chevron_left अनुशासन पर्व अध्याय २७
वैशम्पाय़न उवाच:
वृहस्पतिसमं वुद्ध्या क्षमय़ा व्रह्मणः समम् |
१ क
वैशम्पाय़न उवाच:
पराक्रमे शक्रसममादित्यसमतेजसम् ||
१ ख
वैशम्पाय़न उवाच:
गाङ्गेय़मर्जुनेनाजौ निहतं भूरिवर्चसम् |
२ क
वैशम्पाय़न उवाच:
भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः ||
२ ख
वैशम्पाय़न उवाच:
शय़ानं वीरशय़ने कालाकाङ्क्षिणमच्युतम् |
३ क
वैशम्पाय़न उवाच:
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षय़ः ||
३ ख
वैशम्पाय़न उवाच:
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः |
४ क
वैशम्पाय़न उवाच:
अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वाय़ुरात्मवान् ||
४ ख
वैशम्पाय़न उवाच:
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः |
५ क
वैशम्पाय़न उवाच:
उशना वृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ||
५ ख
वैशम्पाय़न उवाच:
दुर्वासा जमदग्निश्च मार्कण्डेय़ोऽथ गालवः |
६ क
वैशम्पाय़न उवाच:
भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा ||
६ ख
वैशम्पाय़न उवाच:
स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः |
७ क
वैशम्पाय़न उवाच:
नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः ||
७ ख
वैशम्पाय़न उवाच:
नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः |
८ क
वैशम्पाय़न उवाच:
जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादय़ः |
८ ख
वैशम्पाय़न उवाच:
समागता महात्मानो भीष्मं द्रष्टुं महर्षय़ः ||
८ ग
वैशम्पाय़न उवाच:
तेषां महात्मनां पूजामागतानां युधिष्ठिरः |
९ क
वैशम्पाय़न उवाच:
भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः ||
९ ख
वैशम्पाय़न उवाच:
ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षय़ः |
१० क
वैशम्पाय़न उवाच:
भीष्माश्रिताः सुमधुराः सर्वेन्द्रिय़मनोहराः ||
१० ख
वैशम्पाय़न उवाच:
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् |
११ क
वैशम्पाय़न उवाच:
मेने दिविस्थमात्मानं तुष्ट्या परमय़ा युतः ||
११ ख
वैशम्पाय़न उवाच:
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षय़ः |
१२ क
वैशम्पाय़न उवाच:
अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ||
१२ ख
वैशम्पाय़न उवाच:
तानृषीन्सुमहाभागानन्तर्धानगतानपि |
१३ क
वैशम्पाय़न उवाच:
पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ||
१३ ख
वैशम्पाय़न उवाच:
प्रसन्नमनसः सर्वे गाङ्गेय़ं कुरुसत्तमाः |
१४ क
वैशम्पाय़न उवाच:
उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः ||
१४ ख
वैशम्पाय़न उवाच:
प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः |
१५ क
वैशम्पाय़न उवाच:
प्रकाशन्तो दिशः सर्वा विस्मय़ं परमं यय़ुः ||
१५ ख
वैशम्पाय़न उवाच:
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते |
१६ क
वैशम्पाय़न उवाच:
पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रय़ाः ||
१६ ख
वैशम्पाय़न उवाच:
कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः |
१७ क
वैशम्पाय़न उवाच:
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ||
१७ ख
वैशम्पाय़न उवाच:
के देशाः के जनपदा आश्रमाः के च पर्वताः |
१८ क
वैशम्पाय़न उवाच:
प्रकृष्टाः पुण्यतः काश्च ज्ञेय़ा नद्यः पितामह ||
१८ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१९ क
भीष्म उवाच:
शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ||
१९ ख
भीष्म उवाच:
इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम् |
२० क
भीष्म उवाच:
असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ||
२० ख
भीष्म उवाच:
शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः |
२१ क
भीष्म उवाच:
कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा ||
२१ ख
भीष्म उवाच:
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः |
२२ क
भीष्म उवाच:
चक्रतुर्वेदसम्वद्धास्तच्छेषकृतलक्षणाः ||
२२ ख
भीष्म उवाच:
शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः |
२३ क
भीष्म उवाच:
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ||
२३ ख
शिलवृत्तिरु उवाच:
के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः |
२४ क
शिलवृत्तिरु उवाच:
प्रकृष्टाः पुण्यतः काश्च ज्ञेय़ा नद्यस्तदुच्यताम् ||
२४ ख
सिद्ध उवाच:
ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः |
२५ क
सिद्ध उवाच:
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ||
२५ ख
सिद्ध उवाच:
तपसा व्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः |
२६ क
सिद्ध उवाच:
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ||
२६ ख
सिद्ध उवाच:
स्पृष्टानि येषां गाङ्गेय़ैस्तोय़ैर्गात्राणि देहिनाम् |
२७ क
सिद्ध उवाच:
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीय़ते ||
२७ ख
सिद्ध उवाच:
सर्वाणि येषां गाङ्गेय़ैस्तोय़ैः कृत्यानि देहिनाम् |
२८ क
सिद्ध उवाच:
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः ||
२८ ख
सिद्ध उवाच:
पूर्वे वय़सि कर्माणि कृत्वा पापानि ये नराः |
२९ क
सिद्ध उवाच:
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ||
२९ ख
सिद्ध उवाच:
स्नातानां शुचिभिस्तोय़ैर्गाङ्गेय़ैः प्रय़तात्मनाम् |
३० क
सिद्ध उवाच:
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ||
३० ख
सिद्ध उवाच:
यावदस्थि मनुष्यस्य गङ्गातोय़ेषु तिष्ठति |
३१ क
सिद्ध उवाच:
तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीय़ते ||
३१ ख
सिद्ध उवाच:
अपहत्य तमस्तीव्रं यथा भात्युदय़े रविः |
३२ क
सिद्ध उवाच:
तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ||
३२ ख
सिद्ध उवाच:
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा |
३३ क
सिद्ध उवाच:
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः ||
३३ ख
सिद्ध उवाच:
वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः |
३४ क
सिद्ध उवाच:
क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् ||
३४ ख
सिद्ध उवाच:
यथा हीनं नभोऽर्केण भूः शैलैः खं च वाय़ुना |
३५ क
सिद्ध उवाच:
तथा देशा दिशश्चैव गङ्गाहीना न संशय़ः ||
३५ ख
सिद्ध उवाच:
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते |
३६ क
सिद्ध उवाच:
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ||
३६ ख
सिद्ध उवाच:
यस्तु सूर्येण निष्टप्तं गाङ्गेय़ं पिवते जलम् |
३७ क
सिद्ध उवाच:
गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते ||
३७ ख
सिद्ध उवाच:
इन्दुव्रतसहस्रं तु चरेद्यः काय़शोधनम् |
३८ क
सिद्ध उवाच:
पिवेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ||
३८ ख
सिद्ध उवाच:
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् |
३९ क
सिद्ध उवाच:
मासमेकं तु गङ्गाय़ां समौ स्यातां न वा समौ ||
३९ ख
सिद्ध उवाच:
लम्वेतावाक्षिरा यस्तु युगानामय़ुतं पुमान् |
४० क
सिद्ध उवाच:
तिष्ठेद्यथेष्टं यश्चापि गङ्गाय़ां स विशिष्यते ||
४० ख
सिद्ध उवाच:
अग्नौ प्राप्तं प्रधूय़ेत यथा तूलं द्विजोत्तम |
४१ क
सिद्ध उवाच:
तथा गङ्गावगाढस्य सर्वं पापं प्रधूय़ते ||
४१ ख
सिद्ध उवाच:
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् |
४२ क
सिद्ध उवाच:
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ||
४२ ख
सिद्ध उवाच:
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् |
४३ क
सिद्ध उवाच:
गङ्गाय़ा दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ||
४३ ख
सिद्ध उवाच:
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये |
४४ क
सिद्ध उवाच:
तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ||
४४ ख
सिद्ध उवाच:
प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् |
४५ क
सिद्ध उवाच:
पततो नरके गङ्गा संश्रितान्प्रेत्य तारय़ेत् ||
४५ ख
सिद्ध उवाच:
ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः |
४६ क
सिद्ध उवाच:
येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः ||
४६ ख
सिद्ध उवाच:
विनय़ाचारहीनाश्च अशिवाश्च नराधमाः |
४७ क
सिद्ध उवाच:
ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः ||
४७ ख
सिद्ध उवाच:
यथा सुराणाममृतं पितॄणां च यथा स्वधा |
४८ क
सिद्ध उवाच:
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ||
४८ ख
सिद्ध उवाच:
उपासते यथा वाला मातरं क्षुधय़ार्दिताः |
४९ क
सिद्ध उवाच:
श्रेय़स्कामास्तथा गङ्गामुपासन्तीह देहिनः ||
४९ ख
सिद्ध उवाच:
स्वाय़म्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते |
५० क