chevron_left अनुशासन पर्व अध्याय २७
सिद्ध उवाच:
स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ||
५० ख
सिद्ध उवाच:
यथोपजीविनां धेनुर्देवादीनां धरा स्मृता |
५१ क
सिद्ध उवाच:
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ||
५१ ख
सिद्ध उवाच:
देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः |
५२ क
सिद्ध उवाच:
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ||
५२ ख
सिद्ध उवाच:
जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः |
५३ क
सिद्ध उवाच:
मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् ||
५३ ख
सिद्ध उवाच:
जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना विभर्ति यः |
५४ क
सिद्ध उवाच:
विभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम् ||
५४ ख
सिद्ध उवाच:
गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा |
५५ क
सिद्ध उवाच:
स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति ||
५५ ख
सिद्ध उवाच:
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः |
५६ क
सिद्ध उवाच:
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ||
५६ ख
सिद्ध उवाच:
हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् |
५७ क
सिद्ध उवाच:
पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चय़ान् ||
५७ ख
सिद्ध उवाच:
हंसादिभिः सुवहुभिर्विविधैः पक्षिभिर्वृताम् |
५८ क
सिद्ध उवाच:
गङ्गां गोकुलसम्वाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ||
५८ ख
सिद्ध उवाच:
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः |
५९ क
सिद्ध उवाच:
अभवद्या परा प्रीतिर्गङ्गाय़ाः पुलिने नृणाम् ||
५९ ख
सिद्ध उवाच:
वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह |
६० क
सिद्ध उवाच:
वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशय़ः ||
६० ख
सिद्ध उवाच:
सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे |
६१ क
सिद्ध उवाच:
पुमांस्तारय़ते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ||
६१ ख
सिद्ध उवाच:
श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता |
६२ क
सिद्ध उवाच:
गङ्गा तारय़ते नॄणामुभौ वंशौ विशेषतः ||
६२ ख
सिद्ध उवाच:
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् |
६३ क
सिद्ध उवाच:
पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ||
६३ ख
सिद्ध उवाच:
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च |
६४ क
सिद्ध उवाच:
स पितॄंस्तर्पय़ेद्गङ्गामभिगम्य सुरांस्तथा ||
६४ ख
सिद्ध उवाच:
न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् |
६५ क
सिद्ध उवाच:
प्राप्नुय़ात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुय़ात् ||
६५ ख
सिद्ध उवाच:
जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च |
६६ क
सिद्ध उवाच:
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ||
६६ ख
सिद्ध उवाच:
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् |
