chevron_left कर्ण पर्व अध्याय २७
सञ्जय़ उवाच:
नित्यमेव सृगालस्त्वं नित्यं सिंहो धनञ्जय़ः |
५० क
सञ्जय़ उवाच:
वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे ||
५० ख
सञ्जय़ उवाच:
यथाखुः स्याद्विडालश्च श्वा व्याघ्रश्च वलावले |
५१ क
सञ्जय़ उवाच:
यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ ||
५१ ख
सञ्जय़ उवाच:
यथानृतं च सत्यं च यथा चापि विषामृते |
५२ क
सञ्जय़ उवाच:
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ||
५२ ख
सञ्जय़ उवाच:
अधिक्षिप्तस्तु राधेय़ः शल्येनामिततेजसा |
५३ क
सञ्जय़ उवाच:
शल्यमाह सुसङ्क्रुद्धो वाक्षल्यमवधारय़न् ||
५३ ख
सञ्जय़ उवाच:
गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः |
५४ क
सञ्जय़ उवाच:
त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान् ||
५४ ख
सञ्जय़ उवाच:
अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् |
५५ क
सञ्जय़ उवाच:
अहं शल्याभिजानामि न त्वं जानासि तत्तथा ||
५५ ख
सञ्जय़ उवाच:
एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे |
५६ क
सञ्जय़ उवाच:
जानन्नेवाह्वय़े युद्धे शल्य नाग्निं पतङ्गवत् ||
५६ ख
सञ्जय़ उवाच:
अस्ति चाय़मिषुः शल्य सुपुङ्खो रक्तभोजनः |
५७ क
सञ्जय़ उवाच:
एकतूणीशय़ः पत्री सुधौतः समलङ्कृतः ||
५७ ख
सञ्जय़ उवाच:
शेते चन्दनपूर्णेन पूजितो वहुलाः समाः |
५८ क
सञ्जय़ उवाच:
आहेय़ो विषवानुग्रो नराश्वद्विपसङ्घहा ||
५८ ख
सञ्जय़ उवाच:
एकवीरो महारौद्रस्तनुत्रास्थिविदारणः |
५९ क
सञ्जय़ उवाच:
निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ||
५९ ख
सञ्जय़ उवाच:
तमहं जातु नास्येय़मन्यस्मिन्फल्गुनादृते |
६० क
सञ्जय़ उवाच:
कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे ||
६० ख
सञ्जय़ उवाच:
तेनाहमिषुणा शल्य वासुदेवधनञ्जय़ौ |
६१ क
सञ्जय़ उवाच:
योत्स्ये परमसङ्क्रुद्धस्तत्कर्म सदृशं मम ||
६१ ख
सञ्जय़ उवाच:
सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता |
६२ क
सञ्जय़ उवाच:
सर्वेषां पाण्डुपुत्राणां जय़ः पार्थे प्रतिष्ठितः |
६२ ख
सञ्जय़ उवाच:
उभय़ं तत्समासाद्य कोऽतिवर्तितुमर्हति ||
६२ ग
सञ्जय़ उवाच:
तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ |
६३ क
सञ्जय़ उवाच:
मामेकमभिसंय़ातौ सुजातं शल्य पश्य मे ||
६३ ख
सञ्जय़ उवाच:
पितृष्वसामातुलजौ भ्रातरावपराजितौ |
६४ क
सञ्जय़ उवाच:
मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मय़ा ||
६४ ख
सञ्जय़ उवाच:
अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ |
६५ क
सञ्जय़ उवाच:
भीरूणां त्रासजननौ शल्य हर्षकरौ मम ||
६५ ख
सञ्जय़ उवाच:
त्वं तु दुष्प्रकृतिर्मूढो महाय़ुद्धेष्वकोविदः |
६६ क
सञ्जय़ उवाच:
भय़ावतीर्णः सन्त्रासादवद्धं वहु भाषसे ||
६६ ख
सञ्जय़ उवाच:
संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज |
६७ क
सञ्जय़ उवाच:
तौ हत्वा समरे हन्ता त्वामद्धा सहवान्धवम् ||
६७ ख
सञ्जय़ उवाच:
पापदेशज दुर्वुद्धे क्षुद्र क्षत्रिय़पांसन |
६८ क
सञ्जय़ उवाच:
सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषय़न्नसि ||
६८ ख
सञ्जय़ उवाच:
तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ |
६९ क
सञ्जय़ उवाच:
नाहं विभेमि कृष्णाभ्यां विजानन्नात्मनो वलम् ||
६९ ख
सञ्जय़ उवाच:
वासुदेवसहस्रं वा फल्गुनानां शतानि च |
७० क
सञ्जय़ उवाच:
अहमेको हनिष्यामि जोषमास्स्व कुदेशज ||
७० ख
सञ्जय़ उवाच:
स्त्रिय़ो वालाश्च वृद्धाश्च प्राय़ः क्रीडागता जनाः |
७१ क
सञ्जय़ उवाच:
या गाथाः सम्प्रगाय़न्ति कुर्वन्तोऽध्ययनं यथा |
७१ ख
सञ्जय़ उवाच:
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ||
७१ ग
सञ्जय़ उवाच:
व्राह्मणैः कथिताः पूर्वं यथावद्राजसंनिधौ |
७२ क
सञ्जय़ उवाच:
श्रुत्वा चैकमना मूढ क्षम वा व्रूहि वोत्तरम् ||
७२ ख
सञ्जय़ उवाच:
मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः |
७३ क
सञ्जय़ उवाच:
मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे ||
७३ ख
सञ्जय़ उवाच:
दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः |
७४ क
सञ्जय़ उवाच:
यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ||
७४ ख
सञ्जय़ उवाच:
पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः |
७५ क
सञ्जय़ उवाच:
जामाता दुहिता भ्राता नप्ता ते ते च वान्धवाः ||
७५ ख
सञ्जय़ उवाच:
वय़स्याभ्यागताश्चान्ये दासीदासं च सङ्गतम् |
७६ क
सञ्जय़ उवाच:
पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वय़ेच्छय़ा ||
७६ ख
सञ्जय़ उवाच:
येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा |
७७ क
सञ्जय़ उवाच:
पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च ||
७७ ख
सञ्जय़ उवाच:
यानि चैवाप्यवद्धानि प्रवर्तन्ते च कामतः |
७८ क
सञ्जय़ उवाच:
कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत् ||
७८ ख
सञ्जय़ उवाच:
मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु |
७९ क
सञ्जय़ उवाच:
नापि वैरं न सौहार्दं मद्रकेषु समाचरेत् ||
७९ ख
सञ्जय़ उवाच:
मद्रके सङ्गतं नास्ति मद्रको हि सचापलः |
८० क
सञ्जय़ उवाच:
मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च ||
८० ख
सञ्जय़ उवाच:
राजय़ाजकय़ाज्येन नष्टं दत्तं हविर्भवेत् |
८२ क
सञ्जय़ उवाच:
शूद्रसंस्कारको विप्रो यथा याति पराभवम् |
८२ ख
सञ्जय़ उवाच:
तथा व्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् ||
८२ ग
सञ्जय़ उवाच:
मद्रके सङ्गतं नास्ति हतं वृश्चिकतो विषम् |
८३ क
सञ्जय़ उवाच:
आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत् ||
८३ ख
सञ्जय़ उवाच:
इति वृश्चिकदष्टस्य नानाविषहतस्य च |
८४ क
सञ्जय़ उवाच:
कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते |
८४ ख
सञ्जय़ उवाच:
एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः ||
८४ ग
सञ्जय़ उवाच:
वासांस्युत्सृज्य नृत्यन्ति स्त्रिय़ो या मद्यमोहिताः |
८५ क
सञ्जय़ उवाच:
मिथुनेऽसंय़ताश्चापि यथाकामचराश्च ताः |
८५ ख
सञ्जय़ उवाच:
तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति ||
८५ ग
सञ्जय़ उवाच:
यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके |
८६ क
सञ्जय़ उवाच:
तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः |
८६ ख
सञ्जय़ उवाच:
त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ||
८६ ग
सञ्जय़ उवाच:
सुवीरकं याच्यमाना मद्रका कषति स्फिजौ |
८७ क
सञ्जय़ उवाच:
अदातुकामा वचनमिदं वदति दारुणम् ||
८७ ख
सञ्जय़ उवाच:
मा मा सुवीरकं कश्चिद्याचतां दय़ितो मम |
८८ क
सञ्जय़ उवाच:
पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम् ||
८८ ख
सञ्जय़ उवाच:
नार्यो वृहत्यो निर्ह्रीका मद्रकाः कम्वलावृताः |
८९ क
सञ्जय़ उवाच:
घस्मरा नष्टशौचाश्च प्राय़ इत्यनुशुश्रुम ||
८९ ख
सञ्जय़ उवाच:
एवमादि मय़ान्यैर्वा शक्यं वक्तुं भवेद्वहु |
९० क
सञ्जय़ उवाच:
आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु ||
९० ख
सञ्जय़ उवाच:
मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह |
९१ क
सञ्जय़ उवाच:
पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ||
९१ ख
सञ्जय़ उवाच:
एष मुख्यतमो धर्मः क्षत्रिय़स्येति नः श्रुतम् |
९२ क
सञ्जय़ उवाच:
यदाजौ निहतः शेते सद्भिः समभिपूजितः ||
९२ ख
सञ्जय़ उवाच:
आय़ुधानां सम्पराय़े यन्मुच्येय़महं ततः |
९३ क
सञ्जय़ उवाच:
न मे स प्रथमः कल्पो निधने स्वर्गमिच्छतः ||
९३ ख
सञ्जय़ उवाच:
सोऽहं प्रिय़ः सखा चास्मि धार्तराष्ट्रस्य धीमतः |
९४ क
सञ्जय़ उवाच:
तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ||
९४ ख
सञ्जय़ उवाच:
व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज |
९५ क
सञ्जय़ उवाच:
यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ||
९५ ख
सञ्जय़ उवाच:
कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि |
९६ क
सञ्जय़ उवाच:
सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ||
९६ ख
सञ्जय़ उवाच:
सारङ्ग इव घर्मार्तः कामं विलप शुष्य च |
९७ क
सञ्जय़ उवाच:
नाहं भीषय़ितुं शक्यः क्षत्रवृत्ते व्यवस्थितः ||
९७ ख