व्राह्मण उवाच:
सङ्कल्पदंशमशकं शोकहर्षहिमातपम् |
१ क
व्राह्मण उवाच:
मोहान्धकारतिमिरं लोभव्यालसरीसृपम् ||
१ ख
व्राह्मण उवाच:
विषय़ैकात्ययाध्वानं कामक्रोधविरोधकम् |
२ क
व्राह्मण उवाच:
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ||
२ ख
व्राह्मण्यु उवाच:
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः |
३ क
व्राह्मण्यु उवाच:
गिरय़ः पर्वताश्चैव किय़त्यध्वनि तद्वनम् ||
३ ख
व्राह्मण उवाच:
न तदस्ति पृथग्भावे किञ्चिदन्यत्ततः समम् |
४ क
व्राह्मण उवाच:
न तदस्त्यपृथग्भावे किञ्चिद्दूरतरं ततः ||
४ ख
व्राह्मण उवाच:
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति वृहत्तरम् |
५ क
व्राह्मण उवाच:
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ||
५ ख
व्राह्मण उवाच:
न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः |
६ क
व्राह्मण उवाच:
न च विभ्यति केषाञ्चित्तेभ्यो विभ्यति के च न ||
६ ख
व्राह्मण उवाच:
तस्मिन्वने सप्त महाद्रुमाश्च; फलानि सप्तातिथय़श्च सप्त |
७ क
व्राह्मण उवाच:
सप्ताश्रमाः सप्त समाधय़श्च; दीक्षाश्च सप्तैतदरण्यरूपम् ||
७ ख
व्राह्मण उवाच:
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च |
८ क
व्राह्मण उवाच:
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||
८ ख
व्राह्मण उवाच:
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च |
९ क
व्राह्मण उवाच:
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||
९ ख
व्राह्मण उवाच:
चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च |
१० क
व्राह्मण उवाच:
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||
१० ख
व्राह्मण उवाच:
शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च |
११ क
व्राह्मण उवाच:
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||
११ ख
व्राह्मण उवाच:
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च |
१२ क
व्राह्मण उवाच:
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||
१२ ख
व्राह्मण उवाच:
वहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च |
१३ क
व्राह्मण उवाच:
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ||
१३ ख
व्राह्मण उवाच:
एको ह्यग्निः सुमना व्राह्मणोऽत्र; पञ्चेन्द्रिय़ाणि समिधश्चात्र सन्ति |
१४ क
व्राह्मण उवाच:
तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्यतिथय़ः फलाशाः ||
१४ ख
व्राह्मण उवाच:
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षय़ः |
१५ क
व्राह्मण उवाच:
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ||
१५ ख
व्राह्मण उवाच:
प्रतिज्ञावृक्षमफलं शान्तिच्छाय़ासमन्वितम् |
१६ क
व्राह्मण उवाच:
ज्ञानाश्रय़ं तृप्तितोय़मन्तःक्षेत्रज्ञभास्करम् ||
१६ ख
व्राह्मण उवाच:
येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भय़ं पुनः |
१७ क
व्राह्मण उवाच:
ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ||
१७ ख
व्राह्मण उवाच:
सप्त स्त्रिय़स्तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः |
१८ क
व्राह्मण उवाच:
ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान्यथा सर्वमनित्यतां च ||
१८ ख
व्राह्मण उवाच:
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदय़न्ति च |
१९ क
व्राह्मण उवाच:
सप्त सप्तर्षय़ः सिद्धा वसिष्ठप्रमुखाः सह ||
१९ ख
व्राह्मण उवाच:
यशो वर्चो भगश्चैव विजय़ः सिद्धितेजसी |
२० क
व्राह्मण उवाच:
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ||
२० ख
व्राह्मण उवाच:
गिरय़ः पर्वताश्चैव सन्ति तत्र समासतः |
२१ क
व्राह्मण उवाच:
नद्यश्च सरितो वारि वहन्त्यो व्रह्मसम्भवम् ||
२१ ख
व्राह्मण उवाच:
नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे |
२२ क
व्राह्मण उवाच:
स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ||
२२ ख
व्राह्मण उवाच:
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्विषाः |
२३ क
व्राह्मण उवाच:
आत्मन्यात्मानमावेश्य व्रह्माणं समुपासते ||
२३ ख
व्राह्मण उवाच:
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः |
२४ क
व्राह्मण उवाच:
तदरण्यमभिप्रेत्य यथाधीरमजाय़त ||
२४ ख
व्राह्मण उवाच:
एतदेतादृशं दिव्यमरण्यं व्राह्मणा विदुः |
२५ क
व्राह्मण उवाच:
विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ||
२५ ख