भीष्म उवाच:
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
१ क
भीष्म उवाच:
नारदस्य च संवादं देवलस्यासितस्य च ||
१ ख
भीष्म उवाच:
आसीनं देवलं वृद्धं वुद्ध्वा वुद्धिमतां वरः |
२ क
भीष्म उवाच:
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ||
२ ख
भीष्म उवाच:
कुतः सृष्टमिदं विश्वं व्रह्मन्स्थावरजङ्गमम् |
३ क
भीष्म उवाच:
प्रलय़े च कमभ्येति तद्भवान्प्रव्रवीतु मे ||
३ ख
असित उवाच:
येभ्यः सृजति भूतानि कालो भावप्रचोदितः |
४ क
असित उवाच:
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ||
४ ख
असित उवाच:
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः |
५ क
असित उवाच:
एतेभ्यो यः परं व्रूय़ादसद्व्रूय़ादसंशय़म् ||
५ ख
असित उवाच:
विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् |
६ क
असित उवाच:
महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः ||
६ ख
असित उवाच:
आपश्चैवान्तरिक्षं च पृथिवी वाय़ुपावकौ |
७ क
असित उवाच:
असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशय़म् ||
७ ख
असित उवाच:
नोपपत्त्या न वा युक्त्या त्वसद्व्रूय़ादसंशय़म् |
८ क
असित उवाच:
वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशय़ः ||
८ ख
असित उवाच:
पञ्चैव तानि कालश्च भावाभावौ च केवलौ |
९ क
असित उवाच:
अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ ||
९ ख
असित उवाच:
अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि |
१० क
असित उवाच:
विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा ||
१० ख
असित उवाच:
तस्य भूमिमय़ो देहः श्रोत्रमाकाशसम्भवम् |
११ क
असित उवाच:
सूर्यश्चक्षुरसुर्वाय़ुरद्भ्यस्तु खलु शोणितम् ||
११ ख
असित उवाच:
चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी |
१२ क
असित उवाच:
इन्द्रिय़ाणीन्द्रिय़ार्थानां ज्ञानानि कवय़ो विदुः ||
१२ ख
असित उवाच:
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा |
१३ क
असित उवाच:
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा ||
१३ ख
असित उवाच:
रूपं गन्धो रसः स्पर्शः शव्दश्चैवाथ तद्गुणाः |
१४ क
असित उवाच:
इन्द्रिय़ैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ||
१४ ख
असित उवाच:
रूपं गन्धं रसं स्पर्शं शव्दं चैतांस्तु तद्गुणान् |
१५ क
असित उवाच:
इन्द्रिय़ाणि न वुध्यन्ते क्षेत्रज्ञस्तैस्तु वुध्यते ||
१५ ख
असित उवाच:
चित्तमिन्द्रिय़सङ्घातात्परं तस्मात्परं मनः |
१६ क
असित उवाच:
मनसस्तु परा वुद्धिः क्षेत्रज्ञो वुद्धितः परः ||
१६ ख
असित उवाच:
पूर्वं चेतय़ते जन्तुरिन्द्रिय़ैर्विषय़ान्पृथक् |
१७ क
असित उवाच:
विचार्य मनसा पश्चादथ वुद्ध्या व्यवस्यति |
१७ ख
असित उवाच:
इन्द्रिय़ैरुपलव्धार्थान्सर्वान्यस्त्वध्यवस्यति ||
१७ ग
असित उवाच:
चित्तमिन्द्रिय़सङ्घातं मनो वुद्धिं तथाष्टमीम् |
१८ क
असित उवाच:
अष्टौ ज्ञानेन्द्रिय़ाण्याहुरेतान्यध्यात्मचिन्तकाः ||
१८ ख
असित उवाच:
पाणिपादं च पाय़ुश्च मेहनं पञ्चमं मुखम् |
१९ क
असित उवाच:
इति संशव्द्यमानानि शृणु कर्मेन्द्रिय़ाण्यपि ||
