chevron_left वन पर्व अध्याय २८८
कुन्त्यु उवाच:
व्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजय़ा |
१ क
कुन्त्यु उवाच:
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या व्रवीम्यहम् ||
१ ख
कुन्त्यु उवाच:
एष चैव स्वभावो मे पूजय़ेय़ं द्विजानिति |
२ क
कुन्त्यु उवाच:
तव चैव प्रिय़ं कार्यं श्रेय़श्चैतत्परं मम ||
२ ख
कुन्त्यु उवाच:
यद्येवैष्यति साय़ाह्ने यदि प्रातरथो निशि |
३ क
कुन्त्यु उवाच:
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति ||
३ ख
कुन्त्यु उवाच:
लाभो ममैष राजेन्द्र यद्वै पूजय़ती द्विजान् |
४ क
कुन्त्यु उवाच:
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम ||
४ ख
कुन्त्यु उवाच:
विस्रव्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः |
५ क
कुन्त्यु उवाच:
वसन्प्राप्स्यति ते गेहे सत्यमेतद्व्रवीमि ते ||
५ ख
कुन्त्यु उवाच:
यत्प्रिय़ं च द्विजस्यास्य हितं चैव तवानघ |
६ क
कुन्त्यु उवाच:
यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः ||
६ ख
कुन्त्यु उवाच:
व्राह्मणा हि महाभागाः पूजिताः पृथिवीपते |
७ क
कुन्त्यु उवाच:
तारणाय़ समर्थाः स्युर्विपरीते वधाय़ च ||
७ ख
कुन्त्यु उवाच:
साहमेतद्विजानन्ती तोषय़िष्ये द्विजोत्तमम् |
८ क
कुन्त्यु उवाच:
न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात् ||
८ ख
कुन्त्यु उवाच:
अपराधे हि राजेन्द्र राज्ञामश्रेय़से द्विजाः |
९ क
कुन्त्यु उवाच:
भवन्ति च्यवनो यद्वत्सुकन्याय़ाः कृते पुरा ||
९ ख
कुन्त्यु उवाच:
निय़मेन परेणाहमुपस्थास्ये द्विजोत्तमम् |
१० क
कुन्त्यु उवाच:
यथा त्वय़ा नरेन्द्रेदं भाषितं व्राह्मणं प्रति ||
१० ख
राजो उवाच:
एवमेतत्त्वय़ा भद्रे कर्तव्यमविशङ्कय़ा |
११ क
राजो उवाच:
मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि ||
११ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महाय़शाः |
१२ क
वैशम्पाय़न उवाच:
पृथां परिददौ तस्मै द्विजाय़ सुतवत्सलः ||
१२ ख
वैशम्पाय़न उवाच:
इय़ं व्रह्मन्मम सुता वाला सुखविवर्धिता |
१३ क
वैशम्पाय़न उवाच:
अपराध्येत यत्किञ्चिन्न तत्कार्यं हृदि त्वय़ा ||
१३ ख
वैशम्पाय़न उवाच:
द्विजातय़ो महाभागा वृद्धवालतपस्विषु |
१४ क
वैशम्पाय़न उवाच:
भवन्त्यक्रोधनाः प्राय़ो विरुद्धेष्वपि नित्यदा ||
१४ ख
वैशम्पाय़न उवाच:
सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः |
१५ क
वैशम्पाय़न उवाच:
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम ||
१५ ख
वैशम्पाय़न उवाच:
तथेति व्राह्मणेनोक्ते स राजा प्रीतमानसः |
१६ क
वैशम्पाय़न उवाच:
हंसचन्द्रांशुसङ्काशं गृहमस्य न्यवेदय़त् ||
१६ ख
वैशम्पाय़न उवाच:
तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत् |
१७ क
वैशम्पाय़न उवाच:
आहारादि च सर्वं तत्तथैव प्रत्यवेदय़त् ||
१७ ख
वैशम्पाय़न उवाच:
निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च |
१८ क
वैशम्पाय़न उवाच:
आतस्थे परमं यत्नं व्राह्मणस्याभिराधने ||
१८ ख
वैशम्पाय़न उवाच:
तत्र सा व्राह्मणं गत्वा पृथा शौचपरा सती |
१९ क
वैशम्पाय़न उवाच:
विधिवत्परिचारार्हं देववत्पर्यतोषय़त् ||
१९ ख