chevron_left द्रोण पर्व अध्याय ३९
सञ्जय़ उवाच:
शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् |
१ क
सञ्जय़ उवाच:
अभिमन्युः स्मय़न्धीमान्दुःशासनमथाव्रवीत् ||
१ ख
सञ्जय़ उवाच:
दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शत्रुमागतम् |
२ क
सञ्जय़ उवाच:
निष्ठुरं त्यक्तधर्माणमाक्रोशनपराय़णम् ||
२ ख
सञ्जय़ उवाच:
यत्सभाय़ां त्वय़ा राज्ञो धृतराष्ट्रस्य शृण्वतः |
३ क
सञ्जय़ उवाच:
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः |
३ ख
सञ्जय़ उवाच:
जय़ोन्मत्तेन भीमश्च वह्ववद्धं प्रभाषता ||
३ ग
सञ्जय़ उवाच:
परवित्तापहारस्य क्रोधस्याप्रशमस्य च |
४ क
सञ्जय़ उवाच:
लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ||
४ ख
सञ्जय़ उवाच:
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् |
५ क
सञ्जय़ उवाच:
तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् ||
५ ख
सञ्जय़ उवाच:
सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते |
६ क
सञ्जय़ उवाच:
शासितास्म्यद्य ते वाणैः सर्वसैन्यस्य पश्यतः ||
६ ख
सञ्जय़ उवाच:
अद्याहमनृणस्तस्य कोपस्य भविता रणे |
७ क
सञ्जय़ उवाच:
अमर्षिताय़ाः कृष्णाय़ाः काङ्क्षितस्य च मे पितुः ||
७ ख
सञ्जय़ उवाच:
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि |
८ क
सञ्जय़ उवाच:
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ||
८ ख
सञ्जय़ उवाच:
एवमुक्त्वा महावाहुर्वाणं दुःशासनान्तकम् |
९ क
सञ्जय़ उवाच:
सन्दधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ||
९ ख
सञ्जय़ उवाच:
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् |
१० क
सञ्जय़ उवाच:
अथैनं पञ्चविंशत्या पुनश्चैव समर्पय़त् ||
१० ख
सञ्जय़ उवाच:
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् |
११ क
सञ्जय़ उवाच:
दुःशासनो महाराज कश्मलं चाविशन्महत् ||
११ ख
सञ्जय़ उवाच:
सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् |
१२ क
सञ्जय़ उवाच:
रणमध्यादपोवाह सौभद्रशरपीडितम् ||
१२ ख
सञ्जय़ उवाच:
पाण्डवा द्रौपदेय़ाश्च विराटश्च समीक्ष्य तम् |
१३ क
सञ्जय़ उवाच:
पाञ्चालाः केकय़ाश्चैव सिंहनादमथानदन् ||
१३ ख
सञ्जय़ उवाच:
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः |
१४ क
सञ्जय़ उवाच:
प्रावादय़न्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ||
१४ ख
सञ्जय़ उवाच:
पश्यन्तः स्मय़मानाश्च सौभद्रस्य विचेष्टितम् |
१५ क
सञ्जय़ उवाच:
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ||
१५ ख
सञ्जय़ उवाच:
धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा |
१६ क
सञ्जय़ उवाच:
धारय़न्तो ध्वजाग्रेषु द्रौपदेय़ा महारथाः ||
१६ ख
सञ्जय़ उवाच:
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ |
१७ क
सञ्जय़ उवाच:
केकय़ा धृष्टकेतुश्च मत्स्यपाञ्चालसृञ्जय़ाः ||
१७ ख
सञ्जय़ उवाच:
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः |
१८ क
सञ्जय़ उवाच:
अभ्यवर्तन्त सहिता द्रोणानीकं विभित्सवः ||
१८ ख
सञ्जय़ उवाच:
ततोऽभवन्महद्युद्धं त्वदीय़ानां परैः सह |
१९ क
सञ्जय़ उवाच:
जय़माकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ||
१९ ख
सञ्जय़ उवाच:
दुर्योधनो महाराज राधेय़मिदमव्रवीत् |
२० क
सञ्जय़ उवाच:
पश्य दुःशासनं वीरमभिमन्युवशं गतम् ||
२० ख
सञ्जय़ उवाच:
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे |
२१ क
सञ्जय़ उवाच:
सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः ||
२१ ख
सञ्जय़ उवाच:
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् |
२२ क
सञ्जय़ उवाच:
अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ||
२२ ख
सञ्जय़ उवाच:
तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः |
२३ क
सञ्जय़ उवाच:
अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे ||
२३ ख
सञ्जय़ उवाच:
अभिमन्युस्तु राधेय़ं त्रिसप्तत्या शिलीमुखैः |
२४ क
सञ्जय़ उवाच:
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ||
२४ ख
सञ्जय़ उवाच:
तं तदा नाशकत्कश्चिद्द्रोणाद्वारय़ितुं रणे |
२५ क
सञ्जय़ उवाच:
आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् ||
२५ ख
सञ्जय़ उवाच:
ततः कर्णो जय़प्रेप्सुर्मानी सर्वधनुर्भृताम् |
२६ क
सञ्जय़ उवाच:
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शय़न् ||
२६ ख
सञ्जय़ उवाच:
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् |
२७ क
सञ्जय़ उवाच:
समरे शत्रुदुर्धर्षमभिमन्युमपीडय़त् ||
२७ ख
सञ्जय़ उवाच:
स तथा पीड्यमानस्तु राधेय़ेनास्त्रवृष्टिभिः |
२८ क
सञ्जय़ उवाच:
समरेऽमरसङ्काशः सौभद्रो न व्यषीदत ||
२८ ख
सञ्जय़ उवाच:
ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः |
२९ क
सञ्जय़ उवाच:
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दय़त् |
२९ ख
सञ्जय़ उवाच:
स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातय़त् ||
२९ ग
सञ्जय़ उवाच:
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः |
३० क
सञ्जय़ उवाच:
सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ||
३० ख
सञ्जय़ उवाच:
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः |
३१ क
सञ्जय़ उवाच:
वादित्राणि च सञ्जघ्नुः सौभद्रं चापि तुष्टुवुः ||
३१ ख