सञ्जय़ उवाच:
तदुदीर्णगजाश्वौघं वलं तव जनाधिप |
१ क
सञ्जय़ उवाच:
पाण्डुसेनामभिद्रुत्य योधय़ामास सर्वतः ||
१ ख
सञ्जय़ उवाच:
पाञ्चालाः कुरवश्चैव योधय़न्तः परस्परम् |
२ क
सञ्जय़ उवाच:
यमराष्ट्राय़ महते परलोकाय़ दीक्षिताः ||
२ ख
सञ्जय़ उवाच:
शूराः शूरैः समागम्य शरतोमरशक्तिभिः |
३ क
सञ्जय़ उवाच:
विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षय़म् ||
३ ख
सञ्जय़ उवाच:
रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम् |
४ क
सञ्जय़ उवाच:
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् ||
४ ख
सञ्जय़ उवाच:
वारणाश्च महाराज समासाद्य परस्परम् |
५ क
सञ्जय़ उवाच:
विषाणैर्दारय़ामासुः सङ्क्रुद्धाश्च मदोत्कटाः ||
५ ख
सञ्जय़ उवाच:
हय़ारोहान्हय़ारोहाः प्रासशक्तिपरश्वधैः |
६ क
सञ्जय़ उवाच:
विभिदुस्तुमुले युद्धे प्रार्थय़न्तो महद्यशः ||
६ ख
सञ्जय़ उवाच:
पत्तय़श्च महावाहो शतशः शस्त्रपाणय़ः |
७ क
सञ्जय़ उवाच:
अन्योन्यमार्दय़न्राजन्नित्ययत्ताः पराक्रमे ||
७ ख
सञ्जय़ उवाच:
गोत्राणां नामधेय़ानां कुलानां चैव मारिष |
८ क
सञ्जय़ उवाच:
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ||
८ ख
सञ्जय़ उवाच:
अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः |
९ क
सञ्जय़ उवाच:
प्रेषय़न्परलोकाय़ विचरन्तो ह्यभीतवत् ||
९ ख
सञ्जय़ उवाच:
शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः |
१० क
सञ्जय़ उवाच:
न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च ||
१० ख
सञ्जय़ उवाच:
तथा प्रय़ुध्यमानेषु पाण्डवेय़ेषु निर्भय़ः |
११ क
सञ्जय़ उवाच:
दुर्योधनो महाराज व्यवगाहत तद्वलम् ||
११ ख
सञ्जय़ उवाच:
सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः |
१२ क
सञ्जय़ उवाच:
मर्तव्यमिति सञ्चिन्त्य प्राविशत्तु द्विषद्वलम् ||
१२ ख
सञ्जय़ उवाच:
नादय़न्रथघोषेण कम्पय़न्निव मेदिनीम् |
१३ क
सञ्जय़ उवाच:
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ||
१३ ख
सञ्जय़ उवाच:
स संनिपातस्तुमुलस्तस्य तेषां च भारत |
१४ क
सञ्जय़ उवाच:
अभवत्सर्वसैन्यानामभावकरणो महान् ||
१४ ख
सञ्जय़ उवाच:
मध्यन्दिनगतं सूर्यं प्रतपन्तं गभस्तिभिः |
१५ क
सञ्जय़ उवाच:
तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः ||
१५ ख
सञ्जय़ उवाच:
न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम् |
१६ क
सञ्जय़ उवाच:
पलाय़ने कृतोत्साहा निरुत्साहा द्विषज्जय़े ||
१६ ख
सञ्जय़ उवाच:
पर्यधावन्त पाञ्चाला वध्यमाना महात्मना |
१७ क
सञ्जय़ उवाच:
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना |
१७ ख
सञ्जय़ उवाच:
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ||
१७ ग
सञ्जय़ उवाच:
न तादृशं रणे कर्म कृतवन्तस्तु तावकाः |
१८ क
सञ्जय़ उवाच:
यादृशं कृतवान्राजा पुत्रस्तव विशां पते ||
१८ ख
सञ्जय़ उवाच:
पुत्रेण तव सा सेना पाण्डवी मथिता रणे |
१९ क
सञ्जय़ उवाच:
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ||
१९ ख
सञ्जय़ उवाच:
क्षीणतोय़ानिलार्काभ्यां हतत्विडिव पद्मिनी |
२० क
सञ्जय़ उवाच:
वभूव पाण्डवी सेना तव पुत्रस्य तेजसा ||
२० ख
सञ्जय़ उवाच:
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत |
२१ क
सञ्जय़ उवाच:
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् ||
२१ ख
सञ्जय़ उवाच:
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः |
२२ क
सञ्जय़ उवाच:
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ||
२२ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः |
२३ क
सञ्जय़ उवाच:
केकय़ांश्चैव चेदींश्च वहुभिर्निशितैः शरैः ||
२३ ख
सञ्जय़ उवाच:
सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेय़ांस्त्रिभिस्त्रिभिः |
२४ क
सञ्जय़ उवाच:
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ||
२४ ख
सञ्जय़ उवाच:
शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे |
२५ क
सञ्जय़ उवाच:
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ||
२५ ख
सञ्जय़ उवाच:
तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः |
२६ क
सञ्जय़ उवाच:
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ||
२६ ख
सञ्जय़ उवाच:
विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः |
२७ क
सञ्जय़ उवाच:
मर्माणि भित्त्वा ते सर्वे सम्भग्नाः क्षितिमाविशन् ||
२७ ख
सञ्जय़ उवाच:
ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम् |
२८ क
सञ्जय़ उवाच:
वृत्रहत्यै यथा देवाः परिवव्रुः पुरन्दरम् ||
२८ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष |
२९ क
सञ्जय़ उवाच:
शरं परमदुर्वारं प्रेषय़ामास संय़ुगे |
२९ ख
सञ्जय़ उवाच:
स तेन भृशसंविद्धो निषसाद रथोत्तमे ||
२९ ग
सञ्जय़ उवाच:
ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान् |
३० क
सञ्जय़ उवाच:
हतो राजेति राजेन्द्र मुदितानां समन्ततः ||
३० ख
सञ्जय़ उवाच:
वाणशव्दरवश्चोग्रः शुश्रुवे तत्र मारिष |
३१ क
सञ्जय़ उवाच:
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संय़ुगे ||
३१ ख
सञ्जय़ उवाच:
हृष्टो दुर्योधनश्चापि दृढमादाय़ कार्मुकम् |
३२ क
सञ्जय़ उवाच:
तिष्ठ तिष्ठेति राजानं व्रुवन्पाण्डवमभ्ययात् ||
३२ ख
सञ्जय़ उवाच:
प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः |
३३ क
सञ्जय़ उवाच:
तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् |
३३ ख
सञ्जय़ उवाच:
चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा ||
३३ ग
सञ्जय़ उवाच:
ततो राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः |
३४ क
सञ्जय़ उवाच:
तावकानां परेषां च समेतानां युय़ुत्सय़ा ||
३४ ख