chevron_left शान्ति पर्व अध्याय २७६
युधिष्ठिर उवाच:
अतत्त्वज्ञस्य शास्त्राणां सततं संशय़ात्मनः |
१ क
युधिष्ठिर उवाच:
अकृतव्यवसाय़स्य श्रेय़ो व्रूहि पितामह ||
१ ख
भीष्म उवाच:
गुरुपूजा च सततं वृद्धानां पर्युपासनम् |
२ क
भीष्म उवाच:
श्रवणं चैव विद्यानां कूटस्थं श्रेय़ उच्यते ||
२ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
३ क
भीष्म उवाच:
गालवस्य च संवादं देवर्षेर्नारदस्य च ||
३ ख
भीष्म उवाच:
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रिय़म् |
४ क
भीष्म उवाच:
श्रेय़स्कामं जितात्मानं नारदं गालवोऽव्रवीत् ||
४ ख
भीष्म उवाच:
यैः कैश्चित्संमतो लोके गुणैस्तु पुरुषो नृषु |
५ क
भीष्म उवाच:
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षय़ाम्यहम् ||
५ ख
भीष्म उवाच:
भवानेवंविधोऽस्माकं संशय़ं छेत्तुमर्हति |
६ क
भीष्म उवाच:
अमूढश्चिरमूढानां लोकतत्त्वमजानताम् ||
६ ख
भीष्म उवाच:
ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याकार्ये विजानतः |
७ क
भीष्म उवाच:
यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति ||
७ ख
भीष्म उवाच:
भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः |
८ क
भीष्म उवाच:
इदं श्रेय़ इदं श्रेय़ इति नानाप्रधाविताः ||
८ ख
भीष्म उवाच:
तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः |
९ क
भीष्म उवाच:
स्वशास्त्रैः परितुष्टांश्च श्रेय़ो नोपलभामहे ||
९ ख
भीष्म उवाच:
शास्त्रं यदि भवेदेकं व्यक्तं श्रेय़ो भवेत्तदा |
१० क
भीष्म उवाच:
शास्त्रैश्च वहुभिर्भूय़ः श्रेय़ो गुह्यं प्रवेशितम् ||
१० ख
भीष्म उवाच:
एतस्मात्कारणाच्छ्रेय़ः कलिलं प्रतिभाति माम् |
११ क
भीष्म उवाच:
व्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः ||
११ ख
नारद उवाच:
आश्रमास्तात चत्वारो यथासङ्कल्पिताः पृथक् |
१२ क
नारद उवाच:
तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव ||
१२ ख
नारद उवाच:
तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः |
१३ क
नारद उवाच:
नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् |
१३ ख
नारद उवाच:
नय़न्ति चैव ते सम्यगभिप्रेतमसंशय़म् ||
१३ ग
नारद उवाच:
ऋजु पश्यंस्तथा सम्यगाश्रमाणां परां गतिम् |
१४ क
नारद उवाच:
यत्तु निःश्रेय़सं सम्यक्तच्चैवासंशय़ात्मकम् ||
१४ ख
नारद उवाच:
अनुग्रहं च मित्राणाममित्राणां च निग्रहम् |
१५ क
नारद उवाच:
सङ्ग्रहं च त्रिवर्गस्य श्रेय़ आहुर्मनीषिणः ||
१५ ख
नारद उवाच:
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता |
१६ क
नारद उवाच:
सद्भिश्च समुदाचारः श्रेय़ एतदसंशय़म् ||
१६ ख
नारद उवाच:
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् |
१७ क
नारद उवाच:
वाक्चैव मधुरा प्रोक्ता श्रेय़ एतदसंशय़म् ||
१७ ख
नारद उवाच:
देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि |
१८ क
नारद उवाच:
असन्त्यागश्च भृत्यानां श्रेय़ एतदसंशय़म् ||
१८ ख
नारद उवाच:
सत्यस्य वचनं श्रेय़ः सत्यज्ञानं तु दुष्करम् |
१९ क
नारद उवाच:
यद्भूतहितमत्यन्तमेतत्सत्यं व्रवीम्यहम् ||
१९ ख
नारद उवाच:
अहङ्कारस्य च त्यागः प्रणय़स्य च निग्रहः |
२० क
नारद उवाच:
सन्तोषश्चैकचर्या च कूटस्थं श्रेय़ उच्यते ||
२० ख
नारद उवाच:
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च |
२१ क
नारद उवाच:
विद्यार्थानां च जिज्ञासा श्रेय़ एतदसंशय़म् ||
२१ ख
नारद उवाच:
शव्दरूपरसस्पर्शान्सह गन्धेन केवलान् |
२२ क
नारद उवाच:
नात्यर्थमुपसेवेत श्रेय़सोऽर्थी परन्तप ||
२२ ख
नारद उवाच:
नक्तञ्चर्या दिवास्वप्नमालस्यं पैशुनं मदम् |
२३ क
नारद उवाच:
अतिय़ोगमय़ोगं च श्रेय़सोऽर्थी परित्यजेत् ||
२३ ख
नारद उवाच:
कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दय़ा |
२४ क
नारद उवाच:
स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात् ||
२४ ख
नारद उवाच:
निर्गुणास्त्वेव भूय़िष्ठमात्मसम्भाविनो नराः |
२५ क
