chevron_left शान्ति पर्व अध्याय २७
युधिष्ठिर उवाच:
अभिमन्यौ हते वाले द्रौपद्यास्तनय़ेषु च |
१ क
युधिष्ठिर उवाच:
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ||
१ ख
युधिष्ठिर उवाच:
वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे |
२ क
युधिष्ठिर उवाच:
तथान्येषु नरेन्द्रेषु नानादेश्येषु संय़ुगे ||
२ ख
युधिष्ठिर उवाच:
न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम् |
३ क
युधिष्ठिर उवाच:
राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम् ||
३ ख
युधिष्ठिर उवाच:
यस्याङ्के क्रीडमानेन मय़ा वै परिवर्तितम् |
४ क
युधिष्ठिर उवाच:
स मय़ा राज्यलुव्धेन गाङ्गेय़ो विनिपातितः ||
४ ख
युधिष्ठिर उवाच:
यदा ह्येनं विघूर्णन्तमपश्यं पार्थसाय़कैः |
५ क
युधिष्ठिर उवाच:
कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् ||
५ ख
युधिष्ठिर उवाच:
जीर्णं सिंहमिव प्रांशुं नरसिंहं पितामहम् |
६ क
युधिष्ठिर उवाच:
कीर्यमाणं शरैस्तीक्ष्णैर्दृष्ट्वा मे व्यथितं मनः ||
६ ख
युधिष्ठिर उवाच:
प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः |
७ क
युधिष्ठिर उवाच:
घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ||
७ ख
युधिष्ठिर उवाच:
यः स वाणधनुष्पाणिर्योधय़ामास भार्गवम् |
८ क
युधिष्ठिर उवाच:
वहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ||
८ ख
युधिष्ठिर उवाच:
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः |
९ क
युधिष्ठिर उवाच:
कन्यार्थमाह्वय़द्वीरो रथेनैकेन संय़ुगे ||
९ ख
युधिष्ठिर उवाच:
येन चोग्राय़ुधो राजा चक्रवर्ती दुरासदः |
१० क
युधिष्ठिर उवाच:
दग्धः शस्त्रप्रतापेन स मय़ा युधि घातितः ||
१० ख
युधिष्ठिर उवाच:
स्वय़ं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् |
११ क
युधिष्ठिर उवाच:
न वाणैः पातय़ामास सोऽर्जुनेन निपातितः ||
११ ख
युधिष्ठिर उवाच:
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् |
१२ क
युधिष्ठिर उवाच:
तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम |
१२ ख
युधिष्ठिर उवाच:
येन संवर्धिता वाला येन स्म परिरक्षिताः ||
१२ ग
युधिष्ठिर उवाच:
स मय़ा राज्यलुव्धेन पापेन गुरुघातिना |
१३ क
युधिष्ठिर उवाच:
अल्पकालस्य राज्यस्य कृते मूढेन घातितः ||
१३ ख
युधिष्ठिर उवाच:
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः |
१४ क
युधिष्ठिर उवाच:
अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ||
१४ ख
युधिष्ठिर उवाच:
तन्मे दहति गात्राणि यन्मां गुरुरभाषत |
१५ क
युधिष्ठिर उवाच:
सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः |
१५ ख
युधिष्ठिर उवाच:
सत्यं मा मर्शय़न्विप्रो मय़ि तत्परिपृष्टवान् ||
१५ ग
युधिष्ठिर उवाच:
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मय़ा |
१६ क
युधिष्ठिर उवाच:
सुभृशं राज्यलुव्धेन पापेन गुरुघातिना ||
१६ ख
युधिष्ठिर उवाच:
सत्यकञ्चुकमास्थाय़ मय़ोक्तो गुरुराहवे |
१७ क
युधिष्ठिर उवाच:
अश्वत्थामा हत इति कुञ्जरे विनिपातिते |
१७ ख
युधिष्ठिर उवाच:
कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम् ||
१७ ग
युधिष्ठिर उवाच:
अघातय़ं च यत्कर्णं समरेष्वपलाय़िनम् |
१८ क
युधिष्ठिर उवाच:
ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः ||
१८ ख
युधिष्ठिर उवाच:
अभिमन्युं च यद्वालं जातं सिंहमिवाद्रिषु |
१९ क
युधिष्ठिर उवाच:
प्रावेशय़महं लुव्धो वाहिनीं द्रोणपालिताम् ||
१९ ख
युधिष्ठिर उवाच:
तदाप्रभृति वीभत्सुं न शक्नोमि निरीक्षितुम् |
२० क
युधिष्ठिर उवाच:
कृष्णं च पुण्डरीकाक्षं किल्विषी भ्रूणहा यथा ||
२० ख
युधिष्ठिर उवाच:
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम् |
२१ क
युधिष्ठिर उवाच:
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव ||
२१ ख
युधिष्ठिर उवाच:
सोऽहमागस्करः पापः पृथिवीनाशकारकः |
२२ क
युधिष्ठिर उवाच:
आसीन एवमेवेदं शोषय़िष्ये कलेवरम् ||
२२ ख
युधिष्ठिर उवाच:
प्राय़ोपविष्टं जानीध्वमद्य मां गुरुघातिनम् |
२३ क
युधिष्ठिर उवाच:
जातिष्वन्यास्वपि यथा न भवेय़ं कुलान्तकृत् ||
२३ ख
युधिष्ठिर उवाच:
न भोक्ष्ये न च पानीय़मुपय़ोक्ष्ये कथञ्चन |
२४ क
युधिष्ठिर उवाच:
शोषय़िष्ये प्रिय़ान्प्राणानिहस्थोऽहं तपोधन ||
२४ ख
युधिष्ठिर उवाच:
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः |
२५ क
युधिष्ठिर उवाच:
सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् ||
२५ ख
वैशम्पाय़न उवाच:
तमेवंवादिनं पार्थं वन्धुशोकेन विह्वलम् |
२६ क
वैशम्पाय़न उवाच:
मैवमित्यव्रवीद्व्यासो निगृह्य मुनिसत्तमः ||
२६ ख
वैशम्पाय़न उवाच:
अतिवेलं महाराज न शोकं कर्तुमर्हसि |
२७ क
वैशम्पाय़न उवाच:
पुनरुक्तं प्रवक्ष्यामि दिष्टमेतदिति प्रभो ||
२७ ख
वैशम्पाय़न उवाच:
संय़ोगा विप्रय़ोगाश्च जातानां प्राणिनां ध्रुवम् |
२८ क
वैशम्पाय़न उवाच:
वुद्वुदा इव तोय़ेषु भवन्ति न भवन्ति च ||
२८ ख
वैशम्पाय़न उवाच:
सर्वे क्षय़ान्ता निचय़ाः पतनान्ताः समुच्छ्रय़ाः |
२९ क
वैशम्पाय़न उवाच:
संय़ोगा विप्रय़ोगान्ता मरणान्तं हि जीवितम् ||
२९ ख
वैशम्पाय़न उवाच:
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदय़म् |
३० क
वैशम्पाय़न उवाच:
भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत ||
३० ख
वैशम्पाय़न उवाच:
नालं सुखाय़ सुहृदो नालं दुःखाय़ दुर्हृदः |
३१ क
वैशम्पाय़न उवाच:
न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ||
३१ ख
वैशम्पाय़न उवाच:
यथा सृष्टोऽसि कौन्तेय़ धात्रा कर्मसु तत्कुरु |
३२ क
वैशम्पाय़न उवाच:
अत एव हि सिद्धिस्ते नेशस्त्वमात्मना नृप ||
३२ ख