सञ्जय़ उवाच:
वर्तमाने तथा रौद्रे रात्रिय़ुद्धे विशां पते |
१ क
सञ्जय़ उवाच:
सर्वभूतक्षय़करे धर्मपुत्रो युधिष्ठिरः ||
१ ख
सञ्जय़ उवाच:
अव्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान् |
२ क
सञ्जय़ उवाच:
अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसय़ा ||
२ ख
सञ्जय़ उवाच:
राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा |
३ क
सञ्जय़ उवाच:
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् ||
३ ख
सञ्जय़ उवाच:
तान्वय़ं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः |
४ क
सञ्जय़ उवाच:
यथाशक्ति यथोत्साहं यथासत्त्वं च संय़ुगे ||
४ ख
सञ्जय़ उवाच:
कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत् |
५ क
सञ्जय़ उवाच:
द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् ||
५ ख
सञ्जय़ उवाच:
शैनेय़ं शरवर्षाणि विकिरन्तं समन्ततः |
६ क
सञ्जय़ उवाच:
अभ्ययात्कौरवो राजन्भूरिः सङ्ग्राममूर्धनि ||
६ ख
सञ्जय़ उवाच:
सहदेवमथाय़ान्तं द्रोणप्रेप्सुं महारथम् |
७ क
सञ्जय़ उवाच:
कर्णो वैकर्तनो राजन्वारय़ामास पाण्डवम् ||
७ ख
सञ्जय़ उवाच:
भीमसेनमथाय़ान्तं व्यादितास्यमिवान्तकम् |
८ क
सञ्जय़ उवाच:
स्वय़ं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत् ||
८ ख
सञ्जय़ उवाच:
नकुलं च युधां श्रेष्ठं सर्वय़ुद्धविशारदम् |
९ क
सञ्जय़ उवाच:
शकुनिः सौवलो राजन्वारय़ामास सत्वरः ||
९ ख
सञ्जय़ उवाच:
शिखण्डिनमथाय़ान्तं रथेन रथिनां वरम् |
१० क
सञ्जय़ उवाच:
कृपो शारद्वतो राजन्वारय़ामास संय़ुगे ||
१० ख
सञ्जय़ उवाच:
प्रतिविन्ध्यमथाय़ान्तं मय़ूरसदृशैर्हय़ैः |
११ क
सञ्जय़ उवाच:
दुःशासनो महाराज यत्तो यत्तमवारय़त् ||
११ ख
सञ्जय़ उवाच:
भैमसेनिमथाय़ान्तं माय़ाशतविशारदम् |
१२ क
सञ्जय़ उवाच:
अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधय़त् ||
१२ ख
सञ्जय़ उवाच:
द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् |
१३ क
सञ्जय़ उवाच:
वारय़ामास समरे द्रोणप्रेप्सुं महारथम् ||
१३ ख
सञ्जय़ उवाच:
विराटं द्रुतमाय़ान्तं द्रोणस्य निधनं प्रति |
१४ क
सञ्जय़ उवाच:
मद्रराजः सुसङ्क्रुद्धो वारय़ामास भारत ||
१४ ख
सञ्जय़ उवाच:
शतानीकमथाय़ान्तं नाकुलिं रभसं रणे |
१५ क
सञ्जय़ उवाच:
चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सय़ा ||
१५ ख
सञ्जय़ उवाच:
अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् |
१६ क
सञ्जय़ उवाच:
अलम्वुसो महाराज राक्षसेन्द्रो न्यवारय़त् ||
१६ ख
सञ्जय़ उवाच:
तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे |
१७ क
सञ्जय़ उवाच:
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारय़त् ||
१७ ख
सञ्जय़ उवाच:
तथान्यान्पाण्डुपुत्राणां समाय़ातान्महारथान् |
१८ क
सञ्जय़ उवाच:
तावका रथिनो राजन्वारय़ामासुरोजसा ||
१८ ख
सञ्जय़ उवाच:
गजारोहा गजैस्तूर्णं संनिपत्य महामृधे |
१९ क
सञ्जय़ उवाच:
योधय़न्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः ||
१९ ख
सञ्जय़ उवाच:
निशीथे तुरगा राजन्नाद्रवन्तः परस्परम् |
२० क
सञ्जय़ उवाच:
समदृश्यन्त वेगेन पक्षवन्त इवाद्रय़ः ||
२० ख
सञ्जय़ उवाच:
सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणय़ः |
२१ क
सञ्जय़ उवाच:
समागच्छन्महाराज विनदन्तः पृथक्पृथक् ||
२१ ख
सञ्जय़ उवाच:
नरास्तु वहवस्तत्र समाजग्मुः परस्परम् |
