सिद्ध उवाच:
अभिगतजनवत्सला हि गङ्गा; भजति युनक्ति सुखैश्च भक्तिमन्तम् ||
१०० ख
भीष्म उवाच:
इति परममतिर्गुणाननेका; ञ्शिलरतय़े त्रिपथानुय़ोगरूपान् |
१०१ क
भीष्म उवाच:
वहुविधमनुशास्य तथ्यरूपा; न्गगनतलं द्युतिमान्विवेश सिद्धः ||
१०१ ख
भीष्म उवाच:
शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्वोधितस्तदा |
१०२ क
भीष्म उवाच:
गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम् ||
१०२ ख
भीष्म उवाच:
तस्मात्त्वमपि कौन्तेय़ भक्त्या परमय़ा युतः |
१०३ क
भीष्म उवाच:
गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ||
१०३ ख
वैशम्पाय़न उवाच:
श्रुत्वेतिहासं भीष्मोक्तं गङ्गाय़ाः स्तवसंय़ुतम् |
१०४ क
वैशम्पाय़न उवाच:
युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह ||
१०४ ख
वैशम्पाय़न उवाच:
इतिहासमिमं पुण्यं शृणुय़ाद्यः पठेत वा |
१०५ क
वैशम्पाय़न उवाच:
गङ्गाय़ाः स्तवसंय़ुक्तं स मुच्येत्सर्वकिल्विषैः ||
१०५ ख