सञ्जय़ उवाच:
धर्मे नित्या पाण्डव ते विचेष्टा; लोके श्रुता दृश्यते चापि पार्थ |
१ क
सञ्जय़ उवाच:
महास्रावं जीवितं चाप्यनित्यं; सम्पश्य त्वं पाण्डव मा विनीनशः ||
१ ख
सञ्जय़ उवाच:
न चेद्भागं कुरवोऽन्यत्र युद्धा; त्प्रय़च्छन्ते तुभ्यमजातशत्रो |
२ क
सञ्जय़ उवाच:
भैक्षचर्यामन्धकवृष्णिराज्ये; श्रेय़ो मन्ये न तु युद्धेन राज्यम् ||
२ ख
सञ्जय़ उवाच:
अल्पकालं जीवितं यन्मनुष्ये; महास्रावं नित्यदुःखं चलं च |
३ क
सञ्जय़ उवाच:
भूय़श्च तद्वय़सो नानुरूपं; तस्मात्पापं पाण्डव मा प्रसार्षीः ||
३ ख
सञ्जय़ उवाच:
कामा मनुष्यं प्रसजन्त एव; धर्मस्य ये विघ्नमूलं नरेन्द्र |
४ क
सञ्जय़ उवाच:
पूर्वं नरस्तान्धृतिमान्विनिघ्नँ; ल्लोके प्रशंसां लभतेऽनवद्याम् ||
४ ख
सञ्जय़ उवाच:
निवन्धनी ह्यर्थतृष्णेह पार्थ; तामेषतो वाध्यते धर्म एव |
५ क
सञ्जय़ उवाच:
धर्मं तु यः प्रवृणीते स वुद्धः; कामे गृद्धो हीय़तेऽर्थानुरोधात् ||
५ ख
सञ्जय़ उवाच:
धर्मं कृत्वा कर्मणां तात मुख्यं; महाप्रतापः सवितेव भाति |
६ क
सञ्जय़ उवाच:
हानेन धर्मस्य महीमपीमां; लव्ध्वा नरः सीदति पापवुद्धिः ||
६ ख
सञ्जय़ उवाच:
वेदोऽधीतश्चरितं व्रह्मचर्यं; यज्ञैरिष्टं व्राह्मणेभ्यश्च दत्तम् |
७ क
सञ्जय़ उवाच:
परं स्थानं मन्यमानेन भूय़; आत्मा दत्तो वर्षपूगं सुखेभ्यः ||
७ ख
सञ्जय़ उवाच:
सुखप्रिय़े सेवमानोऽतिवेलं; योगाभ्यासे यो न करोति कर्म |
८ क
सञ्जय़ उवाच:
वित्तक्षय़े हीनसुखोऽतिवेलं; दुःखं शेते कामवेगप्रणुन्नः ||
८ ख
सञ्जय़ उवाच:
एवं पुनरर्थचर्याप्रसक्तो; हित्वा धर्मं यः प्रकरोत्यधर्मम् |
९ क
सञ्जय़ उवाच:
अश्रद्दधत्परलोकाय़ मूढो; हित्वा देहं तप्यते प्रेत्य मन्दः ||
९ ख
सञ्जय़ उवाच:
न कर्मणां विप्रणाशोऽस्त्यमुत्र; पुण्यानां वाप्यथ वा पापकानाम् |
१० क
सञ्जय़ उवाच:
पूर्वं कर्तुर्गच्छति पुण्यपापं; पश्चात्त्वेतदनुय़ात्येव कर्ता ||
१० ख
सञ्जय़ उवाच:
न्याय़ोपेतं व्राह्मणेभ्यो यदन्नं; श्रद्धापूतं गन्धरसोपपन्नम् |
११ क
सञ्जय़ उवाच:
अन्वाहार्येषूत्तमदक्षिणेषु; तथारूपं कर्म विख्याय़ते ते ||
११ ख
सञ्जय़ उवाच:
इह क्षेत्रे क्रिय़ते पार्थ कार्यं; न वै किञ्चिद्विद्यते प्रेत्य कार्यम् |
१२ क
सञ्जय़ उवाच:
कृतं त्वय़ा पारलोक्यं च कार्यं; पुण्यं महत्सद्भिरनुप्रशस्तम् ||
१२ ख
सञ्जय़ उवाच:
जहाति मृत्युं च जरां भय़ं च; न क्षुत्पिपासे मनसश्चाप्रिय़ाणि |
१३ क
सञ्जय़ उवाच:
न कर्तव्यं विद्यते तत्र किं चि; दन्यत्र वै इन्द्रिय़प्रीणनार्थात् ||
१३ ख
सञ्जय़ उवाच:
एवंरूपं कर्मफलं नरेन्द्र; मात्रावता हृदय़स्य प्रिय़ेण |
१४ क
सञ्जय़ उवाच:
स क्रोधजं पाण्डव हर्षजं च; लोकावुभौ मा प्रहासीश्चिराय़ ||
१४ ख
सञ्जय़ उवाच:
अन्तं गत्वा कर्मणां या प्रशंसा; सत्यं दमश्चार्जवमानृशंस्यम् |
१५ क
सञ्जय़ उवाच:
अश्वमेधो राजसूय़स्तथेष्टः; पापस्यान्तं कर्मणो मा पुनर्गाः ||
१५ ख
सञ्जय़ उवाच:
तच्चेदेवं देशरूपेण पार्थाः; करिष्यध्वं कर्म पापं चिराय़ |
१६ क
सञ्जय़ उवाच:
निवसध्वं वर्षपूगान्वनेषु; दुःखं वासं पाण्डवा धर्महेतोः ||
१६ ख
सञ्जय़ उवाच:
अप्रव्रज्ये योजय़ित्वा पुरस्ता; दात्माधीनं यद्वलं ते तदासीत् |
१७ क
सञ्जय़ उवाच:
नित्यं पाञ्चालाः सचिवास्तवेमे; जनार्दनो युय़ुधानश्च वीरः ||
१७ ख
सञ्जय़ उवाच:
मत्स्यो राजा रुक्मरथः सपुत्रः; प्रहारिभिः सह पुत्रैर्विराटः |
१८ क
सञ्जय़ उवाच:
राजानश्च ये विजिताः पुरस्ता; त्त्वामेव ते संश्रय़ेय़ुः समस्ताः ||
१८ ख
सञ्जय़ उवाच:
महासहाय़ः प्रतपन्वलस्थः; पुरस्कृतो वासुदेवार्जुनाभ्याम् |
१९ क
सञ्जय़ उवाच:
वरान्हनिष्यन्द्विषतो रङ्गमध्ये; व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ||
१९ ख
सञ्जय़ उवाच:
वलं कस्माद्वर्धय़ित्वा परस्य; निजान्कस्मात्कर्शय़ित्वा सहाय़ान् |
२० क
सञ्जय़ उवाच:
निरुष्य कस्माद्वर्षपूगान्वनेषु; युय़ुत्ससे पाण्डव हीनकालम् ||
२० ख
सञ्जय़ उवाच:
अप्रज्ञो वा पाण्डव युध्यमानो; अधर्मज्ञो वा भूतिपथाद्व्यपैति |
२१ क
सञ्जय़ उवाच:
प्रज्ञावान्वा वुध्यमानोऽपि धर्मं; संरम्भाद्वा सोऽपि भूतेरपैति ||
२१ ख
सञ्जय़ उवाच:
नाधर्मे ते धीय़ते पार्थ वुद्धि; र्न संरम्भात्कर्म चकर्थ पापम् |
२२ क
सञ्जय़ उवाच:
अद्धा किं तत्कारणं यस्य हेतोः; प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ||
२२ ख
सञ्जय़ उवाच:
अव्याधिजं कटुकं शीर्षरोगं; यशोमुषं पापफलोदय़ं च |
२३ क
सञ्जय़ उवाच:
सतां पेय़ं यन्न पिवन्त्यसन्तो; मन्युं महाराज पिव प्रशाम्य ||
२३ ख
सञ्जय़ उवाच:
पापानुवन्धं को नु तं कामय़ेत; क्षमैव ते ज्याय़सी नोत भोगाः |
२४ क
सञ्जय़ उवाच:
यत्र भीष्मः शान्तनवो हतः स्या; द्यत्र द्रोणः सहपुत्रो हतः स्यात् ||
२४ ख
सञ्जय़ उवाच:
कृपः शल्यः सौमदत्तिर्विकर्णो; विविंशतिः कर्णदुर्योधनौ च |
२५ क
सञ्जय़ उवाच:
एतान्हत्वा कीदृशं तत्सुखं स्या; द्यद्विन्देथास्तदनुव्रूहि पार्थ ||
२५ ख
सञ्जय़ उवाच:
लव्ध्वापीमां पृथिवीं सागरान्तां; जरामृत्यू नैव हि त्वं प्रजह्याः |
२६ क
सञ्जय़ उवाच:
प्रिय़ाप्रिय़े सुखदुःखे च राज; न्नेवं विद्वान्नैव युद्धं कुरुष्व ||
२६ ख
सञ्जय़ उवाच:
अमात्यानां यदि कामस्य हेतो; रेवंय़ुक्तं कर्म चिकीर्षसि त्वम् |
२७ क
सञ्जय़ उवाच:
अपाक्रमेः सम्प्रदाय़ स्वमेभ्यो; मा गास्त्वं वै देवय़ानात्पथोऽद्य ||
२७ ख