६७ क
सिद्ध उवाच:
देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ||
६७ ख
सिद्ध उवाच:
वानप्रस्थैर्गृहस्थैश्च यतिभिर्व्रह्मचारिभिः |
६८ क
सिद्ध उवाच:
विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रय़ेत् ||
६८ ख
सिद्ध उवाच:
उत्क्रामद्भिश्च यः प्राणैः प्रय़तः शिष्टसंमतः |
६९ क
सिद्ध उवाच:
चिन्तय़ेन्मनसा गङ्गां स गतिं परमां लभेत् ||
६९ ख
सिद्ध उवाच:
न भय़ेभ्यो भय़ं तस्य न पापेभ्यो न राजतः |
७० क
सिद्ध उवाच:
आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह ||
७० ख
सिद्ध उवाच:
गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः |
७१ क
सिद्ध उवाच:
दधार शिरसा देवीं तामेव दिवि सेवते ||
७१ ख
सिद्ध उवाच:
अलङ्कृतास्त्रय़ो लोकाः पथिभिर्विमलैस्त्रिभिः |
७२ क
सिद्ध उवाच:
यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् ||
७२ ख
सिद्ध उवाच:
दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः |
७३ क
सिद्ध उवाच:
देवेशश्च यथा नॄणां गङ्गेह सरितां तथा ||
७३ ख
सिद्ध उवाच:
मात्रा पित्रा सुतैर्दारैर्विय़ुक्तस्य धनेन वा |
७४ क
सिद्ध उवाच:
न भवेद्धि तथा दुःखं यथा गङ्गाविय़ोगजम् ||
७४ ख
सिद्ध उवाच:
नारण्यैर्नेष्टविषय़ैर्न सुतैर्न धनागमैः |
७५ क
सिद्ध उवाच:
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् ||
७५ ख
सिद्ध उवाच:
पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति |
७६ क
सिद्ध उवाच:
गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति ||
७६ ख
सिद्ध उवाच:
तद्भावस्तद्गतमनास्तन्निष्ठस्तत्पराय़णः |
७७ क
सिद्ध उवाच:
गङ्गां योऽनुगतो भक्त्या स तस्याः प्रिय़तां व्रजेत् ||
७७ ख
सिद्ध उवाच:
भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि |
७८ क
सिद्ध उवाच:
गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ||
७८ ख
सिद्ध उवाच:
त्रिषु लोकेषु पुण्यत्वाद्गङ्गाय़ाः प्रथितं यशः |
७९ क
सिद्ध उवाच:
यत्पुत्रान्सगरस्यैषा भस्माख्याननय़द्दिवम् ||
७९ ख
सिद्ध उवाच:
वाय़्वीरिताभिः सुमहास्वनाभि; र्द्रुताभिरत्यर्थसमुच्छ्रिताभिः |
८० क
सिद्ध उवाच:
गङ्गोर्मिभिर्भानुमतीभिरिद्धः; सहस्ररश्मिप्रतिमो विभाति ||
८० ख
सिद्ध उवाच:
पय़स्विनीं घृतिनीमत्युदारां; समृद्धिनीं वेगिनीं दुर्विगाह्याम् |
८१ क
सिद्ध उवाच:
गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास्ते विवुधैः समत्वम् ||
८१ ख
सिद्ध उवाच:
अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा; यशस्विनी वृहती विश्वरूपा |
८२ क
सिद्ध उवाच:
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च; निषेविता सर्वकामैर्युनक्ति ||
८२ ख
सिद्ध उवाच:
ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् |
८३ क
सिद्ध उवाच:
त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ||
८३ ख
सिद्ध उवाच:
यो वत्स्यति द्रक्ष्यति वापि मर्त्य; स्तस्मै प्रय़च्छन्ति सुखानि देवाः |
८४ क
सिद्ध उवाच:
तद्भाविताः स्पर्शने दर्शने य; स्तस्मै देवा गतिमिष्टां दिशन्ति ||