१९ ख
असित उवाच:
जल्पनाभ्यवहारार्थं मुखमिन्द्रिय़मुच्यते |
२० क
असित उवाच:
गमनेन्द्रिय़ं तथा पादौ कर्मणः करणे करौ ||
२० ख
असित उवाच:
पाय़ूपस्थौ विसर्गार्थमिन्द्रिय़े तुल्यकर्मणी |
२१ क
असित उवाच:
विसर्गे च पुरीषस्य विसर्गे चाभिकामिके ||
२१ ख
असित उवाच:
वलं षष्ठं षडेतानि वाचा सम्यग्यथागमम् |
२२ क
असित उवाच:
ज्ञानचेष्टेन्द्रिय़गुणाः सर्वे संशव्दिता मय़ा ||
२२ ख
असित उवाच:
इन्द्रिय़ाणां स्वकर्मभ्यः श्रमादुपरमो यदा |
२३ क
असित उवाच:
भवतीन्द्रिय़संन्यासादथ स्वपिति वै नरः ||
२३ ख
असित उवाच:
इन्द्रिय़ाणां व्युपरमे मनोऽनुपरतं यदि |
२४ क
असित उवाच:
सेवते विषय़ानेव तद्विद्यात्स्वप्नदर्शनम् ||
२४ ख
असित उवाच:
सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः |
२५ क
असित उवाच:
कर्मय़ुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा ||
२५ ख
असित उवाच:
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः |
२६ क
असित उवाच:
सात्त्विकस्य निमित्तानि भावान्संश्रय़ते स्मृतिः ||
२६ ख
असित उवाच:
जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः |
२७ क
असित उवाच:
भावय़ोरीप्सितं नित्यं प्रत्यक्षगमनं द्वय़ोः ||
२७ ख
असित उवाच:
इन्द्रिय़ाणि च भावाश्च गुणाः सप्तदश स्मृताः |
२८ क
असित उवाच:
तेषामष्टादशो देही यः शरीरे स शाश्वतः ||
२८ ख
असित उवाच:
अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम् |
२९ क
असित उवाच:
संश्रितास्तद्विय़ोगे हि सशरीरा न सन्ति ते ||
२९ ख
असित उवाच:
अथ वा संनिपातोऽय़ं शरीरं पाञ्चभौतिकम् |
३० क
असित उवाच:
एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् |
३० ख
असित उवाच:
ऊष्मणा सह विंशो वा सङ्घातः पाञ्चभौतिकः ||
३० ग
असित उवाच:
महान्सन्धारय़त्येतच्छरीरं वाय़ुना सह |
३१ क
असित उवाच:
तस्यास्य भावय़ुक्तस्य निमित्तं देहभेदने ||
३१ ख
असित उवाच:
यथैवोत्पद्यते किञ्चित्पञ्चत्वं गच्छते तथा |
३२ क
असित उवाच:
पुण्यपापविनाशान्ते पुण्यपापसमीरितम् |
३२ ख
असित उवाच:
देहं विशति कालेन ततोऽय़ं कर्मसम्भवम् ||
३२ ग
असित उवाच:
हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रय़ः |
३३ क
असित उवाच:
कालसञ्चोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ||
३३ ख
असित उवाच:
तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चय़ाः |
३४ क
असित उवाच:
कृपणास्त्वनुतप्यन्ते जनाः सम्वन्धिमानिनः ||
३४ ख
असित उवाच:
न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते |
३५ क
असित उवाच:
भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक् ||
३५ ख
असित उवाच:
नैव सञ्जाय़ते जन्तुर्न च जातु विपद्यते |
३६ क
असित उवाच:
याति देहमय़ं भुक्त्वा कदाचित्परमां गतिम् ||
३६ ख
असित उवाच:
पुण्यपापमय़ं देहं क्षपय़न्कर्मसञ्चय़ात् |
३७ क
असित उवाच:
क्षीणदेहः पुनर्देही व्रह्मत्वमुपगच्छति ||
३७ ख
असित उवाच:
पुण्यपापक्षय़ार्थं च साङ्ख्यं ज्ञानं विधीय़ते |
३८ क
असित उवाच:
तत्क्षय़े ह्यस्य पश्यन्ति व्रह्मभावे परां गतिम् ||
३८ ख