chevron_left शान्ति पर्व अध्याय २७०
युधिष्ठिर उवाच:
धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत |
१ क
युधिष्ठिर उवाच:
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ||
१ ख
युधिष्ठिर उवाच:
लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम |
२ क
युधिष्ठिर उवाच:
प्राप्य जातिं मनुष्येषु देवैरपि पितामह ||
२ ख
युधिष्ठिर उवाच:
कदा वय़ं करिष्यामः संन्यासं दुःखसञ्ज्ञकम् |
३ क
युधिष्ठिर उवाच:
दुःखमेतच्छरीराणां धारणं कुरुसत्तम ||
३ ख
युधिष्ठिर उवाच:
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः |
४ क
युधिष्ठिर उवाच:
इन्द्रिय़ार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह ||
४ ख
युधिष्ठिर उवाच:
न गच्छन्ति पुनर्भावं मुनय़ः संशितव्रताः |
५ क
युधिष्ठिर उवाच:
कदा वय़ं भविष्यामो राज्यं हित्वा परन्तप ||
५ ख
भीष्म उवाच:
नास्त्यनन्तं महाराज सर्वं सङ्ख्यानगोचरम् |
६ क
भीष्म उवाच:
पुनर्भावोऽपि सङ्ख्यातो नास्ति किञ्चिदिहाचलम् ||
६ ख
भीष्म उवाच:
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः |
७ क
भीष्म उवाच:
उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ ||
७ ख
भीष्म उवाच:
ईशोऽय़ं सततं देही नृपते पुण्यपापय़ोः |
८ क
भीष्म उवाच:
तत एव समुत्थेन तमसा रुध्यतेऽपि च ||
८ ख
भीष्म उवाच:
यथाञ्जनमय़ो वाय़ुः पुनर्मानःशिलं रजः |
९ क
भीष्म उवाच:
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जय़न्दिशः ||
९ ख
भीष्म उवाच:
तथा कर्मफलैर्देही रञ्जितस्तमसावृतः |
१० क
भीष्म उवाच:
विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते ||
१० ख
भीष्म उवाच:
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः |
११ क
भीष्म उवाच:
व्यपोहति तदा व्रह्म प्रकाशेत सनातनम् ||
११ ख
भीष्म उवाच:
अय़त्नसाध्यं मुनय़ो वदन्ति; ये चापि मुक्तास्त उपासितव्याः |
१२ क
भीष्म उवाच:
त्वय़ा च लोकेन च सामरेण; तस्मान्न शाम्यन्ति महर्षिसङ्घाः ||
१२ ख
भीष्म उवाच:
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप |
१३ क
भीष्म उवाच:
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ||
१३ ख
भीष्म उवाच:
निर्जितेनासहाय़ेन हृतराज्येन भारत |
१४ क
भीष्म उवाच:
अशोचता शत्रुमध्ये वुद्धिमास्थाय़ केवलाम् ||
१४ ख
भीष्म उवाच:
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमव्रवीत् |
१५ क
भीष्म उवाच:
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ||
१५ ख
वृत्र उवाच:
सत्येन तपसा चैव विदित्वा सङ्क्षय़ं ह्यहम् |
१६ क
वृत्र उवाच:
न शोचामि न हृष्यामि भूतानामागतिं गतिम् ||
१६ ख
वृत्र उवाच:
कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः |
१७ क
वृत्र उवाच:
परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ||
१७ ख
वृत्र उवाच:
क्षपय़ित्वा तु तं कालं गणितं कालचोदिताः |
१८ क
वृत्र उवाच:
सावशेषेण कालेन सम्भवन्ति पुनः पुनः ||
१८ ख
वृत्र उवाच:
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च |
१९ क
वृत्र उवाच:
निर्गच्छन्त्यवशा जीवाः कालवन्धनवन्धनाः ||
१९ ख
वृत्र उवाच:
एवं संसरमाणानि जीवान्यहमदृष्टवान् |
२० क
वृत्र उवाच:
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ||
२० ख
वृत्र उवाच:
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च |
२१ क
वृत्र उवाच:
सुखदुःखे प्रिय़द्वेष्ये चरित्वा पूर्वमेव च ||
२१ ख
वृत्र उवाच:
कृतान्तविधिसंय़ुक्तं सर्वलोकः प्रपद्यते |
२२ क
वृत्र उवाच:
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ||
२२ ख
भीष्म उवाच:
कालसङ्ख्यानसङ्ख्यातं सृष्टिस्थितिपराय़णम् |
२३ क
भीष्म उवाच:
तं भाषमाणं भगवानुशना प्रत्यभाषत |
२३ ख
भीष्म उवाच:
भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे ||
२३ ग
वृत्र उवाच:
प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम् |
२४ क
वृत्र उवाच:
मय़ा यज्जय़लुव्धेन पुरा तप्तं महत्तपः ||
२४ ख
वृत्र उवाच:
गन्धानादाय़ भूतानां रसांश्च विविधानपि |
२५ क
वृत्र उवाच:
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ||
२५ ख
वृत्र उवाच:
ज्वालामालापरिक्षिप्तो वैहाय़सचरस्तथा |
२६ क
वृत्र उवाच:
अजेय़ः सर्वभूतानामासं नित्यमपेतभीः ||
२६ ख
वृत्र उवाच:
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः |
२७ क
वृत्र उवाच:
धृतिमास्थाय़ भगवन्न शोचामि ततस्त्वहम् ||
२७ ख
वृत्र उवाच:
युय़ुत्सता महेन्द्रेण पुरा सार्धं महात्मना |
२८ क
वृत्र उवाच:
ततो मे भगवान्दृष्टो हरिर्नाराय़णः प्रभुः ||
२८ ख
वृत्र उवाच:
वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः |
२९ क
वृत्र उवाच:
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ||
२९ ख
वृत्र उवाच:
नूनं तु तस्य तपसः सावशेषं ममास्ति वै |
३० क
वृत्र उवाच:
यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम् ||
३० ख
वृत्र उवाच:
ऐश्वर्यं वै महद्व्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् |
३१ क
वृत्र उवाच:
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ||
३१ ख
वृत्र उवाच:
कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः |
३२ क
वृत्र उवाच:
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ||
३२ ख
वृत्र उवाच:
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा |
३३ क
वृत्र उवाच:
व्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि ||
३३ ख
वृत्र उवाच:
इतीदमुक्तः स मुनिस्तदानीं; प्रत्याह यत्तच्छृणु राजसिंह |
३४ क
वृत्र उवाच:
मय़ोच्यमानं पुरुषर्षभ त्व; मनन्यचित्तः सह सोदरीय़ैः ||
३४ ख