नारद उवाच:
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षय़ात् ||
२५ ख
नारद उवाच:
अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात् |
२६ क
नारद उवाच:
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः ||
२६ ख
नारद उवाच:
अव्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णय़न् |
२७ क
नारद उवाच:
विपश्चिद्गुणसम्पन्नः प्राप्नोत्येव महद्यशः ||
२७ ख
नारद उवाच:
अव्रुवन्वाति सुरभिर्गन्धः सुमनसां शुचिः |
२८ क
नारद उवाच:
तथैवाव्याहरन्भाति विमलो भानुरम्वरे ||
२८ ख
नारद उवाच:
एवमादीनि चान्यानि परित्यक्तानि मेधय़ा |
२९ क
नारद उवाच:
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च ||
२९ ख
नारद उवाच:
न लोके दीप्यते मूर्खः केवलात्मप्रशंसय़ा |
३० क
नारद उवाच:
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते ||
३० ख
नारद उवाच:
असन्नुच्चैरपि प्रोक्तः शव्दः समुपशाम्यति |
३१ क
नारद उवाच:
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् ||
३१ ख
नारद उवाच:
मूढानामवलिप्तानामसारं भाषितं वहु |
३२ क
नारद उवाच:
दर्शय़त्यन्तरात्मानं दिवा रूपमिवांशुमान् ||
३२ ख
नारद उवाच:
एतस्मात्कारणात्प्रज्ञां मृगय़न्ते पृथग्विधाम् |
३३ क
नारद उवाच:
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति माम् ||
३३ ख
नारद उवाच:
नापृष्टः कस्यचिद्व्रूय़ान्न चान्याय़ेन पृच्छतः |
३४ क
नारद उवाच:
ज्ञानवानपि मेधावी जडवल्लोकमाचरेत् ||
३४ ख
नारद उवाच:
ततो वासं परीक्षेत धर्मनित्येषु साधुषु |
३५ क
नारद उवाच:
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ||
३५ ख
नारद उवाच:
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् |
३६ क
नारद उवाच:
न तत्र वासं कुर्वीत श्रेय़ोर्थी वै कथञ्चन ||
३६ ख
नारद उवाच:
निरारम्भोऽप्ययमिह यथालव्धोपजीवनः |
३७ क
नारद उवाच:
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुय़ात् ||
३७ ख
नारद उवाच:
अपामग्नेस्तथेन्दोश्च स्पर्शं वेदय़ते यथा |
३८ क
नारद उवाच:
तथा पश्यामहे स्पर्शमुभय़ोः पापपुण्ययोः ||
३८ ख
नारद उवाच:
अपश्यन्तोऽन्नविषय़ं भुञ्जते विघसाशिनः |
३९ क
नारद उवाच:
भुञ्जानं चान्नविषय़ान्विषय़ं विद्धि कर्मणाम् ||
३९ ख
नारद उवाच:
यत्रागमय़मानानामसत्कारेण पृच्छताम् |
४० क
नारद उवाच:
प्रव्रूय़ाद्व्रह्मणो धर्मं त्यजेत्तं देशमात्मवान् ||
४० ख
नारद उवाच:
शिष्योपाध्याय़िका वृत्तिर्यत्र स्यात्सुसमाहिता |
४१ क
नारद उवाच:
यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत् ||
४१ ख
नारद उवाच:
आकाशस्था ध्रुवं यत्र दोषं व्रूय़ुर्विपश्चिताम् |
४२ क
नारद उवाच:
आत्मपूजाभिकामा वै को वसेत्तत्र पण्डितः ||
४२ ख
नारद उवाच:
यत्र संलोडिता लुव्धैः प्राय़शो धर्मसेतवः |
४३ क
नारद उवाच:
प्रदीप्तमिव शैलान्तं कस्तं देशं न सन्त्यजेत् ||
४३ ख
नारद उवाच:
यत्र धर्ममनाशङ्काश्चरेय़ुर्वीतमत्सराः |
४४ क
नारद उवाच:
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ||
४४ ख
नारद उवाच:
धर्ममर्थनिमित्तं तु चरेय़ुर्यत्र मानवाः |
४५ क
नारद उवाच:
न ताननुवसेज्जातु ते हि पापकृतो जनाः ||
४५ ख
नारद उवाच:
कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः |
४६ क
नारद उवाच:
व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव ||
४६ ख
नारद उवाच:
येन खट्वां समारूढः कर्मणानुशय़ी भवेत् |
४७ क
नारद उवाच:
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः ||
४७ ख
नारद उवाच:
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः |
४८ क
नारद उवाच:
कुटुम्विनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् ||
४८ ख
नारद उवाच:
श्रोत्रिय़ास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः |
४९ क
नारद उवाच:
याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् ||
४९ ख
नारद उवाच:
स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः |
५० क