८४ ख
सिद्ध उवाच:
दक्षां पृथ्वीं वृहतीं विप्रकृष्टां; शिवामृतां सुरसां सुप्रसन्नाम् |
८५ क
सिद्ध उवाच:
विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये त्रिदिवं गतास्ते ||
८५ ख
सिद्ध उवाच:
ख्यातिर्यस्याः खं दिवं गां च नित्यं; पुरा दिशो विदिशश्चावतस्थे |
८६ क
सिद्ध उवाच:
तस्या जलं सेव्य सरिद्वराय़ा; मर्त्याः सर्वे कृतकृत्या भवन्ति ||
८६ ख
सिद्ध उवाच:
इय़ं गङ्गेति निय़तं प्रतिष्ठा; गुहस्य रुक्मस्य च गर्भय़ोषा |
८७ क
सिद्ध उवाच:
प्रातस्त्रिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा विय़तो विश्वतोय़ा ||
८७ ख
सिद्ध उवाच:
सुतावनीध्रस्य हरस्य भार्या; दिवो भुवश्चापि कक्ष्यानुरूपा |
८८ क
सिद्ध उवाच:
भव्या पृथिव्या भाविनी भाति राज; न्गङ्गा लोकानां पुण्यदा वै त्रय़ाणाम् ||
८८ ख
सिद्ध उवाच:
मधुप्रवाहा घृतरागोद्धृताभि; र्महोर्मिभिः शोभिता व्राह्मणैश्च |
८९ क
सिद्ध उवाच:
दिवश्च्युता शिरसात्ता भवेन; गङ्गावनीध्रास्त्रिदिवस्य माला ||
८९ ख
सिद्ध उवाच:
योनिर्वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशोदा |
९० क
सिद्ध उवाच:
विश्वावती चाकृतिरिष्टिरिद्धा; गङ्गोक्षितानां भुवनस्य पन्थाः ||
९० ख
सिद्ध उवाच:
क्षान्त्या मह्या गोपने धारणे च; दीप्त्या कृशानोस्तपनस्य चैव |
९१ क
सिद्ध उवाच:
तुल्या गङ्गा संमता व्राह्मणानां; गुहस्य व्रह्मण्यतय़ा च नित्यम् ||
९१ ख
सिद्ध उवाच:
ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतोय़ां मनसापि लोके |
९२ क
सिद्ध उवाच:
सर्वात्मना जाह्नवीं ये प्रपन्ना; स्ते व्रह्मणः सदनं सम्प्रय़ाताः ||
९२ ख
सिद्ध उवाच:
लोकानिमान्नय़ति या जननीव पुत्रा; न्सर्वात्मना सर्वगुणोपपन्ना |
९३ क
सिद्ध उवाच:
स्वस्थानमिष्टमिह व्राह्ममभीप्समानै; र्गङ्गा सदैवात्मवशैरुपास्या ||
९३ ख
सिद्ध उवाच:
उस्रां जुष्टां मिषतीं विश्वतोय़ा; मिरां वज्रीं रेवतीं भूधराणाम् |
९४ क
सिद्ध उवाच:
शिष्टाश्रय़ाममृतां व्रह्मकान्तां; गङ्गां श्रय़ेदात्मवान्सिद्धिकामः ||
९४ ख
सिद्ध उवाच:
प्रसाद्य देवान्सविभून्समस्ता; न्भगीरथस्तपसोग्रेण गङ्गाम् |
९५ क
सिद्ध उवाच:
गामानय़त्तामभिगम्य शश्व; न्पुमान्भय़ं नेह नामुत्र विद्यात् ||
९५ ख
सिद्ध उवाच:
उदाहृतः सर्वथा ते गुणानां; मय़ैकदेशः प्रसमीक्ष्य वुद्ध्या |
९६ क
सिद्ध उवाच:
शक्तिर्न मे काचिदिहास्ति वक्तुं; गुणान्सर्वान्परिमातुं तथैव ||
९६ ख
सिद्ध उवाच:
मेरोः समुद्रस्य च सर्वरत्नैः; सङ्ख्योपलानामुदकस्य वापि |
९७ क
सिद्ध उवाच:
वक्तुं शक्यं नेह गङ्गाजलानां; गुणाख्यानं परिमातुं तथैव ||
९७ ख
सिद्ध उवाच:
तस्मादिमान्परय़ा श्रद्धय़ोक्ता; न्गुणान्सर्वाञ्जाह्नवीजांस्तथैव |
९८ क
सिद्ध उवाच:
भजेद्वाचा मनसा कर्मणा च; भक्त्या युक्तः परय़ा श्रद्दधानः ||
९८ ख
सिद्ध उवाच:
लोकानिमांस्त्रीन्यशसा वितत्य; सिद्धिं प्राप्य महतीं तां दुरापाम् |
९९ क
सिद्ध उवाच:
गङ्गाकृतानचिरेणैव लोका; न्यथेष्टमिष्टान्विचरिष्यसि त्वम् ||
९९ ख
सिद्ध उवाच:
तव मम च गुणैर्महानुभावा; जुषतु मतिं सततं स्वधर्मय़ुक्तैः |
१०० क