chevron_left शान्ति पर्व अध्याय २७५
युधिष्ठिर उवाच:
शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा |
१ क
युधिष्ठिर उवाच:
उभय़ं मे यथा न स्यात्तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
नारदस्य च संवादं समङ्गस्य च भारत ||
२ ख
नारद उवाच:
उरसेव प्रणमसे वाहुभ्यां तरसीव च |
३ क
नारद उवाच:
सम्प्रहृष्टमना नित्यं विशोक इव लक्ष्यसे ||
३ ख
नारद उवाच:
उद्वेगं नेह ते किञ्चित्सुसूक्ष्ममपि लक्षय़े |
४ क
नारद उवाच:
नित्यतृप्त इव स्वस्थो वालवच्च विचेष्टसे ||
४ ख
समङ्ग उवाच:
भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद |
५ क
समङ्ग उवाच:
तेषां तत्त्वानि जानामि ततो न विमना ह्यहम् ||
५ ख
समङ्ग उवाच:
उपक्रमानहं वेद पुनरेव फलोदय़ान् |
६ क
समङ्ग उवाच:
लोके फलानि चित्राणि ततो न विमना ह्यहम् ||
६ ख
समङ्ग उवाच:
अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद |
७ क
समङ्ग उवाच:
अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः ||
७ ख
समङ्ग उवाच:
विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः |
८ क
समङ्ग उवाच:
वलवन्तोऽवलाश्चैव तद्वदस्मान्सभाजय़ ||
८ ख
समङ्ग उवाच:
सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा |
९ क
समङ्ग उवाच:
शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः ||
९ ख
समङ्ग उवाच:
यदा न शोचेमहि किं नु न स्या; द्धर्मेण वा नारद कर्मणा वा |
१० क
समङ्ग उवाच:
कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन्न विधर्षय़न्ति ||
१० ख
समङ्ग उवाच:
यस्मै प्रज्ञां कथय़न्ते मनुष्याः; प्रज्ञामूलो हीन्द्रिय़ाणां प्रसादः |
११ क
समङ्ग उवाच:
मुह्यन्ति शोचन्ति यदेन्द्रिय़ाणि; प्रज्ञालाभो नास्ति मूढेन्द्रिय़स्य ||
११ ख
समङ्ग उवाच:
मूढस्य दर्पः स पुनर्मोह एव; मूढस्य नाय़ं न परोऽस्ति लोकः |
१२ क
समङ्ग उवाच:
न ह्येव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव ||
१२ ख
समङ्ग उवाच:
भावात्मकं सम्परिवर्तमानं; न मादृशः सञ्ज्वरं जातु कुर्यात् |
१३ क
समङ्ग उवाच:
इष्टान्भोगान्नानुरुध्येत्सुखं वा; न चिन्तय़ेद्दुःखमभ्यागतं वा ||
१३ ख
समङ्ग उवाच:
समाहितो न स्पृहय़ेत्परेषां; नानागतं नाभिनन्देत लाभम् |
१४ क
समङ्ग उवाच:
न चापि हृष्येद्विपुलेऽर्थलाभे; तथार्थनाशे च न वै विषीदेत् ||
१४ ख
समङ्ग उवाच:
न वान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम् |
१५ क
समङ्ग उवाच:
दुःखात्त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम् ||
१५ ख
समङ्ग उवाच:
नास्ति वुद्धिरय़ुक्तस्य नाय़ोगाद्विद्यते सुखम् |
१६ क
समङ्ग उवाच:
धृतिश्च दुःखत्यागश्चाप्युभय़ं नः सुखोदय़म् ||
१६ ख
समङ्ग उवाच:
प्रिय़ं हि हर्षजननं हर्ष उत्सेकवर्धनः |
१७ क
समङ्ग उवाच:
उत्सेको नरकाय़ैव तस्मात्तं सन्त्यजाम्यहम् ||
१७ ख
समङ्ग उवाच:
एताञ्शोकभय़ोत्सेकान्मोहनान्सुखदुःखय़ोः |
१८ क
समङ्ग उवाच:
पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात् ||
१८ ख
समङ्ग उवाच:
अर्थकामौ परित्यज्य विशोको विगतज्वरः |
१९ क
समङ्ग उवाच:
तृष्णामोहौ तु सन्त्यज्य चरामि पृथिवीमिमाम् ||
१९ ख
समङ्ग उवाच:
न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन |
२० क
समङ्ग उवाच:
पीतामृतस्येवात्यन्तमिह चामुत्र वा भय़म् ||
२० ख
समङ्ग उवाच:
एतद्व्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम् |
२१ क
समङ्ग उवाच:
तेन नारद सम्प्राप्तो न मां शोकः प्रवाधते ||
२१ ख