युधिष्ठिर उवाच:
धर्ममर्थं च कामं च वेदाः शंसन्ति भारत |
१ क
युधिष्ठिर उवाच:
कस्य लाभो विशिष्टोऽत्र तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अत्र ते वर्तय़िष्यामि इतिहासं पुरातनम् |
२ क
भीष्म उवाच:
कुण्डधारेण यत्प्रीत्या भक्ताय़ोपकृतं पुरा ||
२ ख
भीष्म उवाच:
अधनो व्राह्मणः कश्चित्कामाद्धर्ममवैक्षत |
३ क
भीष्म उवाच:
यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम् ||
३ ख
भीष्म उवाच:
स निश्चय़मथो कृत्वा पूजय़ामास देवताः |
४ क
भीष्म उवाच:
भक्त्या न चैवाध्यगच्छद्धनं सम्पूज्य देवताः ||
४ ख
भीष्म उवाच:
ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत् |
५ क
भीष्म उवाच:
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ||
५ ख
भीष्म उवाच:
अथ सौम्येन वपुषा देवानुचरमन्तिके |
६ क
भीष्म उवाच:
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ||
६ ख
भीष्म उवाच:
दृष्ट्वैव तं महात्मानं तस्य भक्तिरजाय़त |
७ क
भीष्म उवाच:
अय़ं मे धास्यति श्रेय़ो वपुरेतद्धि तादृशम् ||
७ ख
भीष्म उवाच:
संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः |
८ क
भीष्म उवाच:
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ||
८ ख
भीष्म उवाच:
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि |
९ क
भीष्म उवाच:
वलिभिर्विविधैश्चापि पूजय़ामास तं द्विजः ||
९ ख
भीष्म उवाच:
ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा |
१० क
भीष्म उवाच:
तस्योपकारे निय़तामिमां वाचमुवाच ह ||
१० ख
भीष्म उवाच:
व्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा |
११ क
भीष्म उवाच:
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ||
११ ख
भीष्म उवाच:
आशाय़ास्तनय़ोऽधर्मः क्रोधोऽसूय़ासुतः स्मृतः |
१२ क
भीष्म उवाच:
पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् ||
१२ ख
भीष्म उवाच:
ततः स व्राह्मणः स्वप्ने कुण्डधारस्य तेजसा |
१३ क
भीष्म उवाच:
अपश्यत्सर्वभूतानि कुशेषु शय़ितस्तदा ||
१३ ख
भीष्म उवाच:
शमेन तपसा चैव भक्त्या च निरुपस्कृतः |
१४ क
भीष्म उवाच:
शुद्धात्मा व्राह्मणो रात्रौ निदर्शनमपश्यत ||
१४ ख
भीष्म उवाच:
मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् |
१५ क
भीष्म उवाच:
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ||
१५ ख
भीष्म उवाच:
तत्र देवाः प्रय़च्छन्ति राज्यानि च धनानि च |
१६ क
भीष्म उवाच:
शुभैः कर्मभिरारव्धाः प्रच्छिदन्त्यशुभेषु च ||
१६ ख
भीष्म उवाच:
पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः |
१७ क
भीष्म उवाच:
निष्पत्य पतितो भूमौ देवानां भरतर्षभ ||
१७ ख
भीष्म उवाच:
ततस्तु देववचनान्मणिभद्रो महाय़शाः |
१८ क
भीष्म उवाच:
उवाच पतितं भूमौ कुण्डधार किमिष्यते ||
१८ ख
कुण्डधार उवाच:
यदि प्रसन्ना देवा मे भक्तोऽय़ं व्राह्मणो मम |
१९ क
कुण्डधार उवाच:
अस्यानुग्रहमिच्छामि कृतं किञ्चित्सुखोदय़म् ||
१९ ख
भीष्म उवाच:
ततस्तं मणिभद्रस्तु पुनर्वचनमव्रवीत् |
२० क
भीष्म उवाच:
देवानामेव वचनात्कुण्डधारं महाद्युतिम् ||
२० ख
भीष्म उवाच:
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव |
२१ क
भीष्म उवाच:
यावद्धनं प्रार्थय़ते व्राह्मणोऽय़ं सखा तव |
२१ ख
भीष्म उवाच:
देवानां शासनात्तावदसङ्ख्येय़ं ददाम्यहम् ||
२१ ग
भीष्म उवाच:
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् |
२२ क
भीष्म उवाच:
तपसे मतिमाधत्त व्राह्मणस्य यशस्विनः ||
२२ ख
कुण्डधार उवाच:
नाहं धनानि याचामि व्राह्मणाय़ धनप्रद |
२३ क
कुण्डधार उवाच:
अन्यमेवाहमिच्छामि भक्ताय़ानुग्रहं कृतम् ||
२३ ख
कुण्डधार उवाच:
पृथिवीं रत्नपूर्णां वा महद्वा धनसञ्चय़म् |
२४ क
कुण्डधार उवाच:
भक्ताय़ नाहमिच्छामि भवेदेष तु धार्मिकः ||
२४ ख
कुण्डधार उवाच:
धर्मेऽस्य रमतां वुद्धिर्धर्मं चैवोपजीवतु |
२५ क
कुण्डधार उवाच:
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ||
२५ ख
मणिभद्र उवाच:
यदा धर्मफलं राज्यं सुखानि विविधानि च |
२६ क
मणिभद्र उवाच:
फलान्येवाय़मश्नातु काय़क्लेशविवर्जितः ||
२६ ख
भीष्म उवाच:
ततस्तदेव वहुशः कुण्डधारो महाय़शाः |
२७ क
भीष्म उवाच:
अभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः ||
२७ ख
मणिभद्र उवाच:
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च |
२८ क
मणिभद्र उवाच:
भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः ||
२८ ख
भीष्म उवाच:
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर |
२९ क
भीष्म उवाच:
ईप्सितं मनसो लव्ध्वा वरमन्यैः सुदुर्लभम् ||
२९ ख
भीष्म उवाच:
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः |
३० क
भीष्म उवाच:
पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः ||
३० ख
व्राह्मण उवाच:
अय़ं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् |
३१ क
व्राह्मण उवाच:
गच्छामि वनमेवाहं वरं धर्मेण जीवितुम् ||
३१ ख
भीष्म उवाच:
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः |
३२ क
भीष्म उवाच:
वनं प्रविश्य सुमहत्तप आरव्धवांस्तदा ||
३२ ख
भीष्म उवाच:
देवतातिथिशेषेण फलमूलाशनो द्विजः |
३३ क
भीष्म उवाच:
धर्मे चापि महाराज रतिरस्याभ्यजाय़त ||
३३ ख
भीष्म उवाच:
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः |
३४ क
भीष्म उवाच:
पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः ||
३४ ख
भीष्म उवाच:
वाय़ुभक्षस्ततः पश्चाद्वहून्वर्षगणानभूत् |
३५ क
भीष्म उवाच:
न चास्य क्षीय़ते प्राणस्तदद्भुतमिवाभवत् ||
३५ ख
भीष्म उवाच:
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः |
३६ क
भीष्म उवाच:
कालेन महता तस्य दिव्या दृष्टिरजाय़त ||
३६ ख
भीष्म उवाच:
तस्य वुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम् |
३७ क
भीष्म उवाच:
तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम ||
३७ ख
भीष्म उवाच:
ततः प्रहृष्टवदनो भूय़ आरव्धवांस्तपः |
३८ क
भीष्म उवाच:
भूय़श्चाचिन्तय़त्सिद्धो यत्परं सोऽभ्यपद्यत ||
३८ ख
भीष्म उवाच:
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् |
३९ क
भीष्म उवाच:
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ||
३९ ख
भीष्म उवाच:
तस्य साक्षात्कुण्डधारो दर्शय़ामास भारत |
४० क
भीष्म उवाच:
व्राह्मणस्य तपोय़ोगात्सौहृदेनाभिचोदितः ||
४० ख
भीष्म उवाच:
समागम्य स तेनाथ पूजां चक्रे यथाविधि |
४१ क
भीष्म उवाच:
व्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ||
४१ ख
भीष्म उवाच:
ततोऽव्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् |
४२ क
भीष्म उवाच:
पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा ||
४२ ख
भीष्म उवाच:
ततो राज्ञां सहस्राणि मग्नानि निरय़े तदा |
४३ क
भीष्म उवाच:
दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ||
४३ ख
कुण्डधार उवाच:
मां पूजय़ित्वा भावेन यदि त्वं दुःखमाप्नुय़ाः |
४४ क
कुण्डधार उवाच:
कृतं मय़ा भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ||
४४ ख
कुण्डधार उवाच:
पश्य पश्य च भूय़स्त्वं कामानिच्छेत्कथं नरः |
४५ क
कुण्डधार उवाच:
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ||
४५ ख
भीष्म उवाच:
ततोऽपश्यत्स कामं च क्रोधं लोभं भय़ं मदम् |
४६ क
भीष्म उवाच:
निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान् ||
४६ ख
कुण्डधार उवाच:
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भय़म् |
४७ क
कुण्डधार उवाच:
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ||
४७ ख
कुण्डधार उवाच:
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः |
४८ क
कुण्डधार उवाच:
एष शक्तोऽसि तपसा राज्यं दातुं धनानि च ||
४८ ख
भीष्म उवाच:
ततः पपात शिरसा व्राह्मणस्तोय़धारिणे |
४९ क
भीष्म उवाच:
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ||
४९ ख
भीष्म उवाच:
कामलोभानुवन्धेन पुरा ते यदसूय़ितम् |
५० क