सञ्जय़ उवाच:
यिय़ासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् |
१ क
सञ्जय़ उवाच:
अप्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय़ पाण्डुरान् ||
१ ख
सञ्जय़ उवाच:
तं प्रय़ान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् |
२ क
सञ्जय़ उवाच:
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वय़ात् ||
२ ख
सञ्जय़ उवाच:
ततः श्वेतहय़ः कृष्णमव्रवीदजितं जय़ः |
३ क
सञ्जय़ उवाच:
एष मां भ्रातृभिः सार्धं सुशर्माह्वय़तेऽच्युत ||
३ ख
सञ्जय़ उवाच:
दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन |
४ क
सञ्जय़ उवाच:
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ||
४ ख
सञ्जय़ उवाच:
किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् |
५ क
सञ्जय़ उवाच:
इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ||
५ ख
सञ्जय़ उवाच:
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तय़त् |
६ क
सञ्जय़ उवाच:
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वय़त् ||
६ ख
सञ्जय़ उवाच:
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः |
७ क
सञ्जय़ उवाच:
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ||
७ ख
सञ्जय़ उवाच:
त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिराय़सैः |
८ क
सञ्जय़ उवाच:
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षय़म् ||
८ ख
सञ्जय़ उवाच:
ततो भुजगसङ्काशां सुशर्मा शक्तिमाय़सीम् |
९ क
सञ्जय़ उवाच:
चिक्षेपार्जुनमादिश्य वासुदेवाय़ तोमरम् ||
९ ख
सञ्जय़ उवाच:
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः |
१० क
सञ्जय़ उवाच:
सुशर्माणं शरव्रातैर्मोहय़ित्वा न्यवर्तत ||
१० ख
सञ्जय़ उवाच:
तं वासवमिवाय़ान्तं भूरिवर्षशरौघिणम् |
११ क
सञ्जय़ उवाच:
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारय़त् ||
११ ख
सञ्जय़ उवाच:
ततो धनञ्जय़ो वाणैस्तत एव महारथान् |
१२ क
सञ्जय़ उवाच:
आय़ाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ||
१२ ख
सञ्जय़ उवाच:
तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः |
१३ क
सञ्जय़ उवाच:
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ||
१३ ख
सञ्जय़ उवाच:
संवेष्टय़न्ननीकानि शरवर्षेण पाण्डवः |
१४ क
सञ्जय़ उवाच:
सुपर्णपातवद्राजन्नाय़ात्प्राग्ज्योतिषं प्रति ||
१४ ख
सञ्जय़ उवाच:
यत्तदानामय़ज्जिष्णुर्भरतानामपाय़िनाम् |
१५ क
सञ्जय़ उवाच:
धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम् ||
१५ ख
सञ्जय़ उवाच:
तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः |
१६ क
सञ्जय़ उवाच:
कृते क्षत्रविनाशाय़ धनुराय़च्छदर्जुनः ||
१६ ख
सञ्जय़ उवाच:
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी |
१७ क
सञ्जय़ उवाच:
व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ||
१७ ख
सञ्जय़ उवाच:
ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् |
१८ क
सञ्जय़ उवाच:
मतिं कृत्वा रणे क्रुद्धा वीरा जय़पराजय़े ||
१८ ख
सञ्जय़ उवाच:
व्यपेतहृदय़त्रास आपद्धर्मातिगो रथः |
१९ क
सञ्जय़ उवाच:
आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ||
१९ ख
सञ्जय़ उवाच:
यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहाय़नः |
२० क
सञ्जय़ उवाच:
मृद्नीय़ात्तद्वदाय़स्तः पार्थोऽमृद्नाच्चमूं तव ||
२० ख
सञ्जय़ उवाच:
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः |
२१ क
सञ्जय़ उवाच:
तेन नागेन सहसा धनञ्जय़मुपाद्रवत् ||
२१ ख
सञ्जय़ उवाच:
तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् |
२२ क
सञ्जय़ उवाच:
स संनिपातस्तुमुलो वभूव रथनागय़ोः ||
२२ ख
सञ्जय़ उवाच:
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च |
२३ क
सञ्जय़ उवाच:
सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जय़ौ ||
२३ ख
सञ्जय़ उवाच:
ततो जीमूतसङ्काशान्नागादिन्द्र इवाभिभूः |
२४ क
सञ्जय़ उवाच:
अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जय़म् ||
२४ ख
सञ्जय़ उवाच:
स चापि शरवर्षं तच्छरवर्षेण वासविः |
२५ क
सञ्जय़ उवाच:
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ||
२५ ख
सञ्जय़ उवाच:
ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् |
२६ क
सञ्जय़ उवाच:
शरैर्जघ्ने महावाहुं पार्थं कृष्णं च भारत ||
२६ ख
सञ्जय़ उवाच:
ततः स शरजालेन महताभ्यवकीर्य तौ |
२७ क
सञ्जय़ उवाच:
चोदय़ामास तं नागं वधाय़ाच्युतपार्थय़ोः ||
२७ ख
सञ्जय़ उवाच:
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् |
२८ क
सञ्जय़ उवाच:
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ||
२८ ख
सञ्जय़ उवाच:
सम्प्राप्तमपि नेय़ेष परावृत्तं महाद्विपम् |
२९ क
सञ्जय़ उवाच:
सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जय़ः ||
२९ ख
सञ्जय़ उवाच:
स तु नागो द्विपरथान्हय़ांश्चारुज्य मारिष |
३० क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ ततोऽक्रुध्यद्धनञ्जय़ः ||
३० ख