वृहदश्व उवाच:
दमय़न्ती तु तच्छ्रुत्वा वचो हंसस्य भारत |
१ क
वृहदश्व उवाच:
तदा प्रभृति नस्वस्था नलं प्रति वभूव सा ||
१ ख
वृहदश्व उवाच:
ततश्चिन्तापरा दीना विवर्णवदना कृशा |
२ क
वृहदश्व उवाच:
वभूव दमय़न्ती तु निःश्वासपरमा तदा ||
२ ख
वृहदश्व उवाच:
ऊर्ध्वदृष्टिर्ध्यानपरा वभूवोन्मत्तदर्शना |
३ क
वृहदश्व उवाच:
न शय़्यासनभोगेषु रतिं विन्दति कर्हिचित् ||
३ ख
वृहदश्व उवाच:
न नक्तं न दिवा शेते हा हेति वदती मुहुः |
४ क
वृहदश्व उवाच:
तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ||
४ ख
वृहदश्व उवाच:
ततो विदर्भपतय़े दमय़न्त्याः सखीगणः |
५ क
वृहदश्व उवाच:
न्यवेदय़त नस्वस्थां दमय़न्तीं नरेश्वर ||
५ ख
वृहदश्व उवाच:
तच्छ्रुत्वा नृपतिर्भीमो दमय़न्तीसखीगणात् |
६ क
वृहदश्व उवाच:
चिन्तय़ामास तत्कार्यं सुमहत्स्वां सुतां प्रति ||
६ ख
वृहदश्व उवाच:
स समीक्ष्य महीपालः स्वां सुतां प्राप्तय़ौवनाम् |
७ क
वृहदश्व उवाच:
अपश्यदात्मनः कार्यं दमय़न्त्याः स्वय़ंवरम् ||
७ ख
वृहदश्व उवाच:
स संनिपातय़ामास महीपालान्विशां पते |
८ क
वृहदश्व उवाच:
अनुभूय़तामय़ं वीराः स्वय़ंवर इति प्रभो ||
८ ख
वृहदश्व उवाच:
श्रुत्वा तु पार्थिवाः सर्वे दमय़न्त्याः स्वय़ंवरम् |
९ क
वृहदश्व उवाच:
अभिजग्मुस्तदा भीमं राजानो भीमशासनात् ||
९ ख
वृहदश्व उवाच:
हस्त्यश्वरथघोषेण नादय़न्तो वसुन्धराम् |
१० क
वृहदश्व उवाच:
विचित्रमाल्याभरणैर्वलैर्दृश्यैः स्वलङ्कृतैः ||
१० ख
वृहदश्व उवाच:
एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ |
११ क
वृहदश्व उवाच:
अटमानौ महात्मानाविन्द्रलोकमितो गतौ ||
११ ख
वृहदश्व उवाच:
नारदः पर्वतश्चैव महात्मानौ महाव्रतौ |
१२ क
वृहदश्व उवाच:
देवराजस्य भवनं विविशाते सुपूजितौ ||
१२ ख
वृहदश्व उवाच:
तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम् |
१३ क
वृहदश्व उवाच:
पप्रच्छानामय़ं चापि तय़ोः सर्वगतं विभुः ||
१३ ख
नारद उवाच:
आवय़ोः कुशलं देव सर्वत्रगतमीश्वर |
१४ क
नारद उवाच:
लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ||
१४ ख
वृहदश्व उवाच:
नारदस्य वचः श्रुत्वा पप्रच्छ वलवृत्रहा |
१५ क
वृहदश्व उवाच:
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितय़ोधिनः ||
१५ ख
वृहदश्व उवाच:
शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः |
१६ क
वृहदश्व उवाच:
अय़ं लोकोऽक्षय़स्तेषां यथैव मम कामधुक् ||
१६ ख
वृहदश्व उवाच:
क्व नु ते क्षत्रिय़ाः शूरा न हि पश्यामि तानहम् |
१७ क
वृहदश्व उवाच:
आगच्छतो महीपालानतिथीन्दय़ितान्मम ||
१७ ख
वृहदश्व उवाच:
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत |
१८ क
वृहदश्व उवाच:
शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः ||
१८ ख
वृहदश्व उवाच:
विदर्भराजदुहिता दमय़न्तीति विश्रुता |
१९ क
वृहदश्व उवाच:
रूपेण समतिक्रान्ता पृथिव्यां सर्वय़ोषितः ||
१९ ख
वृहदश्व उवाच:
तस्याः स्वय़ंवरः शक्र भविता नचिरादिव |
२० क
वृहदश्व उवाच:
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ||
२० ख
वृहदश्व उवाच:
तां रत्नभूतां लोकस्य प्रार्थय़न्तो महीक्षितः |
२१ क
वृहदश्व उवाच:
काङ्क्षन्ति स्म विशेषेण वलवृत्रनिषूदन ||
२१ ख
वृहदश्व उवाच:
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः |
२२ क
वृहदश्व उवाच:
आजग्मुर्देवराजस्य समीपममरोत्तमाः ||
२२ ख
वृहदश्व उवाच:
ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत् |
२३ क
वृहदश्व उवाच:
श्रुत्वा चैवाव्रुवन्हृष्टा गच्छामो वय़मप्युत ||
२३ ख
वृहदश्व उवाच:
ततः सर्वे महाराज सगणाः सहवाहनाः |
२४ क
वृहदश्व उवाच:
विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः ||
२४ ख
वृहदश्व उवाच:
नलोऽपि राजा कौन्तेय़ श्रुत्वा राज्ञां समागमम् |
२५ क
वृहदश्व उवाच:
अभ्यगच्छददीनात्मा दमय़न्तीमनुव्रतः ||
२५ ख
वृहदश्व उवाच:
अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् |
२६ क
वृहदश्व उवाच:
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसम्पदा ||
२६ ख
वृहदश्व उवाच:
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् |
२७ क
वृहदश्व उवाच:
तस्थुर्विगतसङ्कल्पा विस्मिता रूपसम्पदा ||
२७ ख
वृहदश्व उवाच:
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः |
२८ क
वृहदश्व उवाच:
अव्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ||
२८ ख
वृहदश्व उवाच:
भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् |
२९ क
वृहदश्व उवाच:
अस्माकं कुरु साहाय़्यं दूतो भव नरोत्तम ||
२९ ख