chevron_left शल्य पर्व अध्याय २७
सञ्जय़ उवाच:
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ||
४७ ख
सञ्जय़ उवाच:
निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा |
४८ क
सञ्जय़ उवाच:
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं तस्य मातुलः ||
४८ ख
सञ्जय़ उवाच:
अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः |
४९ क
सञ्जय़ उवाच:
वृक्षात्फलमिवोद्धृत्य लगुडेन प्रमाथिना ||
४९ ख
सञ्जय़ उवाच:
एवमुक्त्वा महाराज सहदेवो महावलः |
५० क
सञ्जय़ उवाच:
सङ्क्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह ||
५० ख
सञ्जय़ उवाच:
अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः |
५१ क
सञ्जय़ उवाच:
विकृष्य वलवच्चापं क्रोधेन प्रहसन्निव ||
५१ ख
सञ्जय़ उवाच:
शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः |
५२ क
सञ्जय़ उवाच:
छत्रं ध्वजं धनुश्चास्य छित्त्वा सिंह इवानदत् ||
५२ ख
सञ्जय़ उवाच:
छिन्नध्वजधनुश्छत्रः सहदेवेन सौवलः |
५३ क
सञ्जय़ उवाच:
ततो विद्धश्च वहुभिः सर्वमर्मसु साय़कैः ||
५३ ख
सञ्जय़ उवाच:
ततो भूय़ो महाराज सहदेवः प्रतापवान् |
५४ क
सञ्जय़ उवाच:
शकुनेः प्रेषय़ामास शरवृष्टिं दुरासदाम् ||
५४ ख
सञ्जय़ उवाच:
ततस्तु क्रुद्धः सुवलस्य पुत्रो; माद्रीसुतं सहदेवं विमर्दे |
५५ क
सञ्जय़ उवाच:
प्रासेन जाम्वूनदभूषणेन; जिघांसुरेकोऽभिपपात शीघ्रम् ||
५५ ख
सञ्जय़ उवाच:
माद्रीसुतस्तस्य समुद्यतं तं; प्रासं सुवृत्तौ च भुजौ रणाग्रे |
५६ क
सञ्जय़ उवाच:
भल्लैस्त्रिभिर्युगपत्सञ्चकर्त; ननाद चोच्चैस्तरसाजिमध्ये ||
५६ ख
सञ्जय़ उवाच:
तस्याशुकारी सुसमाहितेन; सुवर्णपुङ्खेन दृढाय़सेन |
५७ क
सञ्जय़ उवाच:
भल्लेन सर्वावरणातिगेन; शिरः शरीरात्प्रममाथ भूय़ः ||
५७ ख
सञ्जय़ उवाच:
शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन |
५८ क
सञ्जय़ उवाच:
हृतोत्तमाङ्गो युधि पाण्डवेन; पपात भूमौ सुवलस्य पुत्रः ||
५८ ख
सञ्जय़ उवाच:
स तच्छिरो वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन |
५९ क
सञ्जय़ उवाच:
प्रावेरय़त्कुपितः पाण्डुपुत्रो; यत्तत्कुरूणामनय़स्य मूलम् ||
५९ ख
सञ्जय़ उवाच:
हृतोत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शय़ानं रुधिरार्द्रगात्रम् |
६० क
सञ्जय़ उवाच:
योधास्त्वदीय़ा भय़नष्टसत्त्वा; दिशः प्रजग्मुः प्रगृहीतशस्त्राः ||
६० ख
सञ्जय़ उवाच:
विप्रद्रुताः शुष्कमुखा विसञ्ज्ञा; गाण्डीवघोषेण समाहताश्च |
६१ क
सञ्जय़ उवाच:
भय़ार्दिता भग्नरथाश्वनागाः; पदातय़श्चैव सधार्तराष्ट्राः ||
६१ ख
सञ्जय़ उवाच:
ततो रथाच्छकुनिं पातय़ित्वा; मुदान्विता भारत पाण्डवेय़ाः |
६२ क
सञ्जय़ उवाच:
शङ्खान्प्रदध्मुः समरे प्रहृष्टाः; सकेशवाः सैनिकान्हर्षय़न्तः ||
६२ ख
सञ्जय़ उवाच:
तं चापि सर्वे प्रतिपूजय़न्तो; हृष्टा व्रुवाणाः सहदेवमाजौ |
६३ क
सञ्जय़ उवाच:
दिष्ट्या हतो नैकृतिको दुरात्मा; सहात्मजो वीर रणे त्वय़ेति ||
६३ ख