२२ क
सञ्जय़ उवाच:
गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च सङ्घशः ||
२२ ख
सञ्जय़ उवाच:
कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् |
२३ क
सञ्जय़ उवाच:
वारय़ामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम् ||
२३ ख
सञ्जय़ उवाच:
युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः |
२४ क
सञ्जय़ उवाच:
पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाव्रवीत् ||
२४ ख
सञ्जय़ उवाच:
कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष |
२५ क
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ||
२५ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ धर्मपुत्रो युधिष्ठिरः |
२६ क
सञ्जय़ उवाच:
हार्दिक्यं दशभिर्वाणैर्वाह्वोरुरसि चार्पय़त् ||
२६ ख
सञ्जय़ उवाच:
माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष |
२७ क
सञ्जय़ उवाच:
प्राकम्पत च रोषेण सप्तभिश्चार्दय़च्छरैः ||
२७ ख
सञ्जय़ उवाच:
तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च |
२८ क
सञ्जय़ उवाच:
प्राहिणोन्निशितान्वाणान्पञ्च राजञ्शिलाशितान् ||
२८ ख
सञ्जय़ उवाच:
ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् |
२९ क
सञ्जय़ उवाच:
प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः ||
२९ ख
सञ्जय़ उवाच:
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय़ कार्मुकम् |
३० क
सञ्जय़ उवाच:
विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः ||
३० ख
सञ्जय़ उवाच:
तस्य शक्तिममेय़ात्मा पाण्डवो भुजगोपमाम् |
३१ क
सञ्जय़ उवाच:
चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः ||
३१ ख
सञ्जय़ उवाच:
सा हेमचित्रा महती पाण्डवेन प्रवेरिता |
३२ क
सञ्जय़ उवाच:
निर्भिद्य दक्षिणं वाहुं प्राविशद्धरणीतलम् ||
३२ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः |
३३ क
सञ्जय़ उवाच:
हार्दिक्यं छादय़ामास शरैः संनतपर्वभिः ||
३३ ख
सञ्जय़ उवाच:
ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी |
३४ क
सञ्जय़ उवाच:
व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् ||
३४ ख
सञ्जय़ उवाच:
ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे |
३५ क
सञ्जय़ उवाच:
तदस्य निशितैर्वाणैर्व्यधमन्माधवो रणे ||
३५ ख
सञ्जय़ उवाच:
तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् |
३६ क
सञ्जय़ उवाच:
प्रेषय़त्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः ||
३६ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा धर्मराजभुजच्युतम् |
३७ क
सञ्जय़ उवाच:
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मय़न्निव ||
३७ ख
सञ्जय़ उवाच:
ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् |
३८ क
सञ्जय़ उवाच:
कवचं चास्य सङ्क्रुद्धः शरैस्तीक्ष्णैरदारय़त् ||
३८ ख
सञ्जय़ उवाच:
हार्दिक्यशरसञ्छिन्नं कवचं तन्महात्मनः |
३९ क
सञ्जय़ उवाच:
व्यशीर्यत रणे राजंस्ताराजालमिवाम्वरात् ||
३९ ख
सञ्जय़ उवाच:
स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः |
४० क
सञ्जय़ उवाच:
अपाय़ासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः ||
४० ख
सञ्जय़ उवाच:
कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् |
४१ क
सञ्जय़ उवाच:
पुनर्द्रोणस्य जुगुपे चक्रमेव महावलः ||
४१ ख