चतुष्पादमाश्रितास्ते नरर्षभाः |
१९ क
कपिल उवाच:
तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् ||
१९ ख
कपिल उवाच:
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः |
२० क
कपिल उवाच:
गृहमेवाभिसंश्रित्य ततोऽन्ये व्रह्मचारिणः ||
२० ख
कपिल उवाच:
धर्ममेतं चतुष्पादमाश्रमं व्राह्मणा विदुः |
२१ क
कपिल उवाच:
आनन्त्यं व्रह्मणः स्थानं व्राह्मणा नाम निश्चय़ः ||
२१ ख
कपिल उवाच:
अत एवंविधा विप्राः पुराणा धर्मचारिणः |
२२ क
कपिल उवाच:
त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातय़ः ||
२२ ख
कपिल उवाच:
नक्षत्राणीव धिष्ण्येषु वहवस्तारकागणाः |
२३ क
कपिल उवाच:
आनन्त्यमुपसम्प्राप्ताः सन्तोषादिति वैदिकम् ||
२३ ख
कपिल उवाच:
यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः |
२४ क
कपिल उवाच:
न लिप्यन्ते पापकृत्यैः कदाचित्कर्मय़ोनितः ||
२४ ख
कपिल उवाच:
एवं युक्तो व्राह्मणः स्यादन्यो व्राह्मणको भवेत् |
२५ क
कपिल उवाच:
कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम् ||
२५ ख
कपिल उवाच:
एवं पक्वकषाय़ाणामानन्त्येन श्रुतेन च |
२६ क
कपिल उवाच:
सर्वमानन्त्यमेवासीदेवं नः शाश्वती श्रुतिः ||
२६ ख
कपिल उवाच:
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् |
२७ क
कपिल उवाच:
चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः ||
२७ ख
कपिल उवाच:
स सिद्धैः साध्यते नित्यं व्राह्मणैर्निय़तात्मभिः |
२८ क
कपिल उवाच:
सन्तोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते ||
२८ ख
कपिल उवाच:
अपवर्गगतिर्नित्यो यतिधर्मः सनातनः |
२९ क
कपिल उवाच:
साधारणः केवलो वा यथावलमुपास्यते ||
२९ ख
कपिल उवाच:
गच्छतो गच्छतः क्षेमं दुर्वलोऽत्रावसीदति |
३० क
कपिल उवाच:
व्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः ||
३० ख
स्यूमरश्मिरु उवाच:
ये भुञ्जते ये ददते यजन्तेऽधीय़ते च ये |
३१ क
स्यूमरश्मिरु उवाच:
मात्राभिर्धर्मलव्धाभिर्ये वा त्यागं समाश्रिताः ||
३१ ख
स्यूमरश्मिरु उवाच:
एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः |
३२ क
स्यूमरश्मिरु उवाच:
एतदाचक्ष्व मे व्रह्मन्यथातथ्येन पृच्छतः ||
३२ ख
कपिल उवाच:
परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदय़ाश्च ये |
३३ क
कपिल उवाच:
न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि ||
३३ ख
स्यूमरश्मिरु उवाच:
भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चय़ाः |
३४ क
स्यूमरश्मिरु उवाच:
आश्रमाणां च सर्वेषां निष्ठाय़ामैक्यमुच्यते ||
३४ ख
स्यूमरश्मिरु उवाच:
एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते |
३५ क
स्यूमरश्मिरु उवाच:
तद्यथावद्यथान्याय़ं भगवान्प्रव्रवीतु मे ||
३५ ख
कपिल उवाच:
शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः |
३६ क
कपिल उवाच:
पक्वे कषाय़े वमनै रसज्ञाने न तिष्ठति ||
३६ ख
कपिल उवाच:
आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् |
३७ क
कपिल उवाच:
अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा शमस्तथा ||
३७ ख
कपिल उवाच:
पन्थानो व्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् |
३८ क
कपिल उवाच:
तद्विद्वाननुवुध्येत मनसा कर्मनिश्चय़म् ||
३८ ख
कपिल उवाच:
यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चय़ाः |
३९ क
कपिल उवाच:
गतिं गच्छन्ति सन्तुष्टास्तामाहुः परमां गतिम् ||
३९ ख
कपिल उवाच:
वेदांश्च वेदितव्यं च विदित्वा च यथास्थिति |
४० क
कपिल उवाच:
एवं वेदविदित्याहुरतोऽन्यो वातरेटकः ||
४० ख
कपिल उवाच:
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् |
४१ क
कपिल उवाच:
वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ||
४१ ख
कपिल उवाच:
एषैव निष्ठा सर्वस्य यद्यदस्ति च नास्ति च |
४२ क
कपिल उवाच:
एतदन्तं च मध्यं च सच्चासच्च विजानतः ||
४२ ख
कपिल उवाच:
समस्तत्याग इत्येव शम इत्येव निष्ठितः |
४३ क
कपिल उवाच:
सन्तोष इत्यत्र शुभमपवर्गे प्रतिष्ठितम् ||
४३ ख
कपिल उवाच:
ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं स्थावरं च |
४४ क
कपिल उवाच:
सर्वं सुखं यच्छिवमुत्तमं च; व्रह्माव्यक्तं प्रभवश्चाव्ययश्च ||
४४ ख
कपिल उवाच:
तेजः क्षमा शान्तिरनामय़ं शुभं; तथाविधं व्योम सनातनं ध्रुवम् |
४५ क
कपिल उवाच:
एतैः शव्दैर्गम्यते वुद्धिनेत्रै; स्तस्मै नमो व्रह्मणे व्राह्मणाय़ ||
४५ ख