मार्कण्डेय़ उवाच:
ततः क्रुद्धो दशग्रीवः प्रिय़े पुत्रे निपातिते |
१ क
मार्कण्डेय़ उवाच:
निर्ययौ रथमास्थाय़ हेमरत्नविभूषितम् ||
१ ख
मार्कण्डेय़ उवाच:
संवृतो राक्षसैर्घोरैर्विविधाय़ुधपाणिभिः |
२ क
मार्कण्डेय़ उवाच:
अभिदुद्राव रामं स पोथय़न्हरिय़ूथपान् ||
२ ख
मार्कण्डेय़ उवाच:
तमाद्रवन्तं सङ्क्रुद्धं मैन्दनीलनलाङ्गदाः |
३ क
मार्कण्डेय़ उवाच:
हनूमाञ्जाम्ववांश्चैव ससैन्याः पर्यवारय़न् ||
३ ख
मार्कण्डेय़ उवाच:
ते दशग्रीवसैन्यं तदृक्षवानरय़ूथपाः |
४ क
मार्कण्डेय़ उवाच:
द्रुमैर्विध्वंसय़ां चक्रुर्दशग्रीवस्य पश्यतः ||
४ ख
मार्कण्डेय़ उवाच:
ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः |
५ क
मार्कण्डेय़ उवाच:
माय़ावी व्यदधान्माय़ां रावणो राक्षसेश्वरः ||
५ ख
मार्कण्डेय़ उवाच:
तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः |
६ क
मार्कण्डेय़ उवाच:
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणय़ः ||
६ ख
मार्कण्डेय़ उवाच:
तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् |
७ क
मार्कण्डेय़ उवाच:
अथ भूय़ोऽपि माय़ां स व्यदधाद्राक्षसाधिपः ||
७ ख
मार्कण्डेय़ उवाच:
कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत |
८ क
मार्कण्डेय़ उवाच:
अभिदुद्राव रामं च लक्ष्मणं च दशाननः ||
८ ख
मार्कण्डेय़ उवाच:
ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः |
९ क
मार्कण्डेय़ उवाच:
अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः ||
९ ख
मार्कण्डेय़ उवाच:
तां दृष्ट्वा राक्षसेन्द्रस्य माय़ामिक्ष्वाकुनन्दनः |
१० क
मार्कण्डेय़ उवाच:
उवाच रामं सौमित्रिरसम्भ्रान्तो वृहद्वचः ||
१० ख
मार्कण्डेय़ उवाच:
जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् |
११ क
मार्कण्डेय़ उवाच:
जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् ||
११ ख
मार्कण्डेय़ उवाच:
ततो हर्यश्वय़ुक्तेन रथेनादित्यवर्चसा |
१२ क
मार्कण्डेय़ उवाच:
उपतस्थे रणे रामं मातलिः शक्रसारथिः ||
१२ ख
मातलिरु उवाच:
अय़ं हर्यश्वय़ुग्जैत्रो मघोनः स्यन्दनोत्तमः |
१३ क
मातलिरु उवाच:
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् |
१३ ख
मातलिरु उवाच:
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ||
१३ ग
मातलिरु उवाच:
तदनेन नरव्याघ्र मय़ा यत्तेन संय़ुगे |
१४ क
मातलिरु उवाच:
स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः ||
१४ ख
मातलिरु उवाच:
इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः |
१५ क
मातलिरु उवाच:
माय़ेय़ं राक्षसस्येति तमुवाच विभीषणः ||
१५ ख
मातलिरु उवाच:
नेय़ं माय़ा नरव्याघ्र रावणस्य दुरात्मनः |
१६ क
मातलिरु उवाच:
तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते ||
१६ ख
मातलिरु उवाच:
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् |
१७ क
मातलिरु उवाच:
रथेनाभिपपाताशु दशग्रीवं रुषान्वितः ||
१७ ख
मातलिरु उवाच:
हाहाकृतानि भूतानि रावणे समभिद्रुते |
१८ क
मातलिरु उवाच:
सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् ||
१८ ख
मातलिरु उवाच:
स रामाय़ महाघोरं विससर्ज निशाचरः |
१९ क
मातलिरु उवाच:
शूलमिन्द्राशनिप्रख्यं व्रह्मदण्डमिवोद्यतम् ||
१९ ख
मातलिरु उवाच:
तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः |
२० क
मातलिरु उवाच:
तद्दृष्ट्वा दुष्करं कर्म रावणं भय़माविशत् ||
२० ख
मातलिरु उवाच:
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान् |
२१ क
मातलिरु उवाच:
सहस्राय़ुतशो रामे शस्त्राणि विविधानि च ||
२१ ख
मातलिरु उवाच:
ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान् |
२२ क
मातलिरु उवाच:
शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः ||
२२ ख
मातलिरु उवाच:
तां माय़ां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः |
२३ क
मातलिरु उवाच:
भय़ात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् ||
२३ ख
मातलिरु उवाच:
ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् |
२४ क
मातलिरु उवाच:
तूणादादाय़ काकुत्स्थो व्रह्मास्त्रेण युय़ोज ह ||
२४ ख
मातलिरु उवाच:
तं वाणवर्यं रामेण व्रह्मास्त्रेणाभिमन्त्रितम् |
२५ क
मातलिरु उवाच:
जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ||
२५ ख
मातलिरु उवाच:
अल्पावशेषमाय़ुश्च ततोऽमन्यन्त रक्षसः |
२६ क
मातलिरु उवाच:
व्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः ||
२६ ख
मातलिरु उवाच:
ततः ससर्ज तं रामः शरमप्रतिमौजसम् |
२७ क
मातलिरु उवाच:
रावणान्तकरं घोरं व्रह्मदण्डमिवोद्यतम् ||
२७ ख
मातलिरु उवाच:
स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः |
२८ क
मातलिरु उवाच:
प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः ||
२८ ख
मातलिरु उवाच:
ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः |
२९ क
मातलिरु उवाच:
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ||
२९ ख
मातलिरु उवाच:
तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् |
३० क
मातलिरु उवाच:
भ्रंशितः सर्वलोकेषु स हि व्रह्मास्त्रतेजसा ||
३० ख
मातलिरु उवाच:
शरीरधातवो ह्यस्य मांसं रुधिरमेव च |
३१ क
मातलिरु उवाच:
नेशुर्व्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत ||
३१ ख