युधिष्ठिर उवाच:
किंशीलः किंसमाचारः किंविद्यः किम्पराय़णः |
१ क
युधिष्ठिर उवाच:
प्राप्नोति व्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ||
१ ख
भीष्म उवाच:
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रिय़ः |
२ क
भीष्म उवाच:
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् ||
२ ख
भीष्म उवाच:
स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः |
३ क
भीष्म उवाच:
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ||
३ ख
भीष्म उवाच:
न चक्षुषा न मनसा न वाचा दूषय़ेदपि |
४ क
भीष्म उवाच:
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित् ||
४ ख
भीष्म उवाच:
न हिंस्यात्सर्वभूतानि मैत्राय़णगतिश्चरेत् |
५ क
भीष्म उवाच:
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ||
५ ख
भीष्म उवाच:
अतिवादांस्तितिक्षेत नाभिमन्येत्कथञ्चन |
६ क
भीष्म उवाच:
क्रोध्यमानः प्रिय़ं व्रूय़ादाक्रुष्टः कुशलं वदेत् ||
६ ख
भीष्म उवाच:
प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् |
७ क
भीष्म उवाच:
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतितः ||
७ ख
भीष्म उवाच:
अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रिय़ं वदेत् |
८ क
भीष्म उवाच:
मृदुः स्यादप्रतिक्रूरो विस्रव्धः स्यादरोषणः ||
८ ख
भीष्म उवाच:
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने |
९ क
भीष्म उवाच:
अतीते पात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः ||
९ ख
भीष्म उवाच:
अनुय़ात्रिकमर्थस्य मात्रालाभेष्वनादृतः |
१० क
भीष्म उवाच:
अलाभे न विहन्येत लाभश्चैनं न हर्षय़ेत् ||
१० ख
भीष्म उवाच:
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः |
११ क
भीष्म उवाच:
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः ||
११ ख
भीष्म उवाच:
न चान्नदोषान्निन्देत न गुणानभिपूजय़ेत् |
१२ क
भीष्म उवाच:
शय़्यासने विविक्ते च नित्यमेवाभिपूजय़ेत् ||
१२ ख
भीष्म उवाच:
शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम् |
१३ क
भीष्म उवाच:
अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत् ||
१३ ख
भीष्म उवाच:
अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः |
१४ क
भीष्म उवाच:
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि ||
१४ ख
भीष्म उवाच:
वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम् |
१५ क
भीष्म उवाच:
एतान्वेगान्विनय़ेद्वै तपस्वी; निन्दा चास्य हृदय़ं नोपहन्यात् ||
१५ ख
भीष्म उवाच:
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दय़ोः समः |
१६ क
भीष्म उवाच:
एतत्पवित्रं परमं परिव्राजक आश्रमे ||
१६ ख
भीष्म उवाच:
महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः |
१७ क
भीष्म उवाच:
अपूर्वचारकः सौम्यो अनिकेतः समाहितः ||
१७ ख
भीष्म उवाच:
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् |
१८ क
भीष्म उवाच:
अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् ||
१८ ख
भीष्म उवाच:
विजानतां मोक्ष एष श्रमः स्यादविजानताम् |
१९ क
भीष्म उवाच:
मोक्षय़ानमिदं कृत्स्नं विदुषां हारितोऽव्रवीत् ||
१९ ख
भीष्म उवाच:
अभय़ं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् |
२० क
भीष्म उवाच:
लोकास्तेजोमय़ास्तस्य तथानन्त्याय़ कल्पते ||
२० ख