युधिष्ठिर उवाच:
भ्रातरः पितरः पुत्रा ज्ञातय़ः सुहृदस्तथा |
१ क
युधिष्ठिर उवाच:
अर्थहेतोर्हताः क्रूरैरस्माभिः पापवुद्धिभिः ||
१ ख
युधिष्ठिर उवाच:
येय़मर्थोद्भवा तृष्णा कथमेतां पितामह |
२ क
युधिष्ठिर उवाच:
निवर्तय़ेम पापं हि तृष्णय़ा कारिता वय़म् ||
२ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
३ क
भीष्म उवाच:
गीतं विदेहराजेन माण्डव्याय़ानुपृच्छते ||
३ ख
भीष्म उवाच:
सुसुखं वत जीवामि यस्य मे नास्ति किञ्चन |
४ क
भीष्म उवाच:
मिथिलाय़ां प्रदीप्ताय़ां न मे दह्यति किञ्चन ||
४ ख
भीष्म उवाच:
अर्थाः खलु समृद्धा हि वाढं दुःखं विजानताम् |
५ क
भीष्म उवाच:
असमृद्धास्त्वपि सदा मोहय़न्त्यविचक्षणान् ||
५ ख
भीष्म उवाच:
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् |
६ क
भीष्म उवाच:
तृष्णाक्षय़सुखस्यैते नार्हतः षोडशीं कलाम् ||
६ ख
भीष्म उवाच:
यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते |
७ क
भीष्म उवाच:
तथैव तृष्णा वित्तेन वर्धमानेन वर्धते ||
७ ख
भीष्म उवाच:
किञ्चिदेव ममत्वेन यदा भवति कल्पितम् |
८ क
भीष्म उवाच:
तदेव परितापाय़ नाशे सम्पद्यते पुनः ||
८ ख
भीष्म उवाच:
न कामाननुरुध्येत दुःखं कामेषु वै रतिः |
९ क
भीष्म उवाच:
प्राप्यार्थमुपय़ुञ्जीत धर्मे कामं विवर्जय़ेत् ||
९ ख
भीष्म उवाच:
विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत् |
१० क
भीष्म उवाच:
कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह ||
१० ख
भीष्म उवाच:
उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रिय़ाप्रिय़े |
११ क
भीष्म उवाच:
भय़ाभय़े च सन्त्यज्य सम्प्रशान्तो निरामय़ः ||
११ ख
भीष्म उवाच:
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः |
१२ क
भीष्म उवाच:
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ||
१२ ख
भीष्म उवाच:
चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामय़म् |
१३ क
भीष्म उवाच:
धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम् ||
१३ ख
भीष्म उवाच:
राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः |
१४ क
भीष्म उवाच:
पूजय़ित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः ||
१४ ख