सञ्जय़ उवाच:
प्रय़ानेव तदा कर्णो हर्षय़न्वाहिनीं तव |
१ क
सञ्जय़ उवाच:
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ||
१ ख
सञ्जय़ उवाच:
यो ममाद्य महात्मानं दर्शय़ेच्छ्वेतवाहनम् |
२ क
सञ्जय़ उवाच:
तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति ||
२ ख
सञ्जय़ उवाच:
स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः |
३ क
सञ्जय़ उवाच:
शकटं रत्नसम्पूर्णं यो मे व्रूय़ाद्धनञ्जय़म् ||
३ ख
सञ्जय़ उवाच:
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् |
४ क
सञ्जय़ उवाच:
अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम् ||
४ ख
सञ्जय़ उवाच:
तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम् |
५ क
सञ्जय़ उवाच:
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ||
५ ख
सञ्जय़ उवाच:
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् |
६ क
सञ्जय़ उवाच:
अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हय़ान् ||
६ ख
सञ्जय़ उवाच:
हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान् |
७ क
सञ्जय़ उवाच:
सुदान्तानपि चैवाहं दद्यामष्टशतान्परान् ||
७ ख
सञ्जय़ उवाच:
रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम् |
८ क
सञ्जय़ उवाच:
युक्तं परमकाम्वोजैर्यो मे व्रूय़ाद्धनञ्जय़म् ||
८ ख
सञ्जय़ उवाच:
अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट् |
९ क
सञ्जय़ उवाच:
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः |
९ ख
सञ्जय़ उवाच:
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः ||
९ ग
सञ्जय़ उवाच:
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् |
१० क
सञ्जय़ उवाच:
अन्यं तस्मै वरं दद्यां यमसौ कामय़ेत्स्वय़म् ||
१० ख
सञ्जय़ उवाच:
पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे |
११ क
सञ्जय़ उवाच:
तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति ||
११ ख
सञ्जय़ उवाच:
हत्वा च सहितौ कृष्णौ तय़ोर्वित्तानि सर्वशः |
१२ क
सञ्जय़ उवाच:
तस्मै दद्यामहं यो मे प्रव्रूय़ात्केशवार्जुनौ ||
१२ ख
सञ्जय़ उवाच:
एता वाचः सुवहुशः कर्ण उच्चारय़न्युधि |
१३ क
सञ्जय़ उवाच:
दध्मौ सागरसम्भूतं सुस्वनं शङ्खमुत्तमम् ||
१३ ख
सञ्जय़ उवाच:
ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु |
१४ क
सञ्जय़ उवाच:
दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत् ||
१४ ख
सञ्जय़ उवाच:
ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः |
१५ क
सञ्जय़ उवाच:
सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः ||
१५ ख
सञ्जय़ उवाच:
प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ |
१६ क
सञ्जय़ उवाच:
योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः ||
१६ ख
सञ्जय़ उवाच:
तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम् |
१७ क
सञ्जय़ उवाच:
विकत्थमानं समरे राधेय़मरिकर्शनम् |
१७ ख
सञ्जय़ उवाच:
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ||
१७ ग
सञ्जय़ उवाच:
मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम् |
१८ क
सञ्जय़ उवाच:
प्रय़च्छ पुरुषाय़ाद्य द्रक्ष्यसि त्वं धनञ्जय़म् ||
१८ ख
सञ्जय़ उवाच:
वाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा |
१९ क
सञ्जय़ उवाच:
अय़त्नेनैव राधेय़ द्रष्टास्यद्य धनञ्जय़म् ||
१९ ख
सञ्जय़ उवाच:
परासृजसि मिथ्या किं किं च त्वं वहु मूढवत् |
२० क
सञ्जय़ उवाच:
अपात्रदाने ये दोषास्तान्मोहान्नाववुध्यसे ||
२० ख
सञ्जय़ उवाच:
यत्प्रवेदय़से वित्तं वहुत्वेन खलु त्वय़ा |
२१ क
सञ्जय़ उवाच:
शक्यं वहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ||
२१ ख
सञ्जय़ उवाच:
यच्च प्रार्थय़से हन्तुं कृष्णौ मोहान्मृषैव तत् |
२२ क
सञ्जय़ उवाच:
न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ ||
२२ ख
सञ्जय़ उवाच:
अप्रार्थितं प्रार्थय़से सुहृदो न हि सन्ति ते |
२३ क
सञ्जय़ उवाच:
ये त्वां न वारय़न्त्याशु प्रपतन्तं हुताशने ||
२३ ख
सञ्जय़ उवाच:
कालकार्यं न जानीषे कालपक्वोऽस्यसंशय़म् |
२४ क
सञ्जय़ उवाच:
वह्ववद्धमकर्णीय़ं को हि व्रूय़ाज्जिजीविषुः ||
२४ ख
सञ्जय़ उवाच:
समुद्रतरणं दोर्भ्यां कण्ठे वद्ध्वा यथा शिलाम् |
२५ क
सञ्जय़ उवाच:
गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम् ||
२५ ख
सञ्जय़ उवाच:
सहितः सर्वय़ोधैस्त्वं व्यूढानीकैः सुरक्षितः |
२६ क
सञ्जय़ उवाच:
धनञ्जय़ेन युध्यस्व श्रेय़श्चेत्प्राप्तुमिच्छसि ||
२६ ख
सञ्जय़ उवाच:
हितार्थं धार्तराष्ट्रस्य व्रवीमि त्वा न हिंसय़ा |
२७ क
सञ्जय़ उवाच:
श्रद्धत्स्वैतन्मय़ा प्रोक्तं यदि तेऽस्ति जिजीविषा ||
२७ ख
कर्ण उवाच:
स्ववीर्येऽहं पराश्वस्य प्रार्थय़ाम्यर्जुनं रणे |
२८ क
कर्ण उवाच:
त्वं तु मित्रमुखः शत्रुर्मां भीषय़ितुमिच्छसि ||
२८ ख
कर्ण उवाच:
न मामस्मादभिप्राय़ात्कश्चिदद्य निवर्तय़ेत् |
२९ क
कर्ण उवाच:
अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति ||
२९ ख
सञ्जय़ उवाच:
इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः |
३० क
सञ्जय़ उवाच:
चुकोपय़िषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ||
३० ख
सञ्जय़ उवाच:
यदा वै त्वां फल्गुनवेगनुन्ना; ज्याचोदिता हस्तवता विसृष्टाः |
३१ क
सञ्जय़ उवाच:
अन्वेतारः कङ्कपत्राः शिताग्रा; स्तदा तप्स्यस्यर्जुनस्याभिय़ोगात् ||
३१ ख
सञ्जय़ उवाच:
यदा दिव्यं धनुरादाय़ पार्थः; प्रभासय़न्पृतनां सव्यसाची |
३२ क
सञ्जय़ उवाच:
त्वामर्दय़ेत निशितैः पृषत्कै; स्तदा पश्चात्तप्स्यसे सूतपुत्र ||
३२ ख
सञ्जय़ उवाच:
वालश्चन्द्रं मातुरङ्के शय़ानो; यथा कश्चित्प्रार्थय़तेऽपहर्तुम् |
३३ क
सञ्जय़ उवाच:
तद्वन्मोहाद्यतमानो रथस्थ; स्त्वं प्रार्थय़स्यर्जुनमद्य जेतुम् ||
३३ ख
सञ्जय़ उवाच:
त्रिशूलमाश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि त्वम् |
३४ क
सञ्जय़ उवाच:
सुतीक्ष्णधारोपमकर्मणा त्वं; युय़ुत्ससे योऽर्जुनेनाद्य कर्ण ||
३४ ख
सञ्जय़ उवाच:
सिद्धं सिंहं केसरिणं वृहन्तं; वालो मूढः क्षुद्रमृगस्तरस्वी |
३५ क
सञ्जय़ उवाच:
समाह्वय़ेत्तद्वदेतत्तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य ||
३५ ख
सञ्जय़ उवाच:
मा सूतपुत्राह्वय़ राजपुत्रं; महावीर्यं केसरिणं यथैव |
३६ क
सञ्जय़ उवाच:
वने सृगालः पिशितस्य तृप्तो; मा पार्थमासाद्य विनङ्क्ष्यसि त्वम् ||
३६ ख
सञ्जय़ उवाच:
ईषादन्तं महानागं प्रभिन्नकरटामुखम् |
३७ क
सञ्जय़ उवाच:
शशकाह्वय़से युद्धे कर्ण पार्थं धनञ्जय़म् ||
३७ ख
सञ्जय़ उवाच:
विलस्थं कृष्णसर्पं त्वं वाल्यात्काष्ठेन विध्यसि |
३८ क
सञ्जय़ उवाच:
महाविषं पूर्णकोशं यत्पार्थं योद्धुमिच्छसि ||
३८ ख
सञ्जय़ उवाच:
सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि |
३९ क
सञ्जय़ उवाच:
सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम् ||
३९ ख
सञ्जय़ उवाच:
सुपर्णं पतगश्रेष्ठं वैनतेय़ं तरस्विनम् |
४० क
सञ्जय़ उवाच:
लट्वेवाह्वय़से पाते कर्ण पार्थं धनञ्जय़म् ||
४० ख
सञ्जय़ उवाच:
सर्वाम्भोनिलय़ं भीममूर्मिमन्तं झषाय़ुतम् |
४१ क
सञ्जय़ उवाच:
चन्द्रोदय़े विवर्तन्तमप्लवः सन्तितीर्षसि ||
४१ ख
सञ्जय़ उवाच:
ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् |
४२ क
सञ्जय़ उवाच:
वत्स आह्वय़से युद्धे कर्ण पार्थं धनञ्जय़म् ||
४२ ख
सञ्जय़ उवाच:
महाघोषं महामेघं दर्दुरः प्रतिनर्दसि |
४३ क
सञ्जय़ उवाच:
कामतोय़प्रदं लोके नरपर्जन्यमर्जुनम् ||
४३ ख
सञ्जय़ उवाच:
यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् |
४४ क
सञ्जय़ उवाच:
तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जय़म् ||
४४ ख
सञ्जय़ उवाच:
सृगालोऽपि वने कर्ण शशैः परिवृतो वसन् |
४५ क
सञ्जय़ उवाच:
मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति ||
४५ ख
सञ्जय़ उवाच:
तथा त्वमपि राधेय़ सिंहमात्मानमिच्छसि |
४६ क
सञ्जय़ उवाच:
अपश्यञ्शत्रुदमनं नरव्याघ्रं धनञ्जय़म् ||
४६ ख
सञ्जय़ उवाच:
व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि |
४७ क
सञ्जय़ उवाच:
समास्थितावेकरथे सूर्याचन्द्रमसाविव ||
४७ ख
सञ्जय़ उवाच:
यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे |
४८ क
सञ्जय़ उवाच:
तावदेव त्वय़ा कर्ण शक्यं वक्तुं यथेच्छसि ||
४८ ख
सञ्जय़ उवाच:
रथशव्दधनुःशव्दैर्नादय़न्तं दिशो दश |
४९ क
सञ्जय़ उवाच:
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ||
४९ ख